भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 112, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 112

[ अधि - ४. सू - ४. ] दीपिकासहितम्. ६५ ( ५ ) मां विधत्तेऽभिधत्ते मां विकल्प्योऽपोह्य इत्यहम् । खप्रमाणकत्वे हेतुरिति सूचितं भवति । न केवलमुपपत्त्यादिकं सम- न्वयशब्दार्थः, किन्तु तद्धेतुकः शास्त्रजन्यप्रमागोचरत्वरूपः शास्त्र- योनित्वे हेतुभूतः । “तत्परत्वसंबन्धोऽपि” इति सुधोक्तेः । अनेन ‘स- मन्वयात्’ सावकाशत्वनिरवकाशत्वादिना बलाबलनिश्चयपुरस्सरं अ- न्यतरबाधया वाक्यार्थविमर्शरूपसम्यग्विचारितत्वलक्षणसम्यक्त्व- युक्तादुपक्रमादिशक्तितात्पर्यलिङ्गसमुदायात्समन्वयात् सर्वशास्त्रस्य भगवत्येव सम्यग्वचनवृत्त्या शक्तितात्पर्याख्यसंबन्धावगमात् तद्वि- ष्ण्वाख्यं ब्रह्मैव जगत्कारणतया शास्त्रयोनि न रुद्रादीति ‘समन्वया- त्’ इत्यस्यावृत्त्या सूत्रयोजना दर्शिता भवति ॥ ( ५ ) ननु कर्मविधानादिरूपशास्त्रस्य कथं ब्रह्मपरतेत्याशङ्कां भ- गवद्वाक्येन प्रतिषेधति— मामिति ॥ यद्यपि भागवते “इत्यस्या हृदयं लोकः” इति पाठः, तथा पूर्वोत्तरार्धयोर्व्युत्क्रमेण पाठश्च दृश्यते । त- थाऽप्यार्योक्तेरन्यकल्पीयोऽयमित्यदोषः । एकादशस्कन्धे उद्धवं प्रति कृष्णवचनमेतत् । अत्रास्मच्छब्देन कृष्ण उच्यते । तथा च “वसन्ते वसन्ते” ( ) इत्यादि कर्मविधात्री श्रुतिः ‘मां’ उद्दि- श्यैव मत्पूजात्वेन कर्म विधत्ते । इन्द्राद्यभिधात्री ‘मामभिधत्ते’ मङ्गु- णानैश्वर्यादीनभिधत्ते । ‘अहं विकल्प्यः’ कल्पनं विधानं तथा च— ‘चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति’ (ऋ० १ - १६४ - ४५०) इति श्रुत्या या वाग्वक्तृत्वा॑न्निमित्ताद्वाक्शब्दि- तो हरिः तस्या यानि स्थानापेक्षया ‘परिमितानि’ परिच्छिन्नानि ‘च- त्वारि पदानि’ वासुदेवादि रूपाणि तानि ये मनीषिणः ब्राह्मणाः त एव विदुः । तत्र वाचो हृदयगुहायां निहितानि वासुदेवादि त्रीणि रू- पाणि ‘मनुष्याः’ साधारणाः ‘नेङ्गयन्ति’ न जानन्ति । ‘तुरीयं’ अ- निरुद्धाख्यं तु ‘वदन्ति’ जानन्तीत्येवंरूपेण अहमेव चतुष्ट्वसंख्यावि- शिष्टवासुदेवादि विविधरूपतया बहुत्वेन विधेय इत्यर्थः । ‘अहमपो- ह्यः’ ‘न सुरां पिबेत्’ (मनु० ११ - ९४.) इत्यादिवाक्येनाप्रियादति- शेषः । तथा च “निषेधबुद्धिविषयमप्रियं हि हरेः स्मृतम्” इति भागवततात्पर्योक्तेः सुरापानादिकं मदप्रीतिसाधनत्वात् निषिध्यते ९