पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1155, कुल 1267 में से
संदर्भ में पढ़ें११०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] इति नारायणतन्त्रे ॥ २२ ॥ — * — ११. अधिकरणम् ॥ ( १ ) सू– ॐ ॥ अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॥ ॐ ॥ २३ ॥ अथस्य कारणत्वोक्तेः प्रागुक्तो वृद्ध्यादौ कारणाभावहेतुरसिद्ध इति वाच्यम् । बहुतरवृद्ध्यादिकारण शून्यत्वादिति हेतोर्विशेषणात् । इ ति नारायणतन्त्रे विवक्षितार्थो विवृत इति शेषः ॥ १० ॥ ॥ इति स्थित्यधिकरणम् ॥ ११. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्म प्राप्यभोगान् भुञ्जानस्य मुक्तस्यापुनरा वृत्तिस्समर्थ्यते । अस्ति मुक्तस्य पुनरावृत्तिः । स्वर्गादिगतानां पुनरा वृत्तिदर्शनात् । न च स्वर्गादिगतानां युगमन्वन्तरादिमात्रवासित्वानु क्ता पुनरावृत्तिः, न तु मुक्तस्य, तस्य समस्तकालवासित्वादिति वा च्यम्