पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1131, कुल 1267 में से
संदर्भ में पढ़ें१०८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] एतेभ्योऽन्यः पतिर्नैव मुक्तानां नात्र संशयः ॥ इति वाराहे ॥ ९ ॥ —— ८. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ अभावं बादरिराह ह्येवम् ॥ ॐ ॥ १० ॥ चिन्मात्रं विनाऽन्यो देहस्तेषां न विद्यत इति बाद्- रिः । ' अशरीरो वाव तदा भवत्यशरीरं वाव सन्तं दनन्याधिपतित्वे प्रमाणादिति । स्मृत्यर्थस्तु— ब्रह्मादिमानुषान्तानां सर्वेषां तेषां मुक्तानां 'परमो' मायाः परो विष्णुरेव मुख्याधिपतिर्नात्र सन्देहः । परम इत्यनेन लक्ष्मीरपि गृहीता । 'ततः' तदनन्तरं 'प्राणा- दिनामान्ताः' ब्रह्माद्युषःपर्यन्ताः सर्वेऽपि स्वावराणां क्रमेणाधिपतयः। यैरुक्तज्ञानं 'सुप्रतिष्ठितं' समुत्पन्नं त एते सर्वे आचार्या गुरवश्च पत- यः। एतेभ्यः क्लृप्ताधिपतिभ्यः अन्योऽधिपतिः मुक्तानां नास्त्येव, नात्रं संशय इति । वाराहे इत्यनन्तरं वचनाच्चेति शेषः । हेतुद्वयस्यापि सौ- त्रप्रतिज्ञायाऽन्वयः ॥ ७ ॥ ॥ इति अनन्याधिपत्यधिकरणम् ॥ — ॐ *— ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे परमेश्वरं प्राप्तानां भोगानुपपत्तिः परिह्रियते । न मुक्तानां भोगो युज्यत इति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति— अभावमिति ॥ अत्र 'मुक्तः प्रतिज्ञानात्' इत्यतो मुक्त इति पदं षष्ठ्य- न्ततया विपरिणतं चितिमात्रेनेति पदं चेहानुवर्तते । विना अन्यस्ये- ति शेषः । देहस्येति श्रुतिरिति च लभ्यते । तथा च यतो मुक्तानां चि- तिमात्रेण विना तदन्यस्य प्राकृतदेहस्याभावोऽसत्त्वमतो न तेषां प्रा- कृतदेहसदसद्भावविकल्पमूलकभोगानुपपत्तिरिति शेषः । कुतः तेषां देहाभावः ? 'हि' यस्मादेवं मुक्तानां शरीराभावं 'अशरीरो वा' इत्यादिका श्रुतिराह, तस्मादिति बादरिः 'आह' मन्यते इति योजने- त्यभिप्रेत्य सूत्रं व्याचष्टे—चिन्मात्रं विनेति। प्रकृतत्वाच्चिन्मात्रस्यैव प्रतियोगित्वमिति भावः । बादरिराहेत्यन्वयः । देहाभावः कुत इत्यतः प्रवृत्तमाह ह्येवमित्यंशं व्याचष्टे—अशरीरो वेति। इति कौण्ठरव्यश्रुता