पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 124, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ५. सू - ७. ] दीपिकासहितम्. ७७ इतरेष्वात्मशब्दस्तु सोपचारः प्रयुज्यते । तस्यात्मनो निर्गुणस्य ज्ञानान्मोक्ष उदाहृतः ॥ सगुणास्त्वपरे प्रोक्तास्तज्ज्ञानान्नैव मुच्यते । परो हि पुरुषो विष्णुस्तस्मान्मोक्षस्ततस्मृतः ॥ इति पाद्मे । व्याख्येयम् । अत्र ब्रह्मावेशेन सहोत्पन्ने चन्द्रे निरुक्तसम्भवशब्दो मु- ख्यः । साक्षाद्विष्णुरुद्रांशत्वेन तत्सम्भूतयोर्दत्तदुर्वाससोस्तु छत्रिन्या- येनामुख्य इति द्रष्टव्यम् । यद्यपि “अत्रेः पत्न्यनसूया त्रीन् जज्ञेऽति यशसः सुतान् । दत्तं” इति भागवतपाठः, तथाऽप्यनुव्याख्याने एवं पठितत्वात्तथैव सुधायां व्याख्यातत्वात्तदन्यकल्पीयं पाठान्तरं भवि- ष्यतीत्यदोषः । अस्यापीत्युपदिश्यत इत्यनेनान्वयः । चेतनस्त्विति पा- द्मवाक्यम् । ‘प्रभो’ इति कस्य चित्सम्बोधनम् । तत्रेति शेषः । आ- द्यस्तुशब्दो विशेषार्थे । द्वितीयोऽवधारणे । तथा च—‘जीवाः ब्रह्मा- दयः प्रोक्ताः आत्मा तु’ तच्छब्दमुख्यवाच्यस्तु ‘जनार्दनो’ विष्णुः ‘एकः’ एव प्रोक्तः प्रमाणेषु । ‘इतरेषु’ ब्रह्मादिषु ‘आत्मशब्दः सोप- चारः’ परममुख्यवृत्त्यपेक्षया हीनवृत्तियुक्त इति ज्ञानिभिरभिधीयत इत्यर्थः । कुतस्तस्यैवात्मत्वं नान्येषामित्यत आह—तस्येति । यतः ‘तस्य’ निर्गुणस्य आत्मनो ‘ज्ञानान्मोक्षो’ भवतीति “यस्यानुवित्तः” ( बृ. उ. ४-४-१३. ) इत्यादौ ‘उदाहृतः’ उक्तः अतोऽयमात्मा निर्गुणो विष्णुरेव नान्यः। कुतः? तस्यैव विष्णोर्निर्गुणस्य मोक्षदातृत्वसम्भवात्, अन्येषां तदसम्भवादित्यर्थः । आत्मज्ञानान्मोक्षोपदेशोऽपि कुतो नेतरे- षामात्मत्वं तेषामपि मोक्षदातृत्वसम्भवादित्यत आह—सगुणा इति । तुरवधारणे । तथाच—‘अपरे’ विष्णोरन्ये ब्रह्मादयो यतः ‘सगुणाः’ सत्त्वादिगुणबद्धा एव न स्वतस्तद्विधुराः अतः ‘तज्ज्ञानान्नैव’ सर्वथा ‘मुच्यते’ अधिकारीत्यर्थः, गुणबद्धात्मविज्ञानात् गुणबन्धनिवृत्तिरूप- मोक्षायोगादिति भावः । ननु विष्णावपि निर्गुणत्वेनास्तु मोक्षदातृत्व- सम्भावना, तन्निश्चयस्तु कुत इत्यत आह—परो हीति । ‘हि’ यस्मात् ‘विष्णुःपरः’ स्वतन्त्रः । तत्त्वप्रदीपरीत्या सर्वोत्तम इति वा, ‘पुरुषः’ पूर्णः ‘तस्मान्मोक्षस्ततो’ विष्णोर्भवेदेवेति स्मृतः स्मृत्युक्त इत्यर्थः । ‘इति पाद्मे’ इत्यस्यापि इत्युपदिश्यत इति पूर्वेणान्वयः ॥ ७ ॥