पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1159, कुल 1267 में से
संदर्भ में पढ़ें१११२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ॥ नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम । नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥ —:※:— इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्र भाष्ये चतुर्थाध्यायस्य चतुर्थः पादः. ॥ चतुर्थाध्यायस्समाप्तः ॥ —— ॥ ॐ ॥ ॥ श्रीमद्ब्रह्मसूत्रभाष्यं ॥ ॥ सम्पूर्णम् ॥ यथोक्तम् — मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ॥ इति ॥ अतः परमाप्तप्रणीतत्वादिदं भाष्यं सकलैस्सुजनैरादरेणाङ्गीकार्य मिति भावः ॥ ११ ॥ ॥ इति अनावृत्यधिकरणम् ॥ —:❖:— भाष्यान्ते 'नित्यानन्द' इति श्लोकान्तरं क्वचित्पठ्यते । तस्येत्थं गमनिका—भक्त्यतिशयात्पौनःपुन्येन प्रीतिप्रार्थनपूर्वकं विष्णुं नमति- नित्येति । नित्यानन्दो देशकालगुणैः 'पूर्णः' अपरिच्छिन्नो हरिः 'नि- त्यदा' सर्वदा मम प्रीयताम् । तस्मै विष्णवे मम नमश्चास्त्वित्यन्वयः॥ —··—