पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 113, कुल 1267 में से
संदर्भ में पढ़ें६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन । इति भागवते ॥ ४ ॥ ५. अधिकरणम् ॥ ( १ ) ननु यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । [ ( तै. उ. २-४-१. ) इत्यप्रियद्वारा ‘ न सुरां पिबेत् ’ इत्यादीना अहमेव निषेध्य इत्यर्थः । अथवा—अहमप्रियादपोह्यः ममाप्रीतिकरात्सुरापानशब्दितात् “सुरा हरेर्गुणा मे स्युः” इति चिन्तनात्तदपेक्ष्य अपोह्यो निषेध्य इत्यर्थः । तदुक्तं भागवततात्पर्ये—विधिरूपत्वेन कल्पनं विकल्पः चत्वारि वागित्यादि । तत्र वागित्यनुवादः । विधिभागे हरेः पूजैवाभिधाने च तद्गुणाः । विकल्पे तद्बहुत्वं चाप्यपोहे तु तदप्रियम् । उच्यते सर्ववेदेषु तच्च वेद स एव हि ॥ इति । तथा— सुरा हरेर्गुणाः प्रोक्तास्ते मे स्युरिति चिन्तनम् । सुरापानमिति प्रोक्तं तन्न कुर्यात्कथं चन ॥ इति । तत्त्वप्रदीपे तु-‘द्वे वाव ब्रह्मणो रूपे’ इति विकल्प्य विविधं कल्पयित्वा ‘ तत्र यस्स आत्मा’ ( तलवकारब्राह्मणम् ) इति सदोषादपोह्यो नि र्दोषत्वेन विधेयोऽप्यहमेवेत्यर्थः उक्तः । अत्र तत्त्वप्रदीपपक्षे विकल्प्ये ति ल्यप् । टीकाकृत्पक्षे तु विकल्प्यशब्दस्समासान्तर्गतो व्यस्तो वेति विशेषः। इयं च भगवति वाक्यसमन्वयरीतिः—आद्यस्य इतिशब्दस्य प्रकारार्थस्य हृदयमित्यनेनान्वयः । द्वितीयस्य एवंभूताया इत्यर्थः । तथा च ह्येवंभूताया विधिनिषेधादिरूपाया अन्यपरत्वेन प्रतीताया श्चास्याश्श्रुतेरिति ‘ मां विधत्ते ’ इत्याद्युक्तप्रकारेण ‘ हृदयं ’ तात्पर्यं ‘ अहमेव वेद ’ जानामि ‘ मदन्यः कश्चन ’ कोपि विशेषतः प्रायः न वेद न जानातीत्यर्थः । भागवत इत्यनन्तरं तदेव शास्त्रगम्यमित्युक्त त्वात् न कथमितिशङ्कावकाश इति वाक्यशेषः ॥ ४ ॥ ॥ इति समन्वयाधिकरणम् ॥ —:::— ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे संशब्द्योक्तं वाच्यत्वं कात्स्न्र्येन चाक्षिप्य समा धीयते । पूर्वपक्षयति—नन्विति ॥ ‘ इत्यादिभिश्चश्रुतिभिः ’ इति तृती