पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1147, कुल 1267 में से
संदर्भ में पढ़ें११०० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] (७) मानुषा वर्णभेदेन तथैवाश्रमभेदतः । क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः ॥ आजानजाः कर्मजाश्च तात्त्विकाश्च शचीपतिः । रुद्रो ब्रह्मेति क्रमशस्तेषु चैवोत्तारोत्तराः ॥ नित्यानन्दे च भोगे च ज्ञानैश्वर्यगुणेषु च । सर्वे शतगुणोद्रिक्ताः पूर्वस्मादुत्तरोत्तरम् ॥ पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतुर्मुखः । स्वजगद्व्यावृतिस्तेषां पूर्ववत्समुदीरिता ॥ (७) ननु मानुषाः सर्वेऽप्येकविधाः, तथा च कथं तत्र केचन भू- मौ, केचनान्तरिक्षे, केचित्स्वर्गे, इत्येवंरूपावान्तरभेदः संभवतीत्य- तो वर्णाश्रमभेदेन तेषां बाहुविध्यं प्रदर्शयन् क्रमयोगेनेत्युक्तं मुक्तानां तारतम्यं च दर्शयति-मानुषा इत्यादिना ॥ 'वर्णाः' ब्रह्मक्षत्रादयः 'आ- श्रमाः' ब्रह्मचर्यादयः मुक्तौ सन्तीति शेषः । 'क्षितिपाः' चक्रवर्तिनः 'देवाः' देवगन्धर्वाः 'चिराः पितरः' इति सामानाधिकरण्यम् । 'आ- जानजाः' अनाख्यातदेवाः 'कर्मजाः' कर्मणा देवत्वं प्राप्ताः बल्याद्याः कार्त्तवीर्याद्याश्च 'तात्त्विकाः' तत्त्वाभिमानिनो बृहस्पत्यादयः देवा इ- त्यनुषज्यते । 'शचीपतिः' इन्द्रः 'रुद्रः' शेषः 'ब्रह्मा' हिरण्यगर्भ इ- त्येते क्रमशः क्रमेण 'पूर्वस्मात्' पूर्वपूर्वनिर्दिष्टात् 'उत्तरोत्तराः' उ- त्त्तमोत्तमा इति सम्बन्धः । एवं स्वरूपे तारतम्यमुक्त्वा गुणेषु तदाह- 'तेषु' उक्तेषु मध्य इति । नित्यानन्दे भोगे ज्ञानैश्वर्यरूपगुणेषु सर्वेऽ पि 'पूर्वस्मात्' पूर्वपूर्वतः 'उत्तरोत्तरं' पश्चात्पश्चान्निर्दिष्टाः शतगु- णोत्कृष्टा इत्यर्थः । शतशब्दो बहुवाची । द्वितीयगुणशब्दो गणनापरः। यदर्थं तारतम्यमुक्तं तन्मुक्तानां स्वावरपूज्यत्वम्, चतुर्मुखस्य सर्वपू- ज्यत्वमिदानीमाह-पूज्यन्ते इति । 'ते' मुक्ताः । सर्वपूज्य इति । ईश- लक्ष्मीव्यतिरिक्तसर्वपूज्य इत्यर्थः । न केवलं स्वावरपूज्यत्वमात्रं तेषां, किन्तु स्वजगद्व्यावृतिश्चास्तीत्याह-स्वेति । 'तेषां' मुक्तानां स्वप्रति- बिम्बभूतमुक्तजीवेषु व्यापारश्चास्तीति तत्त्वप्रदीपदिशाऽस्यार्थो ज्ञात- व्यः । अत्राधममुक्तेषु उत्तमानां व्यापारो नाम सतीपतिन्यायेन बहि- स्थित्वा नियामकत्वं, अन्तस्स्थित्वा नियामकस्तु मुख्यप्राण एव। यथो- क्तं छान्दोग्यभाष्ये-तुरीयायामवस्थायां प्राणादेव निबोधनम् । इ- ति ॥ मोक्षावस्थायामित्यर्थः । 'पूर्ववत्' संसार इव यथा संसारे स्व