पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 125, कुल 1267 में से
संदर्भ में पढ़ें७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २२ ) सू-ॐ ॥ हेयत्वावचनाच्च ॥ ॐ ॥ ८ ॥ 'तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ । अमृतस्यैष सेतुः ( मुं.उ. २-२-५. ) इत्यन्येषां हेयत्ववच- नादस्याहेयत्ववचनाच्च गौण आत्मा ॥ ( २३ ) सू-ॐ ॥ स्वाप्ययात् ॥ ॐ ॥ ९ ॥ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ (बृ.उ.५-१-१०.) ( २२ ) युक्त्यन्तरेणात्मशब्दादितो न गौण इत्याह सूत्रकृत्-हेय- त्वेति ॥ अत्र हेयत्वं नाम मोक्षार्थे प्राधान्येन ज्ञेयत्वेनाविहितत्वम् । त- था च-न केवलं तन्निष्ठस्य मोक्षोपदेशात्, किन्तु “तमेवैकम्” इति श्रुतौ आत्मनो हेयत्वावचनात्, प्रत्युत 'जानथ' इत्यहेयत्ववचनात्, जीव- स्य च “अन्या वाचो विमुञ्चथ” इति मुमुक्षुभिर्हेयत्ववचनाच्चेति सूत्रवृत्तिभिप्रेत्य सूत्रं व्याचष्टे-तमिति । हे ऋषयः 'तं' आत्मानं विष्णुं 'एव एकं' प्रधानं 'जानथ' जानीध्वम् । 'अन्याः' जीवादि- विषयिणीः 'वाचः विमुञ्चथ' त्यजत, प्राधान्येन विष्ण्वितरान् न जानीध्वमित्यर्थः । 'जानथ आत्मानं' इति विश्लेषो विष्णोः सर्वेभ्यो विलक्षणत्वप्रदर्शनार्थः । विकरणव्यत्ययस्तु छान्दसः । अमृतस्येत्येक- वचनं समुदायविवक्षया । तथा च-‘अमृतस्य’ मुक्तवर्गस्य ‘एषः’ विष्णुः 'सेतुः' मुख्याश्रय इत्यर्थः । 'इति' इत्येवंरूपायां मुण्डकश्रु- तौ 'अन्येषाम्' जीवानां 'हेयत्ववचनात्' इत्यनेन चशब्दसमुच्चेयं द- र्शितम् । सौत्रनञो व्यत्यासेन अन्वयम् अभिप्रेत्य समुच्चेयान्तरमाह-अ- स्य विष्णोरहेयत्वेति । चशब्दः समुच्चये । सूत्रे गौणशब्दानुवृत्तस्य “न गौण आत्मशब्दः” इत्यस्यार्थमाह-नेति । गौण आत्मशब्दमुख्य- वाच्यो न, किन्तु निर्गुणो विष्णुरेवेत्यर्थः । तथा च-आत्मशब्दादीक्ष- तिश्रुत्युक्तोऽपि निर्गुण एवेति सिद्धम् । तस्येक्षत्यन्यथाऽनुपपत्त्या वा- च्यत्वमिति भावः ॥ ८ ॥ ( २३ ) युक्त्यन्तरेणापि निर्गुणस्य विष्णोर्वाच्यत्वमुपपादयत्सूत्रमु- पन्यस्यति-स्वाप्ययादिति ॥ सूत्रं व्याचष्टे-पूर्णमिति । 'अदो' मू- लरूपं 'पूर्ण' 'इदं' अवताररूपं च 'पूर्णम्' । 'पूर्ण' अवताररूपं सृष्टिकाले 'पूर्णात्' मूलरूपात् 'उदच्यते' उद्गच्छति । तत्त्वप्रदीप