पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1112, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - १०. ] दीपिकासहितम्. १०६५ स्तु समीपत एव परमपि प्राप्नोतीत्येतदर्थ एव ॥ ९ ॥ (५) कदा ? सू- ॐ ॥ कार्यात्यये तदध्यक्षेण सहानः परमभिधानात् ॥ ॐ ॥ १०॥ 'ते ह ब्रह्माणमभिसम्पद्य यद्वैतद्वितीयनेऽथ सह ब्रह्म णा परमभिगच्छन्ति' इति सौपर्णश्रुतेर्महाप्रलये तद् ध्यक्षेण ब्रह्मणा सह गच्छन्ति ॥ १० ॥ वक्तीति न विरोध इति वाक्यशेषः । न तु चतुर्मुखप्राप्तिं प्रतिषेध ति, नापि परब्रह्मप्राप्तिं ब्रूते इत्येवशब्दार्थः । तथा चेत्थं योजना- यत स्तद्द्वयपदेशा 'ब्रह्मविदाप्नोति परम्' इति श्रुतिस्तु 'सामीप्यात्' का र्यपरप्राप्त्योः कालसामीप्यनिमित्तादेव प्रवृत्ता ज्ञानी कार्यप्राप्तेः समी पकाल एव कार्यं प्राप्याचिरेणैव परमपि प्राप्नोतीत्येतदर्थमेव वक्ति, न तु कार्यप्राप्तिं प्रतिषेधति, अवधारणशून्यत्वात्, नापि प्रथमत एव प रप्राप्तिं ब्रूते तच्छब्दाभावादिति यावत् । अतो न तद्विरोधः कार्यप्रा प्तिवचनस्येति । सामान्यश्रुतेः 'यदि ह वा' इति विशेषश्रुत्या बाधोप पत्तेरिति भावः ॥ (५) ननु समीपत एव परं ब्रह्म प्राप्नोतीति कोऽर्थः । प्रलयादर्वा क्प्रलय एव वा । नाद्यः । प्रथमं परप्राप्तौ बाधकत्वेनोक्तस्य बद्धत्वस्यात्रा पि बाधकत्वसाम्यात् । तथात्वे वा प्रथममेव परप्राप्त्युपपत्तेः । न द्वि तीयः । विशेषप्रमाणाभावादिति भावेन पृच्छति- कदेति ॥ कस्मिन् काले परं प्राप्नोतीत्यर्थः । तत्परिहाराय सूत्रमुपन्यस्य व्याचष्टे- का र्यात्यय इति । श्रुतेरित्यनेनाभिधानादित्यस्य महाप्रलये इत्यनेन कार्या त्यय इत्यस्य ब्रह्मणत्यनेन तदध्यक्षेनेति पदस्य चार्थ उक्तो भवति । गच्छतीति शेषोक्तिः । अनेन सूत्रे ज्ञानी 'कार्यात्यये' सकलकार्याणां विनाशरूपप्रलये 'तदध्यक्षेण' तेषां कार्याणां स्वामिना चतुर्मुखेन सह 'अतः' चतुर्मुखात्तद्द्वारा 'परं' सर्वोत्तमं ब्रह्म गच्छतीत्यभ्युप गम्यते । अतो नोक्तविकल्पावकाशः, द्वितीयपक्षाङ्गीकारात् । न च बद्धत्वविरोधः । प्रलये ज्ञानिनां लिङ्गशरीरान्मुक्तत्वेन तदभावादिति भावः । न च तत्प्रमाणाभावः 'अभिधानात्' 'ते ह' इति श्रुतेरिति सूत्रार्थ उक्तो भवति । सूत्रे तदध्यक्षेनेत्युक्तिप्रयोजनं चतुर्मुखस्य का र्यप्रपञ्चाधिकृतत्वात्तद्ब्रह्मजिगमिषूणां तेनैव सहगमनं युक्तम् । न तम तिहायेति युक्तिसूचनमिति तत्त्वप्रदीपेऽभिहितम् । श्रुत्यर्थस्तु--'ते' १३४