भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1149, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1149

११०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] मावर्तं नावर्तन्ते' (छा. ४-१५-६.) इति श्रुतिः । (१०) वाराहे च— स्वाधिकारेण वर्तन्ते देवा मुक्तावपि स्फुटम् । बलिं हरन्ति मुक्ताय विरिञ्चाय तु पूर्ववत् ॥ सब्रह्मकास्तु ते देवा विष्णवे च विशेषतः । न विकाराधिकारस्तु मुक्तानामन्य एव तु ॥ विकाराधिकृता ज्ञेया ये नियुक्तास्तु विष्णुना ॥ २० ॥ * व्यासतीर्थीये तु मानवमावर्तमिति अलुक्समास इत्युक्तम् । एतत्पक्षे द्वितीयायाः षष्ठ्यर्थत्वमभिप्रेतम् । तं प्रति 'नावर्तन्ते' न प्रवर्तयन्ती त्यर्थः । तत्त्वप्रदीपे तु मानवं मनुष्यसम्बन्धिनं 'आवर्तं' संसारमिति भिन्नपदत्वाभिप्रायेण श्रुतिर्व्याख्याता । तथा प्रकृतिविकारशरीराद्य भिमानिषु जन्ममृत्यादिविकारवत्सु संसारिषु मुक्तानां व्यापरणं आ वृत्तिस्तेषां तद्व्यापारो न विद्यत इति यावदिति सूत्रार्थ उक्तः । एतत्प क्षे चस्त्वर्थ एवार्थः स्मृतिसूचको वाऽवगन्तव्यः ॥ (१०) ननु मुक्तदेवानामुक्तविषयव्यापाराभावे संसारावस्थान मेव न स्यात् प्रवर्तकाभावादित्याशङ्कां परिहर्तुमुक्तार्थे चशब्दसूचि तां स्मृतिमुदाहरति—वाराहे चेति ॥ न केवलं श्रुतिर्दर्शयति, किन्तु वाराहेऽप्येवं श्रुतिरस्तीति चार्थः । 'स्वाधिकारेण' स्वस्वयोग्यतानु सारेण यद्वा—स्वस्वाधिपत्येन युक्ता वा वर्तन्त इत्यर्थः । अपिस्समु च्चये । 'स्फुटं' प्रत्यक्षम् । न तु रहस्यतयेति भावः । 'बलिं' करं 'ह रन्ति' प्रयच्छन्ति 'पूर्ववत्' संसारे यथा । 'सब्रह्मकाः' सविरि ञ्चा देवास्त्वित्यन्वयः । 'विशेषतः' आधिक्येन बलिं हरन्तीति च व र्तते । अत एव वाक्यभेदकस्तुशब्दः । चस्समुच्चये । नेति । मुक्तानां 'विकाराधिकारः' संसारप्रवर्तकत्वं तु न विद्यत इत्यर्थः । तर्हि क स्मात्संसारप्रवृत्तिर्न स्यादित्यत आह—अन्य इति । तुरेव । तथा च ये मुक्तेभ्योऽन्ये विष्णुना नियुक्तास्त एव संसाराख्यविकाराधिकृता स्तत्प्रवर्तकाः विज्ञेया इत्यर्थः । इति वाराह इत्यन्वयः ॥ ९ ॥ इति जगद्व्यापाराधिकरणम् ॥ ——————