भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

१११२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ॥ नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम । नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥ —:※:— इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्र भाष्ये चतुर्थाध्यायस्य चतुर्थः पादः. ॥ चतुर्थाध्यायस्समाप्तः ॥ —— ॥ ॐ ॥ ॥ श्रीमद्ब्रह्मसूत्रभाष्यं ॥ ॥ सम्पूर्णम् ॥ यथोक्तम् — मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ॥ इति ॥ अतः परमाप्तप्रणीतत्वादिदं भाष्यं सकलैस्सुजनैरादरेणाङ्गीकार्य मिति भावः ॥ ११ ॥ ॥ इति अनावृत्यधिकरणम् ॥ —:❖:— भाष्यान्ते 'नित्यानन्द' इति श्लोकान्तरं क्वचित्पठ्यते । तस्येत्थं गमनिका—भक्त्यतिशयात्पौनःपुन्येन प्रीतिप्रार्थनपूर्वकं विष्णुं नमति- नित्येति । नित्यानन्दो देशकालगुणैः 'पूर्णः' अपरिच्छिन्नो हरिः 'नि- त्यदा' सर्वदा मम प्रीयताम् । तस्मै विष्णवे मम नमश्चास्त्वित्यन्वयः॥ —··

[ अधि - ११. सू - २३. ] दीपिकासहितम्. १११३ कुशाग्रबोधैर्जयतीर्थपादैः कृतामहं व्याकृषि सूत्रभाष्यम् । टीकां तथाऽऽर्योर्वचोऽनुसृत्य ततोऽनुधर्तुं भवेन्ममागः ॥ मन्मानसाम्बुजस्थेन हरिणा कृतयाऽञ्जसा । भाष्यदीपिकया कृष्णः प्रीयतां कमलाकरः ॥ —-::—-— इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना- थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि- कायां चतुर्थाध्यायस्य चतुर्थः पादः • ॥ चतुर्थाध्यायस्समाप्तः ॥ —::— ॥ ॐ ॥ ॥ श्रीमद्ब्रह्मसूत्रभाष्यदीपिका ॥ ॥ सम्पूर्णा ॥ १४०

इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है; यह एक रिक्त (blank) पृष्ठ है।

॥ प्रथमः परिशिष्टः ॥ ───:✤:─── ॥ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतात् भाष्यात् ॥ ॥ प्रतीयमानः सिद्धान्तः ॥ ───:✤:─── ( १ ) प्र ॥ जगत्कारणं किम् ? उ ॥ विष्णुः, स एव परं ब्रह्म ॥ १-१-२. ( २ ) प्र ॥ विष्णुरिति कथं ज्ञातव्यम् ? उ ॥ शास्त्रात् ॥ १-१-३. ( ३ ) प्र ॥ कानि शास्त्राणि प्रमाणानि ? उ ॥ सर्वे वेदाः भारतं पञ्चरात्रं मूलरामायणं एतानि शा- स्त्राणि, तेषां अनुकूलानि इतरशास्त्राणि च प्रमाणा- नि, नेतराणि ॥ १-१-३. ( ४ ) प्र ॥ अन्यशास्त्राणि केन रचितानि, कस्मात् तान्यप्रमाणा- नि ? उ ॥ अयोग्यजीवानां मोहनार्थं विष्णोराज्ञया तानि शास्त्रा- णि रुद्रेण कृतानि कारितानि च ॥ १-१-१०. ( ५ ) प्र ॥ वेदे अनेकपरस्परविरोधाः सन्ति, एकत्र आकाशः ज- गत्कारणमिति उक्तं, अन्यत्र परमात्मेति । एकत्र पृथिवी वीस्वर्गाद्याधारः रुद्र इति, अन्यत्र विष्णुरिति उक्तम् । इत्यादिपरस्परविरोधाः बहवः सन्ति, एतादृशवेदः कथं प्रमाणमिति अङ्गीकर्तव्यः ? उ ॥ यद्यपि वेदे आपाततः परस्परं विरोधाः प्रतीयन्ते, त- थाऽपि पूर्वापरवाक्यपर्यालोचनया उपक्रमोपसंहारा- दिभिः विमर्शे कृते सति वेदे एकवाक्यता सिध्यति । युष्माभिः उक्ताः आकाशरुद्रादिशब्दाः विष्णुपराः ने- तरपराः, मुख्यवृत्त्या सर्वे शब्दाः परमात्मवाचकाः, य-

