पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1113, कुल 1267 में से
संदर्भ में पढ़ें( ६ ) सू— ॐ ॥ स्मृतश्च ॥ ॐ ॥ ११ ॥ ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते परात्मानः प्रविशन्ति परं पदम् ॥ इति ॥ ११ ॥ ( ७ ) सू— ॐ ॥ परं जैमिनिर्मुख्यत्वात् ॥ ॐ ॥ १२ ॥ ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् परमेव ब्रह्म गमयती ति जैमिनिर्मन्यते ॥ १२ ॥ ( ८ ) सू— ॐ ॥ दर्शनाच्च ॥ ॐ ॥ १३ ॥ देवेतरज्ञानिनः 'ब्रह्माणं' चतुर्मुखं 'अभिपद्य' प्राप्य 'यदा' यत्काले एतत्कार्यं विलीयते 'अथ' तदा प्रलयकाले कार्यब्रह्मणा सह परं ब्रह्म 'अभि गच्छन्ति' प्राप्नुवन्तीति ॥ ( ६ ) स्मृत्याऽप्येतमर्थं साधयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति— स्मृतेश्चेति ॥ न केवलमभिधानादिति चशब्दार्थः । परे परमात्मनि म नो येषां ते परात्मानः 'सर्वे ते' ज्ञानिनः 'परस्य' ब्रह्मायुषः 'अ न्ते' ब्रह्मणो संवत्सरशतानन्तरं 'प्रतिसञ्चरे' प्रलये संप्राप्ते सति तदा 'ब्रह्मणा' चतुर्मुखेन सह 'परं पदं' ब्रह्म प्रविशन्तीति स्मृत्यर्थः । इति स्मृतेरित्यन्वयः । स्मृतेरित्यस्य कार्यात्यय इति प्रकृतसाध्येना न्वयः । इति ज्ञायत इति शेषः ॥ ( ७ ) पूर्वपक्षान्तरं सूचयत् सूत्रमुपन्यस्यति—परमिति ॥ अत्र मुख्यत्वादिति हेतुं व्याचष्टे—ब्रह्मशब्दस्येति । तत्रैवेति । परब्रह्मण्येवे त्यर्थः । अन्यत्रामुख्यत्वादित्येवशब्दार्थः । परमिति साध्यवाक्यं सो पस्करं व्याचष्टे—परमेवेति । 'स एनान् ब्रह्म गमयति' इति पूर्वभा ष्यमिहापि सम्बध्यते । तच्चावर्तते । एवकारो भिन्नक्रमः । अर्थ इत्य ध्याहारः । तथा च 'स एनान् ब्रह्म गमयति' इत्यत्र वाक्ये 'सः' वायुरेनान् परं ब्रह्म गमयतीत्येवोच्यते, न कार्यमिति जैमिनिराचार्यो मन्यते इति योजना ॥ ( ८ ) ननु ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वेऽपि प्रागुक्तोपपत्तिश्रुति स्मृतिविरोधात्तद्ग्रहणानुपपत्तेरमुख्यार्थकल्पना युक्तेत्याशङ्कां परिहर त्सूत्रमुपन्यस्यति—दर्शनाच्चेति ॥ अत्र परमित्येतत्परस्येति विपरि णामेनानुवर्तते । तेनैवार्थेन चशब्दस्यान्वयः । साध्यसमुच्चयेऽपि चश ब्द इति भावेन सूत्रं व्याचष्टे—दृष्टत्वाच्चेति । चोऽवधारणे । परब्रह्म णश्चेत्यन्वेति । ज्ञानिभिरिति शेषः । अस्य परमेवेति पूर्वेणान्वयः । अ