पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1157, कुल 1267 में से
संदर्भ में पढ़ें१११० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] ' सर्वान् कामानाप्त्वाऽमृतः समभवत्समभवत् ' ( पै. आ. २-५-१-१५.) इत्यादिश्रुतिभ्यः ॥ २३ ॥ ( २ ) ज्ञानानन्दादिभिः सर्वैर्गुणैः पूर्णाय विष्णवे । नमोऽस्तु गुरवे नित्यं सर्वथाऽतिप्रियाय मे ॥ र्माणः उत्क्रमणेन त्यक्तदेहाः अर्चिरादिपथा यथायोग्यस्थाने स्थिताः अण्डलयकाले स्वोत्तमान् प्रविष्टाः वैकुण्ठवासिनं हरिं प्राप्ताः हिरण्य गर्भेण सह विरजास्नानेन भिन्नलिङ्गशरीराः विध्वस्तप्रकृतयः अत्यन्त निवृत्तानिष्टा भवन्ति । ये तु मनुष्योत्तमाः निष्कामुकभगवदर्थश्रुत्या दिव्यिहितकार्यानुष्ठानेन शुद्धान्तःकरणाः प्रक्षीणरागादिदोषाः सञ्जा तभगवद्भक्तिमन्तः श्रवणमनननिदिध्यासनाभ्यासवन्तः परमभागव ताः स्वयोग्यभगवदपरोक्षानन्तरं अत्यन्तनिवृत्तानिष्टसञ्चितकर्माणः आगामिदुष्कर्मलेपविधुरा यावत्प्रारब्धं भागवतधर्मनिष्ठाः उत्तरायण मार्गेण त्यक्तदेहाः भगवल्लोकगमनार्थमर्चिरादिपथा महरादिलोके स मासीनाः लयकाले स्वोत्तमप्रवेशेनोर्ध्वं गताः ब्रह्माण्डलयान्तरं लि ङ्गशरीरभङ्गकाले उपस्थिते सुषुम्नामार्गेण त्यक्तान्यदेहाः हिरण्यगर्भे ण सह विरजास्नानेन भिन्नलिङ्गशरीराः प्रध्वस्तस्वगुणाच्छादिकाः विध्वस्तप्रकृतयः अत्यन्तवृत्तानिष्टा भवन्ति । ये त्वत्यल्पाः मानुषाः स्थावराद्यश्च एकगुणोपासकाः कार्यब्रह्मकालान्त्यभागे स्वस्वयोग्या वतारापरोक्षिणः उत्क्रमणार्चिरादिमार्गरहिताः प्रभुक्तोत्यल्पप्रारब्धक र्माणः अण्डलयकाले स्वोत्तमप्रवेशेनोर्ध्वं गताः ब्रह्मणा सह त्यक्तलि ङ्गशरीराः विध्वस्तप्रकृतयोऽत्यन्तवृत्तानिष्टाः भवन्ति । ते सर्वेऽपि महाप्रलये भगवदुदरे स्थित्वा पुनस्सृष्टौ भगवल्लोकाविर्भावे श्वेतद्वी पगतभगवद्दर्शनेनापगतभगवदिच्छावरकाः सम्यगाविर्भूतज्ञानानन्दा दिगुणाः वासुदेवपरिक्लृप्तस्वस्वयोग्यस्थानेषु स्थिताः भगवन्तमुपा सीनाः सायुजः भगवद्देहे बहिश्च अन्ये बहिरेव स्वरूपदेहेन लीलागृही तविग्रहैर्वा सङ्कल्पमात्रसाध्यान् दिव्यान् भोगान् तारतम्येन भुञ्जानाः न कदाचित्पुनरावर्तन्त इति ॥ ( २ ) अथायं भाष्यकारो यं गुणगणार्णवतया आदौ प्रतिपादित वान् । यच्छिष्यतया चैतादृशीमतिविशदां संविदं लब्धवान् । यस्मि न् श्वात्मनो निरुपाधिकप्रीतिस्तमेव देवतात्वेन गुरुत्वेन चान्तेऽपि न मति--ज्ञानेति ॥ गुणैरित्यस्य विवरणं—सर्वैरिति । अनेन नम्यताप्र