पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 130, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - ११. ] दीपिकासहितम्. ८३ न ह्यशब्दं श्रूयते । न चाप्रसिद्धं कल्प्यम् । सर्व शब्दावाच्यस्य लक्षणाऽयुक्तेः ॥ ५ ॥ ६. अधिकरणम् ॥ ( १ ) तमेव समन्वयं प्रकटयति 'आनन्दमयोऽभ्यासात्' इत्यादि ति—एक इति" इति क्वाचित्कटीकापाठानुसारेण भाष्ये क्वचित् श्रु तिपाठानन्तरं सूत्रपाठो दृश्यते । तत्पक्षे त्वन्वयस्सुलभ एवेति ध्येय म् । श्रुतेत्वेऽप्यशब्दः किं न स्यादित्यप्रयोजकत्वशङ्कायामाह — न ही ति । 'हि' यतः 'अशब्दः' अवाच्यः पदार्थो 'न श्रूयते' न श्रुतिप देनोच्यत इत्यर्थः । अतो नाप्रयोजकत्वं हेतोरिति वाक्यशेषः । विरो धादित्यपि हिशब्दार्थः । ननु अशब्दस्यापि ब्रह्मणो लक्षणया श्रुतत्वं किं न स्यादित्यत आह— न चेति । 'अप्रसिद्धं' अवाच्यस्य ब्रह्मणो लक्ष्यत्वं न कल्प्यमित्यर्थः । कुतः ? यतोऽवाच्यस्य वस्तुनो लक्ष्यत्व मप्रसिद्धं अत इति व्याप्तिपरत्वेनापीदं योजनीयम् । ननु कथमेतत् ? गङ्गापदावाच्यस्यापि तीरस्य तत्पदलक्ष्यत्वप्रसिद्धेरित्यत उक्तं— स र्वेति । 'सर्वशब्दावाच्यस्य' ब्रह्मणो लक्षणायाः वेदपदलक्ष्यत्वस्यायु क्तेः विप्रतिपन्नं न लक्ष्यं, केनापि पदेनावाच्यत्वात् व्यतिरेकेण ती रवदिति युक्तिविरुद्धत्वादित्यर्थः । तथा च— नास्माभिः केवलावा च्यत्वेन लक्ष्यत्वाभावः साध्यते येन तीरादौ व्यभिचारः शङ्क्येत, किन्तु सर्वशब्दावाच्यत्वेन । तच्च न तीरादिगतं, तस्य तीरादिपदवा च्यत्वात् । ब्रह्म तु न तथा, तस्य सर्वशब्दावाच्यतयैव परेणाङ्गीकृत त्वात् । अतो न व्यभिचार इति युक्तिविरोधो दुष्परिहर इति भा वः । ननु लक्ष्यत्वाभाववति प्रवाहादौ हेत्वभावादसाधारणमिति चेत्— न, लक्षणायोग्यस्यैव लक्ष्यपदार्थत्वे सर्वपदार्थानामपि कि ञ्चित्पदलक्षणायोग्यत्वेन तदभावरूपसाध्यस्य कुत्राप्यभावेन स पक्षस्यैवाभावात् ॥ ११ ॥ ॥ इति ईक्ष्यत्यधिकरणम् ॥ ५ ॥ ६. अधिकरणम् ॥ ( १ ) अथाध्यायपादयोरुपोद्घातत्वेन पीठरूपायामस्यां पञ्चा