पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1170, कुल 1267 में से
संदर्भ में पढ़ें॥ द्वितीयः परिशिष्टः ॥ —::— ॥ शंकरभगवत्पादभाष्यानुसारी सिद्धान्तः ॥ —::— ( १ ) प्र ॥ किं ब्रह्म ? उ ॥ यतः सर्वज्ञात् सर्वशक्तेः कारणात् जगतः जन्मस्थिति भङ्गं भवति तत् नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्म ॥ १- १ - २ ० ( २ ) प्र ॥ ब्रह्म नित्यशुद्धतया निर्गुणं चेत् तथाविधस्य ब्रह्मणः सर्वज्ञत्वं सर्वशक्तित्वं च कथम् ? उ ॥ ब्रह्मणो निर्गुणस्यापि सर्वज्ञत्वं सर्वशक्तित्वं चाविद्या त्मकोपाधिपरिच्छेदापेक्षं न परमार्थतः ॥ २-१-१४. ( ३ ) प्र ॥ अविद्या सत्पदार्थो वा असत्पदार्थो वा ? उ ॥ सती असती इति वक्तुं न शक्यते ? अविद्या सर्वज्ञस्य ईश्वरस्य माया शक्तिः प्रकृतिः इति श्रुतिस्मृतिषु उच्य ते ॥ २-१-१४. ( ४ ) प्र ॥ ब्रह्म जगतः कारणं चेत्, किं उपादानकारणं किं वा नि मित्तकारणम् ? उ ॥ जगतः उपादानकारणं निमित्तकारणं च ब्रह्मैव ॥ १-४-२३, ( ५ ) प्र ॥ ब्रह्म जगतः उपादानकारणं चेत् ब्रह्म एकदेशेन परिण मते किम् ? उ ॥ ब्रह्म अखण्डं तस्य एकदेशः परिणमते इति वक्तुं न श क्यते ॥ २-१-२७. ( ६ ) प्र ॥ ब्रह्म विशिष्टं परिणमते किम् ? उ ॥ न ॥ २-१-२७. ( ७ ) प्र ॥ खण्डेन वा अखण्डरूपेण वा परिणामाभावे ब्रह्मणः उ पादानकारणत्वं कथम् ?