पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1116, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - १५. ] दीपिकासहितम्. १०६९ एतेऽधिकारिणो व्याप्तदर्शिनोऽन्ये न तु क्वचित् । अयोग्यदर्शने यत्नाद्भ्रंशः पूर्वस्य चापि तु ॥ अप्रतीकाश्रया ये हि ते यान्ति परमेव तु । स्वदेहे ब्रह्मदृष्ट्यैव गच्छेद्व्रह्मसलोकताम् ॥ ब्रह्मणा सह सम्प्राप्ते संहारे परमं पदम् । कालम्बना इत्युच्यन्ते । तान् दर्शयितुं प्रतिजानीते—अप्रतीका इति । अप्रतीकालम्बनास्त्वित्यर्थः । उच्यन्ते इति शेषः । तान् दर्शयति—दे वता इति । शतं चेत्युभयत्रान्वयः । एवशब्दोऽन्यव्यावर्तकः । चौ स मुच्चये । एवं तथेत्यपि । गन्धर्वादि च तदप्सरसां शतं चेति विग्रहः । गन्धर्वेष्वप्यष्टकं ग्राह्यम् । एतेषामप्रतीकत्वे हेतुमाह—एतेऽधिकारिणो यतो व्याप्तदर्शिन इति । 'अन्ये' एतद्भिन्ना ऋषयो नरोत्तमाद्याः क्वचिदपि काले व्याप्तदर्शिनस्तद्योग्या न भवन्तीत्यर्थः । 'तत्रैव' दे हादावेव । न तु व्याप्ततयेत्यस्यैव विवरणमेतत् । नन्वयोग्यस्यापि य त्नात्प्राप्तिसम्भव इत्यत आह—अयोग्येति । अयोग्यं च तद्दर्शनं चेति कर्मधारयः । द्रष्टुमयोग्यस्य दर्शनमिति वा । तादर्थ्ये सप्तमी । 'यत्ना त्' श्रवणादिरूपयत्नकरणात् । 'पूर्वस्य' पूर्वोत्पन्नस्यापि दर्शनस्य 'भ्रंशः' तत्फलाभावो भवेदित्यर्थः । अयोग्यत्ववर्जनस्यापीतिकर्त व्यतारूपत्वात्तदभावे फलाभावादिति । विशेषस्तुशब्दार्थः । उभये षflo फलमाह—अप्रतीकाश्रया इति । ये 'अप्रतीकाश्रयाः' व्याप्तविष्णु दर्शनाः 'हि' प्रसिद्धाः ते वैकुण्ठस्थमेव परं यान्ति न कार्यमात्रम् । प्रतीकालम्बनास्तु स्वदेह एव ब्रह्मदृष्ट्या ब्रह्मसलोकतामेव 'गच्छेत्' गच्छेयुः । प्रलयादर्वाक् परब्रह्मसमानलोकत्वमेव प्राप्नुयुः, न तु वैकु ण्ठमित्यर्थः । परब्रह्मणो वैकुण्ठेतरलोकेष्वप्यवस्थानात् । प्रलयपर्य न्तं चतुर्मुखं प्राप्तास्तदुपदेशेन ज्ञानमुज्ज्वलीकुर्वन्तः वैकुण्ठेतरमहरा दिलोकेष्वेवास्ते आसत इति भावः । न च— ईयुस्त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरान् । तत्र मुख्याः हरिं यान्ति तदन्ये वायुमेव तु ॥ अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा। स्थानमात्राश्रितास्ते तु पुनर्जातिविवर्जिताः ॥ इति वचनविरोधः । अत्र 'तत्र' ज्ञानिषु मुख्याः अप्रतीकालम्बनाः ह