पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1145, कुल 1267 में से
संदर्भ में पढ़ें१०९८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] केचित्सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् । त्वे आनन्दादीनां आत्मत्वगुणैकीकारेणापि कथं चिदुपास्तिरस्ति, त था च सच्चिदानन्दो विष्णुरात्मेत्युपास्य इत्यन्वय इत्युक्तिविरोधात् । ‘तेषु मोक्षोऽपि भवेन्मानुषाणां विशेषिणाम्’ इति छान्दोग्यभाष्यो क्तेरेकगुणोपासनाख्यावशेषवतां मनुष्याणां भूर्भुवस्स्वराख्यलोक प्राप्तिस्सिद्धा । तत्र भूलोकस्था उक्ताः । भुवस्स्वर्गस्थमुक्तानाह— अन्तरिक्षे त्वित्यादिना । तुशब्दोऽप्यर्थः । ‘केचन’ पूर्वोक्ता उत्तमा मनुष्याः । मुच्यन्त इत्यन्तं उभयत्राप्यनुषज्यते । नोत्क्रामन्तीत्येतत्तु पू र्वेणैव योज्यम् । एवं किमुशब्दैरुक्तानां मनुष्याणां स्थितिमुक्त्वा ते भ्योऽधिकानां स्थितिमाह—महरिति । ‘जने’ जनलोके ‘तपसि’ त पोलोके । चस्समुच्चये । ‘सत्ये’ सत्यलोके । सर्वत्र मुच्यन्त इत्यनुष ज्यते । ‘महाज्ञानाः’ बहुकालं ब्रह्मदर्शिनः अप्रतीकालम्बनाख्याः बहु गुणोपासकास्तु ‘क्षीरसागरं’ तत्रत्यश्वेतद्वीपं गच्छन्तीत्यर्थः । उपल क्षणमेतत् । तिष्ठन्तीत्यपि द्रष्टव्यम् । न च अत्रैव मुच्यन्ते, अत्रैव च स्थितिस्तेषाम्, महाज्ञाना गच्छन्ति क्षीरसागरम्’ इत्युक्त्या महाज्ञा नातिरिक्तानां एकगुणोपासकादीनां श्वेतद्वीपागमनप्राप्तेः बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तस्स्यात्....॥ इत्यत्र च सर्वेषां श्वेतद्वीपगमनोक्तेर्विरोध इति वाच्यम् । सर्वेषामपि सकृच्छ्वेतद्वीपगमनाभ्युपगमात् । तथाचाण्डलयकाले स्वोत्तमप्रवेशे नोर्ध्वं गताः भग्नलिङ्गाः सकृच्छ्वेतद्वीपं गत्वा पुनर्धरादिकमागत्यानन्त रमत्रैव तिष्ठन्तीत्याशयेन ‘अत्रैव च स्थितिः’ इत्याद्युक्तिरित्युक्तं भ वति । उक्तं हि छान्दोग्यभाष्ये— श्वेतद्वीपं ततो गत्वा दृष्ट्वा विष्णुं च तेन ते । अनुज्ञाताः प्रमोदन्ते निर्दुःखास्तु धरादिषु ॥ इति ॥ ननु गीताभाष्ये—ये त्वत्रैव भगवन्तं प्रविशन्ति तेऽपि पश्चात्तत्र या न्ति योग्यत्वं चात्र विवक्षितमित्युक्तेः सर्वेषां श्वेतद्वीपगमने तद्विरोध स्स्यादिति चेन्न, तस्य क्षीराब्धाववस्थानाय योग्यत्वं विवक्षितमित्ये तदर्थकत्वात् । अत एव प्रमेयदीपिकायां अत्रेत्यनन्तरं निवास इति शेषः कृतः । तथा च महाज्ञानित्वलक्षणयोग्यत्वं चात्र क्षीराब्धिगत