पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 131, कुल 1267 में से
संदर्भ में पढ़ेंना समस्तेनाध्यायेन प्रायेण । त्रिकरण्यां ब्रह्मस्वरूपनिरूपणे अनवशेषात्किमध्यायात्मकशेषग्रन्थेने त्यत आह—तमेवेति ॥ तथाऽपीत्यादौ योज्यम् । समन्वयशब्दश्च विप रिणामेनावर्तनीयः । तथा च—तथाऽपि प्रकटनं विनाऽध्यायाख्यशेष ग्रन्थस्य कृत्यान्तराभावेऽपि ‘तमेव’ ‘ “तत्तु समन्वयात्” इत्यनेन हेतुतया सामान्यतः सिद्धवदुपन्यस्तमेव समन्वयात् ‘समन्वयं’ उ पक्रमादिलिङ्गज्ञाप्यं सम्यग्वचनवृत्त्या सर्वशास्त्रीयवचनानां हरौ नि रूपणं तत्परत्वं ‘प्रकटयति’ प्रतिवाक्यग्रहणेन तद्धेतूपन्यासादिना प्रपञ्चयति “आनन्दमयोऽभ्यासात्” इत्यादिना अनेन प्रथमेनाध्या येन सूत्रकार इत्यर्थः । अन्यथा प्रतिज्ञामात्रस्य “तदेव शास्त्रयोनि, समन्वयात्” इति सिद्धवदुपन्यासमात्रस्य साधकत्वे “विष्णोरन्य देव शास्त्रयोनि, कुतः ? समन्वया