पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1174, कुल 1267 में से
संदर्भ में पढ़ेंद्वितीयः परिशिष्टः ॥ ११२७ उ ॥ ज्ञानानन्तरं मिथ्यैव ॥ ४-१-३. (२८) प्र ॥ मिथ्यारूपवेदोक्तोपासनेन सत्यज्ञानं कथं भवति ? उ ॥ स्वप्नं असत्यमपि स्वप्नदर्शनेन जाग्रति सत्यफलप्राप्तिः यथा सम्भवति तथा वेदोक्तोपासनया यथार्थज्ञानं स- म्भवति । यः स्वप्ने कृष्णं कृष्णदन्तं पुरुषं पश्यति स एनं हन्ति यः स्वप्नेषु स्त्रियं पश्यति स समृद्धिं प्राप्नो- ति इत्यादिश्रुतिवचनात् असत्येन कारणेन सत्यफलं स- म्भवतीति सिद्धम् ॥ २-१-१४. (२९) प्र ॥ मायाविशिष्टस्य सगुणब्रह्मणः उपासना केवलं ज्ञान- साधनमेव वा सा अन्यफलमपि ददाति वा ? उ ॥ सगुणोपासना उपासकस्य जीवस्य सङ्कल्पमात्रेण स- र्वापेक्षितप्राप्तिरूपजगदैश्वर्यं ददाति ॥ ४-३-१४. (३०) प्र ॥ सुकर्मिणां मरणात्परं का गतिः ? उ ॥ धूमादिमार्गेण चन्द्रलोकं गत्वा तत्र भोगाननुभूय कर्म- शेषेण इमं लोकं पुनरागच्छन्ति कर्मानुसारेण जन्म प्रा- प्नुवन्ति ॥ ३-१-८. (३१) प्र ॥ दुष्कर्मिणां अकर्मिणां च का गतिः ? उ ॥ ते यमलोकं गच्छन्ति तत्र दुःखं अनुभूय इमं लोकं पु- नः प्रविशन्ति ॥ ३-१-१३, १४. (३२) प्र ॥ निर्गुणोपासकानां का गतिः ? उ ॥ गम्याभावात् तेषां गतिः नास्ति । ज्ञानात् ब्रह्मत्वमेव सिध्यति ॥ ४-३-१४. (३३) प्र ॥ सगुणोपासकानां का गतिः ? उ ॥ अर्चिरादिमार्गेण चतुर्मुखब्रह्म प्राप्नुवन्ति तल्लोकप्रळ