भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 1158, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 1158

[ अधि - ११. सू - २३. ] दीपिकासहितम्. ११११ (३) यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बद् तद्दर्शितमित्थमेव निहितं देवस्य भर्गो महत् । योजकं विशिष्टत्वमुक्तं भवति । गुरुं इति निमित्तान्तरोक्तिः । 'स र्वथा' सर्वस्मात्सर्वप्रकारेण 'अतिप्रियो' निरुपाधिकप्रियः । अनेनेष्टत्व म्, ब्रह्मशब्दसमानार्थक विष्णुशब्दप्रयोगेन ब्रह्मविचारात्मकशास्त्राधि कृतत्वम्, सूत्रसङ्ख्या चोक्ता भवति ॥ (३) अथ स्वभाषितभाष्यस्याभिमूलत्वसमर्थनाय श्रुतिप्रसिद्धं स्व स्य परमाप्तत्वं दर्शयन्नाह- यस्येति ॥ यद्वा - मुमुक्षोर्भगवज्ज्ञानस्येव स्वज्ञानस्याप्यपेक्षितत्वात्स्वस्वरूपं ख्यापयन् स्वकृतिं भगवति समर्प यति-यस्येति । 'यस्य' वायोः वायुनामकस्य देवस्य 'बळित्था' इ त्यादिवेदवचनेऽलं 'दिव्यानि' क्रीडादिगुणयुक्तानि अत्यन्तप्रकाशव न्ति स्तुत्यानि देवसेव्यानि च त्रीणि रूपाणि उदितानि, तस्य यत्तृतीयं रूपं तेनेदं श्रीमद्ब्रह्मसूत्रभाष्यं 'हरौ' हरिविषयतया कृतमित्यन्वयः । 'हि' प्रसिद्धौ । तत्त्वप्रदीपे तु 'मध्वो यत्तु तृतीयमेतदमुना भाष्यं कृ तं केशवे' इति पठित्वा 'यस्य त्रीणि' इति श्लोकानन्तरं 'ज्ञानान न्दादिभिः' इति श्लोकोऽवतारितः । कीदृशं चास्य मूलं, किं च स्वरू पं, कानि च त्रीणि रूपाणि कीदृशानि च, तत्राह- अलमिति । तस्य वायोः 'तत्' मूलरूपं 'बद्' बलात्मकं 'दर्शितं' ज्ञानरूपं ज्ञानात्मकं ततमिति वा । अनेन केन निमित्तेन तन्मूलं वायुनामकमिति प्रश्नस्या प्युत्तरमदायि । वशब्दस्य बलवाचित्वात् अयतेर्ज्ञानार्थत्वात् । तन्मूलं 'भर्गः' सकारान्तोऽयं शब्दः । जगद्धरणगमनगुणं 'महत्' महनीयं च । मूलरूपादवताररूपस्येन्द्रार्जुनादेरिव गुणवैषम्यं न मन्तव्यमित्या ह-इत्थमेवेति । यदुक्तगुणं तन्मूलरूपं यद्गुणं तद्गुणकमेवावतारा यापि भगवता 'निहितं' प्रेरितमवतीर्णं चेत्यर्थः । त्रयाणामपि रूपा णां सव्यापारं नामान्याह-रामेत्यादिना । 'प्रथमकं' प्रथमं वपुः हनु मदाख्यं 'रामवचोनयं' रामवचांसि सीतां प्रति नीतवत् । रामाविष यवचांसि मूलरामायणरूपाणि शिष्येषु नीतवद्वा । रामस्य वचसि यो नयो न्यायः आज्ञारूपः तद्युक्तं वा । तथात्वे बहुव्रीहिः । द्वितीयं व पुः भीमनामकं कुरुपृतनाक्षयकारित्वात्पृक्षः । यत्तु तृतीयकं 'तन्मध्वः' मध्वनामकमानन्दरूपस्य हरेः प्रतिपादकशास्त्रकृत्त्वात् । आनन्दस न्धायिसुशास्त्रनिर्मातृत्वाद्वा ।