१११६ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् । त्र मुख्यार्थग्रहणे बाधकं नास्ति तत्र मुख्यार्थ एव ग्रा- ह्यः यत्र मुख्यार्थग्रहणे बाधकं तत्र अमुख्यार्थग्रहणं युक्तम् ॥ १-१-१०, १-१-४, १-३-३, १-४-२, १-१-६, २-१-१३. ( ६ ) प्र ॥ विष्णुः जगत्कारणमिति भवद्भिः उक्तं, सृष्टेः पूर्वं जी- वाः सन्ति वा न वा ? उ ॥ सृष्टेः पूर्वं जीवाः सन्त्येव, यथा परमात्मा अनादिः त- था जीवा अपि अनादयः, जीवानां बाह्यदेहसम्बन्धः प- रमात्मना भवति, सैव जीवसृष्टिः ॥ २-३-१८, २-३-१९, २-३-३०. ( ७ ) प्र ॥ स्वप्नादिषु दृष्टद्रव्याण्यपि परमात्मना सृष्टानि वा, मा- याकल्पितानि वा ? उ ॥ तान्यपि परमात्मना सृष्टानि न मायाकल्पितानि तेषां सृष्टिः विनाशश्च परमात्मना भवति ॥ ३-२-१, ३-२-५. ( ८ ) प्र ॥ तथा सति स्वप्नप्रतीताः यथार्था वा ? उ ॥ स्वप्नदृष्टपदार्थाः सत्या एव, तथाऽपि जाग्रति दृष्टपदा- र्थ एव अयमिति यत् ज्ञानं तत् भ्रमात्मकम् ॥ ३-२-१, ३-२-३. ( ९ ) प्र ॥ सृष्ट्या परमात्मनः किं प्रयोजनम् ? उ ॥ प्रयोजनं नास्ति, लोके आनन्दोद्रेकवतः पुरुषस्य नृत्त- गानादिवत् प्रयोजनानपेक्षयैव सृष्टिः ॥ २ - १ - ३३, २-१-३४. ( १० ) प्र ॥ जीवाः परमात्मनः अत्यन्तभिन्ना वा ? उ ॥ जीवाः परमात्मनः अत्यन्तभिन्नाः ॥ २-३-२८, २-३-४३, ३-२-१८, २-१-१४. ( ११ ) प्र ॥ जीवः अणुर्वा व्यापी वा ? उ ॥ जीवः अणुरेव । सः हृदये वर्तते । तथाऽपि यथा चन्द

प्रतीयमान सिद्धान्तः ॥ १११७ नं एकस्थले वर्तमानमपि अन्यत्र अंशेन व्यापकं भव ति, यथा दीपः एकत्र विद्यमानोऽपि प्रकाशगुणेन व्याप को भवति तथा जीवः अंशेन वा गुणेन वा देहे सर्वत्र व्यापी भवति ॥ २-३-२०, २-३-२४, २-३-२५, २-३-२६. ( १२ ) प्र ॥ जीवस्य स्वरूपं कीदृशम् ? उ ॥ त्रिविधं, मुक्तियोग्यानां ज्ञानानन्दस्वरूपं, तमोयोग्या नां अज्ञानदुःखस्वरूपं, नित्यसंसारिणां मिश्रस्वरूपम्॥ २-३-३२. ( १३ ) प्र ॥ एवं सति त्रिविधानां विपरीतानुभवः कथं संभवति ? उ ॥ स्वरूपं अविद्यया आवृतं, अतः अन्यथाऽनुभवः औपा धिकः ॥ २-३-३२. ( १४ ) प्र ॥ जीवाः भगवदधीना वा स्वतन्त्रा वा ? उ ॥ परमात्‍माधीना एव, तथाऽपि तेषां किञ्चित् भगवद्दत्त स्वातन्त्र्यं अस्ति, तथा न चेत् शास्त्रस्य निष्प्रयोजन त्वं स्यात् खलु ॥ २-३-३३, २-३-४१, २-३-४२. ( १५ ) प्र ॥ जीवानां भूतसम्बन्धः देहान्ते निवर्तते वा न वा ? उ ॥ न निवर्तते, जीवाः कर्मानुसारेण भूयोभूयः जन्मान्तरं प्राप्नुवन्ति ॥ ३-१-१, ३-१-८. ( १६ ) प्र ॥ जीवानां जन्मान्तरादिक्लेशात् कथं मुक्तिः ? उ ॥ परमात्मानुग्रहजन्यतदपरोक्षेण मोक्षः सम्भवति ॥ ३-२-२३, ३-२-२७, ३-३-४८, ३-३-४९, ३-३-५४. ( १७ ) प्र ॥ परमात्मानुग्रहः कथं सम्भवति ? उ ॥ श्रवणमननादिभिः हरिगुरुभक्तिशमदमादिभिः सम्भ वति ॥ ( १८ ) प्र ॥ कर्मणः प्रयोजनं नास्ति किम् ? उ ॥ अस्ति, कर्म द्विविधं काम्यं अकाम्यं इति, काम्यकर्म

