पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1166, कुल 1267 में से
संदर्भ में पढ़ेंप्रतीयमानसिद्धान्तः ॥ (२४) प्र ॥ स्त्रीणां वेदाधिकारः अस्ति वा न वा ? नास्ति चेत् तासां ज्ञानं कथम् ? उ ॥ देवऋष्यादिस्त्रीणां वेदाधिकारो वर्तते, इतरासां वेदा- धिकारो नास्ति, तासां शूद्रवत् पुराणश्रवणादिना ज्ञा- नं. अतः मोक्षः ॥ १-१-१०. (२५) प्र ॥ भगवदपरोक्षात् मोक्ष इति भवद्भिः उक्तम्, रामकृष्णा- द्यवतारकाले अनेकजनानां भगवदपरोक्षं आसीत्खलु. तेषां सर्वेषां मोक्षः अस्ति किम् ? उ ॥ तेषां उत्तमलोकप्राप्तिरेव, न मोक्षः, हृदयस्थबिम्बद- र्शनादेव मुक्तिर्भवति ॥ ३-३-५३. (२६) प्र ॥ भगवदपरोक्षात्परं ज्ञानिनां यथेच्छानुचरणं युक्तं वा ? उ ॥ भगवदपरोक्षानन्तरं दुष्कर्मणा मोक्षहानिः नास्ति, कि- न्तु आनन्दहासः भवति, सत्कर्मानुष्ठानेन मोक्षे फला- तिशयो भवति, तस्मात् स्वेच्छया सत्कर्मानुष्ठानमेव कर्तव्यम् ॥ ३-४-१९, ३-४-३३. (२७) प्र ॥ सत्कर्मानुष्ठानं कर्तव्यं इति भवद्भिः उक्तं तत्कर्म इच्छा- नुसारेण कर्तव्यं वा विध्यनुसारेण वा ? उ ॥ मनुष्याः विधिप्रकारेणैव कर्म कुर्युः, देवाः अनुष्ठेयक- र्ममध्ये यत्कर्मणि इच्छा, तत्कर्म कुर्युः, विरिञ्चस्तु इ- च्छानुसारेण कर्म कुर्यात् तस्य इच्छैव विधिः ॥ ३-४-२२, ३-४-२३, ३-४-२४. (२८) प्र ॥ मोक्षः कीदृशः ? उ ॥ भूतबन्धनिवृत्तिरेव मोक्षः ॥ ३-१-१०. (२९) प्र ॥ मोक्षे फलतारतम्यं अस्ति वा ? उ ॥ अस्ति, मोक्षे जीवानां योग्यताऽनुसारेण आनन्दः ॥ ३-३-३३.