पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1173, कुल 1267 में से
संदर्भ में पढ़ें११२६ द्वितीयः परिशिष्टः ॥ ब्धकर्म अनुभवेनैव नश्यति अनुभवानन्तरं ब्रह्मज्ञानी ब्रह्म प्राप्नोति ॥ ४-१-१५, ३-३-२६. (२१) प्र ॥ काम्यकर्मापि ज्ञानसाधनं किम् ? उ ॥ न ॥ ४-१-१७. (२२) प्र ॥ जीवः कर्ता वा ? उ ॥ यथा तक्षा यावत् उपकरणवान् तावत् कर्ता भवति, स्वगृहप्राप्त्यनन्तरं निर्व्यापारः सुखी च भवति, तथा जीवः यावत् अविद्यासम्बन्धी तावत् कर्ता, अनन्तरं न ॥ २-३-४०. (२३) प्र ॥ जीवानां कर्तृत्वं भगवदधीनं वा न वा ? उ ॥ भगवदधीनमेव, पूर्वकर्मानुसारेण परमात्मा जीवैः क- र्म कारयति मोक्षोऽपि भगवदनुग्रहादेव ॥ २-३-४२. (२४) प्र ॥ ब्रह्मणः जीवस्य एकत्वे उपास्योपासकभावः कथम् ? उ ॥ ब्रह्म द्विरूपं, एकं नामरूपविकारभेदोपाधिविशिष्टं अ- न्यत् तद्विपरीतं जीवस्य अविद्यावस्थायां नामरूपवि- शिष्टस्य ब्रह्मणः उपास्योपासकादिलक्षणव्यवहारः ॥ १-१-१२, ४-३-१४. (२५) प्र ॥ ब्रह्म सगुणत्वनिर्गुणत्वभेदेन द्विरूपं इति भवद्भिः उ- क्तं । तत् द्विरूपं कालभेदेन वा एककाले वा ? उ ॥ एककाले द्वे रूपे स्तः ॥ (२६) प्र ॥ उपासना कथं कार्या ? उ ॥ ब्रह्म मम आत्मा इति उपासना कार्या ॥ ४-१-३. (२७) प्र ॥ ज्ञानानन्तरं ब्रह्म विना किमपि नास्ति खलु अतः वेदोऽ- पि मिथ्या वा ?