११९८ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् । ऐहिकफलं ददाति, अकाम्यकर्म अपरोक्षात् पूर्वभा वि चेत् ज्ञानसाधनं भवति, उत्तरभावि चेत् मोक्षे अ तिशयं ददाति ॥ ३-१-७. (१९) प्र ॥ स्वर्गादिफलं केन भवति ? उ ॥ देवाद्यंशानां ज्ञानेनैव सर्वफलं भवति, कर्मणा अतिश यः, इतरेषां तु मोक्षेतरदृष्टादृष्टफलं कर्मणा भवति, ज्ञा नेन अतिशयः ॥ ३-४-१, ३-४-९. (२०) प्र ॥ वेदाधिकारिणः के ? उ ॥ त्रिवर्णानां मध्ये ये विष्णुभक्ताः गुरुभक्ताः शमदमादि मन्तः त एव वेदाधिकारिणः ॥ ३-४-१२. (२१) प्र ॥ शूद्राणां वेदविद्याधिकारः नास्ति वा ? उ ॥ पूर्वजन्मनि प्राप्तापरोक्षज्ञानव्यतिरिक्तशूद्राणां वेदवि द्याधिकारो नास्ति ॥ १-३-३८. (२२) प्र ॥ सर्वे वेदाधिकारिणः अपरोक्षयोग्याः किम् ? उ ॥ न, केचित् जीवा एव स्वभावेन योग्याः तेषां एव भग वदपरोक्षं भवति, केचित् जीवाः नित्यसंसारिणः के चित् जीवाः स्वभावेन तमोयोग्याः । तेषां अपरोक्षं क दाऽपि न भवति । सर्वे जीवाः योग्यताऽनुसारेण कर्म कुर्वन्ति, सम्यग्ज्ञानं वा विपरीतज्ञानं वा प्राप्नुवन्ति, तदनुसारेण फलं अनुभवन्ति । श्रवणमननादिषु यत्न वतामपि अयोग्यानां जीवानां ज्ञानं कदाऽपि न सम्भव ति, तेषां नित्यनरकस्यैव प्राप्तिः, नित्यसंसारिणां नित्यं संसार एव स्थितिः ॥ ३-४-३४, ३-४-३५, ३-४-३६, ३-४-३७, ३-४-३८, ३-४-४०. (२३) प्र ॥ वेदाध्ययनाधिकाराभावे केवलशूद्रादीनां ज्ञानं कथं सम्भवति ? उ ॥ भारतादिपुराणश्रवणादिषु तेषां अधिकारः, तच्छ्रवणा दिना अपरोक्षज्ञानं सम्भवति, अतः मोक्षः ॥ १-१-१०.

प्रतीयमानसिद्धान्तः ॥ (२४) प्र ॥ स्त्रीणां वेदाधिकारः अस्ति वा न वा ? नास्ति चेत् तासां ज्ञानं कथम् ? उ ॥ देवऋष्यादिस्त्रीणां वेदाधिकारो वर्तते, इतरासां वेदा- धिकारो नास्ति, तासां शूद्रवत् पुराणश्रवणादिना ज्ञा- नं. अतः मोक्षः ॥ १-१-१०. (२५) प्र ॥ भगवदपरोक्षात् मोक्ष इति भवद्भिः उक्तम्, रामकृष्णा- द्यवतारकाले अनेकजनानां भगवदपरोक्षं आसीत्खलु. तेषां सर्वेषां मोक्षः अस्ति किम् ? उ ॥ तेषां उत्तमलोकप्राप्तिरेव, न मोक्षः, हृदयस्थबिम्बद- र्शनादेव मुक्तिर्भवति ॥ ३-३-५३. (२६) प्र ॥ भगवदपरोक्षात्परं ज्ञानिनां यथेच्छानुचरणं युक्तं वा ? उ ॥ भगवदपरोक्षानन्तरं दुष्कर्मणा मोक्षहानिः नास्ति, कि- न्तु आनन्दहासः भवति, सत्कर्मानुष्ठानेन मोक्षे फला- तिशयो भवति, तस्मात् स्वेच्छया सत्कर्मानुष्ठानमेव कर्तव्यम् ॥ ३-४-१९, ३-४-३३. (२७) प्र ॥ सत्कर्मानुष्ठानं कर्तव्यं इति भवद्भिः उक्तं तत्कर्म इच्छा- नुसारेण कर्तव्यं वा विध्यनुसारेण वा ? उ ॥ मनुष्याः विधिप्रकारेणैव कर्म कुर्युः, देवाः अनुष्ठेयक- र्ममध्ये यत्कर्मणि इच्छा, तत्कर्म कुर्युः, विरिञ्चस्तु इ- च्छानुसारेण कर्म कुर्यात् तस्य इच्छैव विधिः ॥ ३-४-२२, ३-४-२३, ३-४-२४. (२८) प्र ॥ मोक्षः कीदृशः ? उ ॥ भूतबन्धनिवृत्तिरेव मोक्षः ॥ ३-१-१०. (२९) प्र ॥ मोक्षे फलतारतम्यं अस्ति वा ? उ ॥ अस्ति, मोक्षे जीवानां योग्यताऽनुसारेण आनन्दः ॥ ३-३-३३.

