पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1167, कुल 1267 में से
संदर्भ में पढ़ें११९० ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् । ( ३० ) प्र ॥ अपरोक्षानन्तरं तत्क्षणमेव विष्णुलोकप्राप्तिः भवति वा ? उ ॥ प्रारब्धकर्मप्रतिबन्धाभावे शरीरपातानन्तरं मुक्तिः, त- द्भावे तत्फलभोगानन्तरमेव ॥ ३-४-५१. ( ३१ ) प्र ॥ प्रारब्धकर्मसद्भावे अपरोक्षः कथं भवति ? उ ॥ अपरोक्षप्रतिबन्धकप्रारब्धकर्मसद्भावे अपरोक्षः न भ- वति, प्रतिबन्धककर्माभावे अपरोक्षो भवति ॥ ३-४-५०. ( ३२ ) प्र ॥ अपरोक्षानन्तरं पूर्वकृतं अप्रारब्धकाम्यकर्म कुत्र गच्छ- ति ? उ ॥ तत् पुण्यकर्म सुहृदं प्राप्नोति, पापकर्म द्वेषिणं प्राप्नो- ति ॥ ४-१-१७. ( ३३ ) प्र ॥ जीवाः केन मार्गेण विष्णुलोकं गच्छन्ति ? उ ॥ वक्ष्यमाणदेवतादिव्यतिरिक्तज्ञानिनः देहान्ते अर्चिरा- दिमार्गेण आतिवाहिकवायुलोकं प्राप्य तस्मात् तडिल्लो- कं ततः वायुलोकं प्राप्नुवन्ति, ततः विरिञ्चिन सह वि- ष्णुलोकं गच्छन्ति । देवताः शतऋषयः शतगन्धर्वाः शतं राजानः स्वोत्तमदेहे निलिय परम्परया उत्तमोत्त- मद्वारेण परमात्मानं प्राप्नुवन्ति ॥ ४-३-१, ४-३-५, ४-३-१०, ४-३-१५, ४-२-१, ४-२-२, ४-२-३, ४-२-४, ४-२-६, ४-२-१५. ( ३४ ) प्र ॥ मुक्ताः विष्णुलोकं प्रविश्य किं कुर्वन्ति ? उ ॥ विष्णुलोकं प्रविश्य तत्र वा विष्णोरनुज्ञया तदितर- लोकेषु वा योग्यताऽनुसारेण सालोक्यं वा सारूप्यं वा सामीप्यं वा सायुज्यं वा प्राप्तास्सन्तः, स्वसंक- ल्पानुसारेण सृष्ट्यादिव्यतिरिक्तसर्वकामान् चिद्रूपेण वा शुद्धसत्त्वरूपेण वा देहेन भुञ्जते, सायुज्यभाजस्तु परब्रह्मदेहेनापि स्वयोग्यभोगान् भुञ्जते, तेषां सर्वेषां पुनरावृत्तिर्नास्ति ॥ ४-४-५, ४-४-६, ४-४-८, ४-४-११, ४-४-१२, ४-४-१४, ४-४-१७, ४-४-१९, ४-४-२३. ( ३५ ) प्र ॥ कर्मिणां देहान्ते का गतिः ?