भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1156, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1156

[ अधि - ११. सू - २३. ] दीपिकासहितम्. ११०९ ‘न च पुनरावर्त्तते न च पुनरावर्तते’ ( छा. ८-१५-१.) श्रुं व्याचष्टे—न चेति । छान्दोग्यश्रुतौ—‘ स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते’ (छा.८-१५-१.) इति पूर्ववाक्ये प्रकृतो मुक्तः ब्रह्मलोकं हित्वा पुनः ‘नावर्तते’ न संसृतिं प्राप्नोतीत्यर्थः । चशब्द एवार्थः । शब्दादित्येतत्प्रकारान्तरेण व्याचष्टे—सर्वानिति । ऐतरेये द्वितीयारण्यके ‘स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतस्समभवत् समभवत्’ (ऐ.आ.२- ५-१-१५.) इति श्रूयते । अस्यायमर्थः—‘सः’ उपासक एवं विद्वान् ‘अ स्माच्छरीरभेदात’ शरीरसम्बन्धात् ‘ऊर्ध्वमुत्क्रम्य’ ब्रह्मनाड