११९० ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् । ( ३० ) प्र ॥ अपरोक्षानन्तरं तत्क्षणमेव विष्णुलोकप्राप्तिः भवति वा ? उ ॥ प्रारब्धकर्मप्रतिबन्धाभावे शरीरपातानन्तरं मुक्तिः, त- द्भावे तत्फलभोगानन्तरमेव ॥ ३-४-५१. ( ३१ ) प्र ॥ प्रारब्धकर्मसद्भावे अपरोक्षः कथं भवति ? उ ॥ अपरोक्षप्रतिबन्धकप्रारब्धकर्मसद्भावे अपरोक्षः न भ- वति, प्रतिबन्धककर्माभावे अपरोक्षो भवति ॥ ३-४-५०. ( ३२ ) प्र ॥ अपरोक्षानन्तरं पूर्वकृतं अप्रारब्धकाम्यकर्म कुत्र गच्छ- ति ? उ ॥ तत् पुण्यकर्म सुहृदं प्राप्नोति, पापकर्म द्वेषिणं प्राप्नो- ति ॥ ४-१-१७. ( ३३ ) प्र ॥ जीवाः केन मार्गेण विष्णुलोकं गच्छन्ति ? उ ॥ वक्ष्यमाणदेवतादिव्यतिरिक्तज्ञानिनः देहान्ते अर्चिरा- दिमार्गेण आतिवाहिकवायुलोकं प्राप्य तस्मात् तडिल्लो- कं ततः वायुलोकं प्राप्नुवन्ति, ततः विरिञ्चिन सह वि- ष्णुलोकं गच्छन्ति । देवताः शतऋषयः शतगन्धर्वाः शतं राजानः स्वोत्तमदेहे निलिय परम्परया उत्तमोत्त- मद्वारेण परमात्मानं प्राप्नुवन्ति ॥ ४-३-१, ४-३-५, ४-३-१०, ४-३-१५, ४-२-१, ४-२-२, ४-२-३, ४-२-४, ४-२-६, ४-२-१५. ( ३४ ) प्र ॥ मुक्ताः विष्णुलोकं प्रविश्य किं कुर्वन्ति ? उ ॥ विष्णुलोकं प्रविश्य तत्र वा विष्णोरनुज्ञया तदितर- लोकेषु वा योग्यताऽनुसारेण सालोक्यं वा सारूप्यं वा सामीप्यं वा सायुज्यं वा प्राप्तास्सन्तः, स्वसंक- ल्पानुसारेण सृष्ट्यादिव्यतिरिक्तसर्वकामान् चिद्रूपेण वा शुद्धसत्त्वरूपेण वा देहेन भुञ्जते, सायुज्यभाजस्तु परब्रह्मदेहेनापि स्वयोग्यभोगान् भुञ्जते, तेषां सर्वेषां पुनरावृत्तिर्नास्ति ॥ ४-४-५, ४-४-६, ४-४-८, ४-४-११, ४-४-१२, ४-४-१४, ४-४-१७, ४-४-१९, ४-४-२३. ( ३५ ) प्र ॥ कर्मिणां देहान्ते का गतिः ?

प्रतीयमानसिद्धान्तः ॥ ११२१ उ ॥ पुण्यकर्म्मिणः धूमादिमार्गेण चन्द्रलोकं प्राप्य तत्र भोगा न् भुक्त्वा शेषेण कर्मणा इमं लोकं आयान्ति । पापक र्म्मिणः तिर्यग्जन्म वा नरकं वा प्राप्नुवन्ति, तत्र दुःखं अनु भूय के चित् जीवाः पुनरपि मनुष्यजन्म प्राप्नुवन्ति, के चित् जीवाः तमसि अवरोहन्ति ॥ ३-१-८, ३-१-९, ३-१-१८, ३-१-१४. ( ३६ ) प्र ॥ नरके भेदः अस्ति किम् ? उ ॥ अस्ति, नरकाणि सप्त, द्वे नित्ये, पञ्च अनित्यानि, नि त्यनरके पतितस्य आरोहणं नास्ति ॥ ३-१-१६, ३-१-१४. ( ३७ ) प्र ॥ मोक्षदातुः विष्णोः लक्षणानि ज्ञातुं इच्छामि ? उ ॥ विष्णुः आनन्दपूर्णः ॥ १-१-१३. ( २ ) सर्वान्तर्यामी ॥ १-१-१८. ( ३ ) पृथिवीस्वर्गाद्याधारः ॥ १-३-१. ( ४ ) अदृश्यः ॥ १-२-२१. ( ५ ) प्राकृतरूपरहितः ॥ ३-२-१४. ( ६ ) गुणगुणिभेदरहितः ॥ ३-२-२८. ( ७ ) अवयवावयविभेदरहितः ॥ १-१-१५. ( ८ ) ज्ञानानन्दाद्यात्मकशरीरवान् ॥ २-२-४१. ( ९ ) सर्वपालकः ॥ ३-२-२२. ( १० ) सृष्टिसंहारकर्ता ॥ १-१-२. ( ११ ) अव्यक्तः ॥ ३-२-२३. ( १२ ) मुक्तप्राप्यः ॥ १-३-२. ( १३ ) सर्वगतः ॥ १-२-१०. ( १४ ) सर्वशब्दवाच्यः ॥ १-४-१०, १-४-११. ( १५ ) युक्तिविरुद्धाविरुद्धचिन्त्याचिन्त्यसर्वगुणोपेतः ॥ २- १-३८. ( ३८ ) प्र ॥ विष्णुः अदृश्यश्चेत् उपासकानां कथं तस्य साक्षात्का रः भवति ? उ ॥ अदृश्योऽपि स्वप्रसादात् उपासकानां व्यक्तः भवति ॥ ३-२-२७. १४१

