पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1148, कुल 1267 में से
संदर्भ में पढ़ें(८) सयुजः परमात्मानं प्रविश्य च बहिर्गताः । चिद्रूपान् प्राकृतांश्चापि विना भोगांस्तु कांश्चन ॥ भुञ्जते मुक्तिरेवं ते विस्पष्टं समुदाहृता ॥ इति ॥ १९ ॥ (९) सू—ॐ ॥ विकारावर्ति च तथा हि दर्शयति ॥ ॐ ॥ २० ॥ विकारावर्तिव्यापारो मुक्तानां न विद्यते ‘ इमं मानव जगद्व्यापृतिस्तथेत्यर्थः ॥ (८) मानुषादिभ्यो देवाः श्रेष्ठाः योगशब्दोक्तसायुज्यभाक्त्वात्, तेषु चतुर्मुखश्रेष्ठ इत्युक्तम्, तद्विपरीतं तेषां ऐक्यशङ्कां च वारयितुं सयुजां महिमानमाह—सयुज इति ॥ सयुजः परमात्मानं प्रविश्य क- दाचिद्बहिर्गताश्च भवन्ति । तत्र चिद्रूपान् प्राकृतान् अबन्धकशुद्धस- त्वात्मकान् कांश्चन भोगान् स्वोत्तमैकभोग्यान् विना अन्यान् चिद्रू- पान् प्राकृतांश्च भोगान् भुञ्जते इत्यर्थः । यद्वा—कांश्चन लक्ष्म्यात्मका- न् स्वोत्तेमरूपांश्च चिद्रूपान् प्राकृतानपि भगवदसाधारणभोग्यग- न्धादींश्च विना स्वयोग्यभोगान् भुञ्जते इत्यर्थः । निगमयति—एवमि- ति । एवं क्रमेण ‘विस्पष्टं’ अतिस्पष्टं मुक्तिस्ते ‘समुदाहृता’ अभि- हितेत्यर्थः । मयेति शेषः । नारदं प्रति ब्रह्मवाक्यमेतत् । इति गारुडे इ- त्यन्वयः ॥ (९) ननु ब्रह्मादिमुक्तानां मुक्तजगद्व्यापार एव कुतः, अमुक्त- जगद्विषयोऽपि किं न स्यादित्याशङ्कां परिहरत्सूत्रं पठति—विकारे- ति ॥ अत्र चशब्दो नञनुषङ्गार्थः । विकारावर्तीति नपुंसकं पदम् । मु- क्तानामिति शेषः । तथा च विविधाकारत्वान्मनोविकारदुःखमूलत्वा- द्द्वा विकारशब्दितं संसारमावर्तयति प्रवर्तयतीति ‘विकारावर्ति’ सं- सारविषयकव्यापरणं मुक्तानां न विद्यते । यद्वा—विकारपदं प्रकृति- विकारशरीराभिमानिसंसारिपरम्, तमावर्तयतीति विकारावर्ति मुक्ता- नां न विद्यते । कुतो ? ‘हि’ यस्मात्तथा श्रुतिः ‘दर्शयति’ प्रतिपाद्- यतीति योजनामभिप्रेत्य सूत्रं व्याचष्टे—विकारेति । व्यापारेति लब्धा- र्थकथनम् ‘हि’ यस्माच्छ्रुतिर्दर्शयतीति शेषः । मानवाः मनुष्याः य- त्रावर्तन्ते जन्ममृत्यदि प्राप्नुवन्ति स मानवावर्तः संसारः । अधिकर- णे घञ्, तत्पुरुषोऽयम्, मुगागमश्छान्दस इति केचित् । छान्दोग्य