भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1146, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1146

[ अधि - ९. सू - १९. ] दीपिकासहितम्. १०९९ ( ६ ) तत्रापि क्रमयोगेन ज्ञानाधिक्यात्समीपगाः । सालोक्यं च सरूपत्वं सामीप्यं योग एव च ॥ इमामारभ्य सर्वत्र यावत्सुक्षीरसागरे । पुरुषोऽनन्तशयनः श्रीमन्नारायणाभिधः ॥ श्वेतद्वीपे निवासे तदर्थं विवक्षितम्, न तु गतिमात्र इति तद्वाक्यार्था- भ्युपगमान्न विरोध इति ध्येयम् ॥ ( ६ ) श्वेतद्वीपेऽपि मुहूर्ताधिकज्ञानित्वरूपमहाज्ञानित्ववतां न सा- म्यमित्याह — तत्रापीति ॥ श्वेतद्वीपेऽपि महाज्ञानिष्वपीत्यर्थः । क्रमेति। क्रमस्तारतम्यं स एव योग उपायस्तेनेत्यर्थः । इदं चोभयत्रान्वेयते । तथा च क्रमयोगेन ज्ञानाधिक्यात् ज्ञाने आधिक्ये तारतम्याख्योपायात् तदनुसारेण महाज्ञानाः क्रमयोगेन ‘आदघ्नासः’ (ऋ.१०-७१-७.) इत्या- द्युक्तरीत्या ‘समीपगाः’ भगवत्समीपवर्तिन इत्यर्थः । ननु भूम्यादिषु मुक्तानां स्थितौ न मोक्षोऽयं स्यात् सालोक्यादिचातुर्विध्यानन्तर्भावादि- त्यत आह-सालोक्यं चेति। समानलोकस्थत्वं सालोक्यं समीपस्थत्वं सामीप्यं चतुर्भुजत्वादिरूपसाम्यं सारूप्यं भगवदङ्गप्रवेशः सायुज्यं योग एव चेत्येवशब्दास्यास्तीत्यध्याहृतेनान्वयः । चस्समुच्चये । इ- मामिति वाक्ये उक्तक्रमेण तावत्स्विति पदं अध्याहार्यं तथा च ‘इ- मां’ पृथिवीमारभ्य केचनात्रैव मुच्यन्ते, केचनान्तरिक्षे, केचित्स्वर्गे महर्लोके जने तपसि चापरे । केचित्सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् ॥ इत्याद्युक्तक्रमेण यावत्सु स्थानेषु श्रीमन्नारायणाभिधोऽनन्तशयनः पु- रुषोऽस्ति ‘तावत्सु’ सर्वत्र स्थानेष्वपि सालोक्यं समीपत्वं च सारू- प्यं योगश्चास्त्येवेति योजना । केचित्तु यावत् सुक्षीरसागर इति पद- विभागं कृत्वा शोभने क्षीरसागरे यावन्नारायणाभिधः तावदिमामार- भ्य सर्वत्र सालोक्याद्यस्तीत्यर्थमाहुः । तथा चेश्वरस्य सर्वदा सर्वत्रा- वस्थानात् भूम्यादिषु मुक्तानामपि भगवत्सामीप्यादिरूपो मोक्षो यु- क्त इति भावः । न चैतावताऽत्रैव मुक्तानां सायुज्याद्यप्यस्तीति मन्त- व्यम् । यदि चतुर्मुखाद्याः पृथिव्यादिषु मुक्तस्थानं प्रति आगच्छन्ति, तदा तेषां तत्रस्थभगवत्सायुज्याद्यप्यस्तीत्यर्थोपपत्तेः ॥