॥१२२ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् ॥ (३९) प्र ॥ परमात्मा अवाच्य इति वेदे उक्तं खलु तस्य गुणाः क- थं वर्णनीयाः ? उ ॥ परमात्मा साकल्येन अवाच्योपि यत्किञ्चिद्रूपेण वाच्य एव ॥ १-१-५. (४०) प्र ॥ विष्णोः गुणाः अनन्ताः खलु, तस्य गुणोपासना कथम्? उ ॥ विष्णुः सत्यं ज्ञानं आनन्दं ब्रह्म इति चतुर्गुणैः मानुषैः उपसंहारः कर्तव्यः देवैः योग्यताऽनुसारेण एककाले यावन्तो गुणाः स्फुरन्ति तावद्गुणैः उपसंहारः कर्तव्यः। विरिञ्चस्तु सर्वगुणैः उपासनां कर्तुं योग्यः। सर्वैरपि परमात्मा मम स्वामी इति उपासना कार्या ॥ ४-१-३, ३-३-१०, ३-३-१२, ३-३-१४, ३-३-१८. (४१) प्र ॥ अधिकगुणोपासनेन किं प्रयोजनं ? उ ॥ अधिकफलं भवति ॥ ३-३-११. (४२) प्र ॥ मोक्षानन्तरमपि जीवानां उपासना अस्ति किम् ? उ ॥ मोक्षे मुक्ताः स्वेच्छया उपासनां कुर्वन्ति, न बद्धतया ॥ ३-३-२९, ४-१-१२. (४३) प्र ॥ लक्ष्मीः नित्यमुक्ता खलु तस्या अपि उपासना अस्ति किम् ? उ ॥ साऽपि भक्तिविशेषात् स्वेच्छया उपासनां करोति ॥ ३-३-४१. (४४) प्र ॥ स्वयोग्यबिम्बरूपव्यतिरिक्तरूपाणि उपास्यानि किम् ? उ ॥ अमुमुक्षुभिः काम्यार्थे उपास्यानि । मुमुक्षुभिः मोक्ष प्रतिबन्धकदुरितादिनिवारणार्थे उपास्यानि ॥ ३-३-६२, ३-३-६१. —:*:—

॥ द्वितीयः परिशिष्टः ॥ —::— ॥ शंकरभगवत्पादभाष्यानुसारी सिद्धान्तः ॥ —::— ( १ ) प्र ॥ किं ब्रह्म ? उ ॥ यतः सर्वज्ञात् सर्वशक्तेः कारणात् जगतः जन्मस्थिति भङ्गं भवति तत् नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्म ॥ १- १ - २ ० ( २ ) प्र ॥ ब्रह्म नित्यशुद्धतया निर्गुणं चेत् तथाविधस्य ब्रह्मणः सर्वज्ञत्वं सर्वशक्तित्वं च कथम् ? उ ॥ ब्रह्मणो निर्गुणस्यापि सर्वज्ञत्वं सर्वशक्तित्वं चाविद्या त्मकोपाधिपरिच्छेदापेक्षं न परमार्थतः ॥ २-१-१४. ( ३ ) प्र ॥ अविद्या सत्पदार्थो वा असत्पदार्थो वा ? उ ॥ सती असती इति वक्तुं न शक्यते ? अविद्या सर्वज्ञस्य ईश्वरस्य माया शक्तिः प्रकृतिः इति श्रुतिस्मृतिषु उच्य ते ॥ २-१-१४. ( ४ ) प्र ॥ ब्रह्म जगतः कारणं चेत्, किं उपादानकारणं किं वा नि मित्तकारणम् ? उ ॥ जगतः उपादानकारणं निमित्तकारणं च ब्रह्मैव ॥ १-४-२३, ( ५ ) प्र ॥ ब्रह्म जगतः उपादानकारणं चेत् ब्रह्म एकदेशेन परिण मते किम् ? उ ॥ ब्रह्म अखण्डं तस्य एकदेशः परिणमते इति वक्तुं न श क्यते ॥ २-१-२७. ( ६ ) प्र ॥ ब्रह्म विशिष्टं परिणमते किम् ? उ ॥ न ॥ २-१-२७. ( ७ ) प्र ॥ खण्डेन वा अखण्डरूपेण वा परिणामाभावे ब्रह्मणः उ पादानकारणत्वं कथम् ?

