पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1169, कुल 1267 में से
संदर्भ में पढ़ें॥१२२ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् ॥ (३९) प्र ॥ परमात्मा अवाच्य इति वेदे उक्तं खलु तस्य गुणाः क- थं वर्णनीयाः ? उ ॥ परमात्मा साकल्येन अवाच्योपि यत्किञ्चिद्रूपेण वाच्य एव ॥ १-१-५. (४०) प्र ॥ विष्णोः गुणाः अनन्ताः खलु, तस्य गुणोपासना कथम्? उ ॥ विष्णुः सत्यं ज्ञानं आनन्दं ब्रह्म इति चतुर्गुणैः मानुषैः उपसंहारः कर्तव्यः देवैः योग्यताऽनुसारेण एककाले यावन्तो गुणाः स्फुरन्ति तावद्गुणैः उपसंहारः कर्तव्यः। विरिञ्चस्तु सर्वगुणैः उपासनां कर्तुं योग्यः। सर्वैरपि परमात्मा मम स्वामी इति उपासना कार्या ॥ ४-१-३, ३-३-१०, ३-३-१२, ३-३-१४, ३-३-१८. (४१) प्र ॥ अधिकगुणोपासनेन किं प्रयोजनं ? उ ॥ अधिकफलं भवति ॥ ३-३-११. (४२) प्र ॥ मोक्षानन्तरमपि जीवानां उपासना अस्ति किम् ? उ ॥ मोक्षे मुक्ताः स्वेच्छया उपासनां कुर्वन्ति, न बद्धतया ॥ ३-३-२९, ४-१-१२. (४३) प्र ॥ लक्ष्मीः नित्यमुक्ता खलु तस्या अपि उपासना अस्ति किम् ? उ ॥ साऽपि भक्तिविशेषात् स्वेच्छया उपासनां करोति ॥ ३-३-४१. (४४) प्र ॥ स्वयोग्यबिम्बरूपव्यतिरिक्तरूपाणि उपास्यानि किम् ? उ ॥ अमुमुक्षुभिः काम्यार्थे उपास्यानि । मुमुक्षुभिः मोक्ष प्रतिबन्धकदुरितादिनिवारणार्थे उपास्यानि ॥ ३-३-६२, ३-३-६१. —:*:—