पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1115, कुल 1267 में से
संदर्भ में पढ़ें१०६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ३. ] ( १२ ) प्रतीकं देह उद्दिष्टो येषां तत्रैव दर्शनम् । न तु व्याप्तया क्वापि प्रतीकालम्बनास्तु ते ॥ अप्रतीका देवतास्तु ऋषीणां शतमेव च । राज्ञां च शतमुद्दिष्टं गन्धर्वाणां शतं तथा ॥ सप्रतीकाश्चतुर्मुखमप्रतीकाः परमिहैते गच्छन्ति ॥ 'प्रतीकं देहः' इत्यादिश्रुतिस्मृतिसूचकश्च । इतीत्यनन्तरं स इति श्रुतेरर्थ इति शेष इति भावेन सूत्रं व्याचष्टे— प्रतीकमिति । 'स एनान् ब्रह्म गमयति' इति पूर्वभाष्यमिहापि सम्ब ध्यते । प्रथमेतिशब्दात्परोऽर्थशब्दोऽध्याहार्यः। गारुडवचनादित्यस्य आ वृत्त्या उभयत्रान्वयः । तथा च इत्थं योजना—'स एनान् ब्रह्म गमय ति' इत्यत्र वाक्ये 'सः' वायुः 'एनान्' अप्रतीकालम्बनान् परं ब्रह्म 'गमयति' नयति । अन्यांस्तु कार्यं नयतीत्युच्यत इति भगवन्मतम् । कुत एतत् ? उभयत्रोक्तदोषात् । सर्वेषां कार्यप्राप्तिरेव, सर्वेषां परप्रा प्तिरेवेत्यन्यतरनियमपक्षे गत्यनुपपत्त्यादीनां ब्रह्मशब्दामुख्यत्वादीनां च दोषाणामुक्तत्वात् व्यवस्थयोभयप्राप्तिपक्षे च दोषाभावाच्च । न च पक्षद्वयोक्तदोषापातः । गारुडवचनात् अप्रतीकालम्बनान् परं नयति, अन्यान् कार्यं नयतीत्यवगमात् प्राप्तेऽर्थे च दोषाणां यथा कथं चित् प रिहर्तव्यत्वादिति भावः । न च क्रमं विहाय यथेष्टं गमनमस्त्विति वाच्य म् । चशब्दबोधित 'क्रमानुरागी' इतिश्रुतेः । न च 'यत्प्राप्तुमभिवाञ्छ ति तत्प्राप्नोति' इति वचनादैच्छिक्यैव प्राप्तिः न क्रमापेक्षेति वाच्यम्। 'स यथाकामो भवति' (बृ. ६-४-५.) इति बृहदारण्यकश्रुतेस्तत्सिद्धेः । न चात्र उपासनानुक्तिः, यत उपासनं कर्मपदवाच्यमेव । न च क्रमो ऽपि सौकर्यरूप एव, न योग्यतारूप इति वाच्यम् । चशब्दसूचितात् 'प्रतीकं देहः' इत्यादिगारुडवचनात् 'सप्रतीकाश्चतुर्मुखम्' इति व चनाच्च योग्यतारूपत्वेनैव तस्य निश्चितत्वादिति । एवमेव सूत्रयोजना ऽपि द्रष्टव्या ॥ ( १२ ) अधिकारिणो द्विविधाः । प्रतीकालम्बनाप्रतीकालम्बनभेदा त् । तत्रान्योन्याश्रयदोषपरिहारायाद्यान् लक्षणमुखेन दर्शयति—प्र तीकमिति ॥ 'देहो' देहादिः प्रतीकमिति 'उद्दिष्टः' अभिहितः । आ दिशब्दाच्चक्षुरादीन्द्रियं गृह्यते । तत्र देहादावेव एषां ब्रह्मदर्शनं जाय ते । न तु 'क्वापि' काले 'व्याप्ततया' सर्वत्र हरेर्दर्शनमस्ति ते प्रती