११२४ द्वितीयःपरिशिष्टः ॥ उ ॥ उपादानकारणं द्विविधं परिणाम्युपादानं विवर्तोपा- दानं चेति, ब्रह्म विवर्तोपादानकारणं न परिणाम्युपादा- नकारणम् ॥ २-१-२७. ( ८ ) प्र ॥ विवर्तोपादानकारणं कीदृशम् ? उ ॥ रज्जौ सर्पभ्रमे रज्जुः सर्पस्य कारणं इति यत् तादृशं विवर्तोपादानकारणम् ॥ ( ९ ) प्र ॥ सर्परज्जुदृष्टान्ते सर्पः यथा मिथ्या तथा जगदपि मिथ्या किम् ? उ ॥ मिथ्यैव, न सत्यं, तर्हि स्वप्नदृष्टकल्पितपदार्थ इव जगत् केवलं मिथ्या ? न, यत स्वप्ने दृष्टं तत् स्मृतमात्रं यत् जा- गरे दृष्टं तत् उपलब्धं, अतः स्वप्नकाले दृष्टपदार्थ इव के- वलं मिथ्या न, ब्रह्म विना सत्पदार्थ एव नास्ति अतः ज- गत् सत्यमिति वक्तुमपि न शक्यते॥ २-२-२९, १-४-२३. ( १० ) प्र ॥ जगत् केवलं मिथ्या न केवलं सत्यं न इति चेत् किमि- ति मन्तव्यम् ? उ ॥ व्यवहारे सत्यं पारमार्थिकदशायां असत्यं इति मन्तव्यं स्वप्ने दृष्टपदार्थाः स्वप्नान्तपर्यन्तं यथा सत्याः तथा स- र्वं ब्रह्म इति ज्ञानात्पूर्वं जगत् सत्यं अनन्तरं मिथ्या इति मन्तव्यम् ॥ २-१-१४. ( ११ ) प्र ॥ ब्रह्मणः अन्यस्य वस्तुनः अभावे जगत् ब्रह्म कथं सृजति ? उ ॥ अविद्याकल्पिते प्रपञ्चस्य बीजभूते अनिर्वचनीये नामरू- पे स्तः ते ब्रह्म प्रकटीकरोति, तदेव सृष्टिः॥ २-१-१४, १-४-१५. ( १२ ) प्र ॥ नामरूपाभ्यां ईश्वरः अन्यो वा अनन्यो वा ? उ ॥ अन्यः ॥ २-१-१४. ( १३ ) प्र ॥ जगत्सृष्ट्या ब्रह्मणः किं प्रयोजनम् ? उ ॥ प्रयोजनं नास्ति लीलया सृष्टिं करोति ॥ २-१-३३.

द्वितीयः परिशिष्टः ॥ ११२६ (१४) प्र ॥ ब्रह्म कांश्चित् जनान् दुःखभाजः करोति कांश्चित् जना न् सुखभाजः करोति तस्य कारणं किम् ? उ ॥ जीवानां अनादिकर्म कारणम् ॥ २-१-३४, २-१-३५. (१५) प्र ॥ यः इदं इदमिति जानाति स जीवोऽपि जगदिव मिथ्या किम् ? उ ॥ न, जीवः ब्रह्मैव, तथाऽपि मायाकल्पितदेहेन्द्रियोपाधि वशात् तस्य भेदव्यपदेशः ॥ १-२-२०, १-४-२२. (१६) प्र ॥ ब्रह्मणः उपाधिः कथं आगतः ? उ ॥ उपाधिः अनादिः ॥ २-१-१४. १७) प्र ॥ जीवः ब्रह्मणः अभिन्नश्चेत् शास्त्रे विधिनिषेधयोः किं प्रयोजनम् ? उ ॥ यथा स्वप्नदृष्टपदार्थाः स्वप्नान्तपर्यन्तं सत्याः अनन्तरं मिथ्या, तथा यावत्पर्यन्तं अहमेव ब्रह्म इति ज्ञानं जीव स्य न सम्भवति तावत्पर्यन्तं जीवभेदादिकं सत्यं भेद सत्यताज्ञानात् तावत्पर्यन्तं जीवः शास्त्रोक्तप्रकारेण क र्म कुर्यात् एव । व्यवहारकाले विधिनिषेधयोः प्रयोज नं अस्ति ॥ २-३-४८, २-१-१४. (१८) प्र ॥ जीवानां देहसम्बन्धरूपसंसारात् मुक्तिः अस्ति वा ? उ ॥ अस्ति, अहं ब्रह्मैव इति ज्ञानं यदा सम्भवति तदा मु क्तिः ॥ १-१-१९, ३-३-३२, ४-३-१४. (१९) प्र ॥ कर्मणां प्रयोजनं नास्ति किम् ? उ ॥ प्रयोजनं अस्ति, कर्म परम्परया ज्ञानसाधकम् ॥ ४-१- १६, १८,३-४-२७. (२०) प्र ॥ ज्ञानानन्तरं पूर्वकृतं कर्म किं भवति ? उ ॥ सुकर्म सुहृदं प्राप्नोति, दुष्कर्म द्वेषिणं प्राप्नोति । प्रार

