पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1164, कुल 1267 में से
संदर्भ में पढ़ेंप्रतीयमान सिद्धान्तः ॥ १११७ नं एकस्थले वर्तमानमपि अन्यत्र अंशेन व्यापकं भव ति, यथा दीपः एकत्र विद्यमानोऽपि प्रकाशगुणेन व्याप को भवति तथा जीवः अंशेन वा गुणेन वा देहे सर्वत्र व्यापी भवति ॥ २-३-२०, २-३-२४, २-३-२५, २-३-२६. ( १२ ) प्र ॥ जीवस्य स्वरूपं कीदृशम् ? उ ॥ त्रिविधं, मुक्तियोग्यानां ज्ञानानन्दस्वरूपं, तमोयोग्या नां अज्ञानदुःखस्वरूपं, नित्यसंसारिणां मिश्रस्वरूपम्॥ २-३-३२. ( १३ ) प्र ॥ एवं सति त्रिविधानां विपरीतानुभवः कथं संभवति ? उ ॥ स्वरूपं अविद्यया आवृतं, अतः अन्यथाऽनुभवः औपा धिकः ॥ २-३-३२. ( १४ ) प्र ॥ जीवाः भगवदधीना वा स्वतन्त्रा वा ? उ ॥ परमात्माधीना एव, तथाऽपि तेषां किञ्चित् भगवद्दत्त स्वातन्त्र्यं अस्ति, तथा न चेत् शास्त्रस्य निष्प्रयोजन त्वं स्यात् खलु ॥ २-३-३३, २-३-४१, २-३-४२. ( १५ ) प्र ॥ जीवानां भूतसम्बन्धः देहान्ते निवर्तते वा न वा ? उ ॥ न निवर्तते, जीवाः कर्मानुसारेण भूयोभूयः जन्मान्तरं प्राप्नुवन्ति ॥ ३-१-१, ३-१-८. ( १६ ) प्र ॥ जीवानां जन्मान्तरादिक्लेशात् कथं मुक्तिः ? उ ॥ परमात्मानुग्रहजन्यतदपरोक्षेण मोक्षः सम्भवति ॥ ३-२-२३, ३-२-२७, ३-३-४८, ३-३-४९, ३-३-५४. ( १७ ) प्र ॥ परमात्मानुग्रहः कथं सम्भवति ? उ ॥ श्रवणमननादिभिः हरिगुरुभक्तिशमदमादिभिः सम्भ वति ॥ ( १८ ) प्र ॥ कर्मणः प्रयोजनं नास्ति किम् ? उ ॥ अस्ति, कर्म द्विविधं काम्यं अकाम्यं इति, काम्यकर्म