११२६ द्वितीयः परिशिष्टः ॥ ब्धकर्म अनुभवेनैव नश्यति अनुभवानन्तरं ब्रह्मज्ञानी ब्रह्म प्राप्नोति ॥ ४-१-१५, ३-३-२६. (२१) प्र ॥ काम्यकर्मापि ज्ञानसाधनं किम् ? उ ॥ न ॥ ४-१-१७. (२२) प्र ॥ जीवः कर्ता वा ? उ ॥ यथा तक्षा यावत् उपकरणवान् तावत् कर्ता भवति, स्वगृहप्राप्त्यनन्तरं निर्व्यापारः सुखी च भवति, तथा जीवः यावत् अविद्यासम्बन्धी तावत् कर्ता, अनन्तरं न ॥ २-३-४०. (२३) प्र ॥ जीवानां कर्तृत्वं भगवदधीनं वा न वा ? उ ॥ भगवदधीनमेव, पूर्वकर्मानुसारेण परमात्मा जीवैः क- र्म कारयति मोक्षोऽपि भगवदनुग्रहादेव ॥ २-३-४२. (२४) प्र ॥ ब्रह्मणः जीवस्य एकत्वे उपास्योपासकभावः कथम् ? उ ॥ ब्रह्म द्विरूपं, एकं नामरूपविकारभेदोपाधिविशिष्टं अ- न्यत् तद्विपरीतं जीवस्य अविद्यावस्थायां नामरूपवि- शिष्टस्य ब्रह्मणः उपास्योपासकादिलक्षणव्यवहारः ॥ १-१-१२, ४-३-१४. (२५) प्र ॥ ब्रह्म सगुणत्वनिर्गुणत्वभेदेन द्विरूपं इति भवद्भिः उ- क्तं । तत् द्विरूपं कालभेदेन वा एककाले वा ? उ ॥ एककाले द्वे रूपे स्तः ॥ (२६) प्र ॥ उपासना कथं कार्या ? उ ॥ ब्रह्म मम आत्मा इति उपासना कार्या ॥ ४-१-३. (२७) प्र ॥ ज्ञानानन्तरं ब्रह्म विना किमपि नास्ति खलु अतः वेदोऽ- पि मिथ्या वा ?

द्वितीयः परिशिष्टः ॥ ११२७ उ ॥ ज्ञानानन्तरं मिथ्यैव ॥ ४-१-३. (२८) प्र ॥ मिथ्यारूपवेदोक्तोपासनेन सत्यज्ञानं कथं भवति ? उ ॥ स्वप्नं असत्यमपि स्वप्नदर्शनेन जाग्रति सत्यफलप्राप्तिः यथा सम्भवति तथा वेदोक्तोपासनया यथार्थज्ञानं स- म्भवति । यः स्वप्ने कृष्णं कृष्णदन्तं पुरुषं पश्यति स एनं हन्ति यः स्वप्नेषु स्त्रियं पश्यति स समृद्धिं प्राप्नो- ति इत्यादिश्रुतिवचनात् असत्येन कारणेन सत्यफलं स- म्भवतीति सिद्धम् ॥ २-१-१४. (२९) प्र ॥ मायाविशिष्टस्य सगुणब्रह्मणः उपासना केवलं ज्ञान- साधनमेव वा सा अन्यफलमपि ददाति वा ? उ ॥ सगुणोपासना उपासकस्य जीवस्य सङ्कल्पमात्रेण स- र्वापेक्षितप्राप्तिरूपजगदैश्वर्यं ददाति ॥ ४-३-१४. (३०) प्र ॥ सुकर्मिणां मरणात्परं का गतिः ? उ ॥ धूमादिमार्गेण चन्द्रलोकं गत्वा तत्र भोगाननुभूय कर्म- शेषेण इमं लोकं पुनरागच्छन्ति कर्मानुसारेण जन्म प्रा- प्नुवन्ति ॥ ३-१-८. (३१) प्र ॥ दुष्कर्मिणां अकर्मिणां च का गतिः ? उ ॥ ते यमलोकं गच्छन्ति तत्र दुःखं अनुभूय इमं लोकं पु- नः प्रविशन्ति ॥ ३-१-१३, १४. (३२) प्र ॥ निर्गुणोपासकानां का गतिः ? उ ॥ गम्याभावात् तेषां गतिः नास्ति । ज्ञानात् ब्रह्मत्वमेव सिध्यति ॥ ४-३-१४. (३३) प्र ॥ सगुणोपासकानां का गतिः ? उ ॥ अर्चिरादिमार्गेण चतुर्मुखब्रह्म प्राप्नुवन्ति तल्लोकप्रळ

११२८ द्वितीयः परिशिष्टः ॥ यत्काले तत्रोत्पन्नसम्यग्ज्ञानवन्तः ब्रह्मणा सह विष्णुप दं प्राप्नुवन्ति ॥ ४-३-१. ( ३४ ) प्र ॥ सगुणोपासकानां ब्रह्मलोकप्राप्त्यनन्तरं पुनरावृत्तिः अ- स्ति वा ? उ ॥ न, सगुणशरणानां अपि क्रमेण निर्वाणं अस्ति अतः पुनरावृत्तिर्नास्ति ॥ ४-४-२२. —:*:— ☞ ए, महादेवशास्त्री.

॥ तृतीयः परिशिष्टः ॥ ——————✻—————— ॥ भगवद्रामानुजभाष्यानुसारिसिद्धान्तसंग्रहः ॥ —————:✲:————— ( १ ) प्र ॥ जगत्कारणं किम् ? उ ॥ यत् जगदिति व्यवह्रियते तत् स्थूलचिदचिद्विशिष्टं ब्र- ह्म । तस्य कारणं सूक्ष्मचिदचिद्विशिष्टं ब्रह्म ॥ १-१-१० ( २ ) प्र ॥ विशेषणीभूतस्य चिदचिद्रूपजगतः कारणं किम् ? उ ॥ ब्रह्मैव ॥ ( ३ ) प्र ॥ ब्रह्म निमित्तकारणं वा उपादानकारणं वा ? उ ॥ उभयं च ॥ ( ४ ) प्र ॥ संकल्पद्वारा ब्रह्म निमित्तकारणं भवतु । उपादानकार- णं कथं भवति ? उ ॥ चिदचितोः अपृथक्सिद्धाधारत्वात् तादृशचिदचिद्वै- शिष्ट्यरूपकार्यकारणावस्थायोगात् उपादानकारणं भ- वति ॥ १-१-१० ( ५ ) प्र ॥ ब्रह्म किंलक्षणकम् ? उ ॥ ब्रह्म निखिलजगज्जन्मादिकारणं निरस्तनिखिलदोषं समस्तकल्याणगुणाकरं सत्यं ज्ञानमनन्तं सर्वात्मक- मनवधिकातिशयानन्दं च ॥ १-१-१,२० ३-२-११. ( ६ ) प्र ॥ ब्रह्मणस्सर्वात्मकत्वे सर्वदोषास्पदत्वमपरित्याज्यमिति कथं तस्य निरस्तनिखिलदोषता ? उ ॥ सर्वात्मकत्वं हि न सर्वाभिन्नत्वं । किन्तु सर्वान्तर्यामि- त्वं यदेवसर्वशरीरत्वमित्युच्यते । यथा च सर्वव्यापि- नोऽपि वाय्वादेः न व्याप्यगतदोषास्पदता । यथा वा शरीरगतैर्दोषैः शारीरश्चेतनो नस्पृश्यते तथा सर्वान्त- र्याम्यपि ब्रह्म निरस्तनिखिलदोषमेव ॥ ३-२-११. १४२

११३० तृतीयः परिशिष्टः ॥ ( ७ ) प्र ॥ ब्रह्म चैतन्यस्वरूपं वा चैतन्यगुणकं वा ? उ ॥ चैतन्यगुणकं चैतन्यस्वरूपं च ॥ ३-२-१६. ( ८ ) प्र ॥ ब्रह्म कथं ज्ञातव्यम् ? उ ॥ शास्त्रात् ॥ ( ९ ) प्र ॥ ब्रह्मणः सर्वचिदचित्कारणत्वे स्वप्नपदार्थानां अपि ब्रह्मैव कारणं किम् ? उ ॥ ब्रह्मैव ॥ ३-२-१. ( १० ) प्र ॥ स्वप्नपदार्थाः मिथ्या न किम् ? उ ॥ न । किंतु तत्तत्कालावसायिनः तत्तत्पुरुषमात्रानुभा- व्याः ईश्वरसृष्टाः सत्या एव ॥ १-१-१०. ( ११ ) प्र ॥ सृष्ट्या परमात्मनः प्रयोजनं किम् ? उ ॥ लीलैव ॥ २-१-३३. ( १२ ) प्र ॥ जीवाः परमात्मनः भिन्ना वा अभिन्ना वा ? उ ॥ भिन्ना एव ॥ २-१-२२. ( १३ ) प्र ॥ जीवः अणुर्वा व्यापको वा

तृतीयः परिशिष्टः ॥ ११३१ (१७) प्र ॥ जीवः परतन्त्रकर्ता चेत् विधिनिषेधशास्त्रस्य निष्प्र- योजनत्वं नापतति किम् ? उ ॥ शास्त्रं हि इदं कार्यं इति इदं अकार्यं इति ज्ञानाय प्र- वृत्तम् । जीवः शास्त्रानुसारेण अनुष्ठाने अननुष्ठाने च स्वतन्त्रः अतः विधिनिषेधशास्त्रं सप्रयोजनम् । शास्त्रा- र्थोऽनुष्ठानप्रवृत्त्यनन्तरं भगवत्प्रेरणं विना कार्यं न निष्प- द्यते । अतः जीवः परतन्त्रकर्ता ॥ २-३-४१. (१८) प्र ॥ जीवानां भूतसम्बन्धः देहान्ते निवर्तते वा न वा ? उ ॥ मुक्तिपर्यन्तं न निवर्तते । कर्मानुसारेण भूयोभूयः जन्मा- न्तरं प्राप्नुवन्ति ॥ ३-१-१. (१९) प्र ॥ जीवानां जन्मान्तरादिक्लेशात् कथं मुक्तिः ? उ ॥ भगवदुपासनातः प्रीतः परमात्मा मुक्तिं ददाति ॥ ३- ४-१, १-१०. (२०) प्र ॥ कर्मउपासकेनाप्यनुष्ठेयं किम् ? उ ॥ कर्म उपासनायाः अङ्गम् । अतः अवश्यं अनुष्ठेयम् ॥ ३-४-२६. (२१) प्र ॥ उपासना का ? उ ॥ उपासना अविच्छिन्नस्मृतिसन्ततिरूपा ध्यानवेदनभ- क्तिज्ञानादिशब्दवाच्या संस्कारपरिपाकसमासादित विशदत मप्रत्यक्षाकारा ॥ ३-४-२६. (२२) प्र ॥ उपास्यं ब्रह्म उपासितुः अन्यत्वेन उपास्यं किं उत आत्मत्वेन ? उ ॥ जीवः शरीरस्य यथा आत्मा तथा स्वस्यापि परब्रह्म आत्मेति उपासीत ॥ ४-१-३.