पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 142, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - १३. ] दीपिकासहितम्. ९५ इत्यन्यप्रारम्भात् । ( १५ ) 'येऽन्नं ब्रह्मोपासते' ( तै. २-२.) इत्यादिब्रह्मशब्दा न तु चर्व्यत्वम् । तच्च ब्रह्मण्यविरुद्धमिति भावः । तत्त्वप्रदीपे तु— “ न चान्यान्नं सर्वभूताद्यं, न च तत्कस्यापि मुख्याद्यम् । किन्तु तद्ग- तो विष्णुरेवादनफलभूततृप्तितुष्टिदातृत्वान्मुख्याद्यः, तस्मादुपजीव्य- त्वमेवाद्यत्वम्, भर्त्तृत्वात्सर्वलोकानामन्नमित्युच्यते हरिः । उपजीव्यश्च भूतानामिति चान्नं जनार्दनः ॥ इति उक्तेः” इति उपजीव्यत्वस्य मुख्यार्थतैवोक्ता । न च विरो- धः; कम्पनाधिकरणोक्तरीत्या समन्वयतात्पर्येण तत्त्वप्रदीपप्रवृत्तेः । 'वज्रवत्' इत्यादाविव यथा कथंचिद्रूढपरत्वाभिप्रायेण सुधाप्रवृत्तेः । ननु कथमन्नमयशब्दः तत्प्राचुर्यार्थो युज्यते । “ ओषधीभ्योऽन्नम् । अ- न्नात्पुरुषः” ( तै. उ. २ - १ - २.) इति प्रसिद्धान्नविकारदेहमुक्त्वा “ स वा एष पुरुषोऽन्नरसमयः” ( तै. उ. २ - १ - ३.) इति य एव पुरुषः सोऽन्नरसमय इति अन्नविकारपुरुषपरामर्शादनुवा- दात् । अन्यथा तद्विरोधः स्यादित्यत आह—स इति । 'अविरो- धः' इत्याकृष्यते । तथा चेति वाक्येन यस्मादात्मनः आकाशा- दिकमुत्पन्नं स एष पुरुष इति 'अन्यस्य' देहादन्यस्यात्मनः 'प्रा- रम्भात्' परामर्शात् 'अविरोधो' न परामर्शविरोधः । किमर्थमसौ परामृश्यते इत्याशङ्कापनोदनाय परामर्शादिति वक्तव्ये प्रारम्भादित्या- ह । पूर्वमात्मनः आकाशादिकारणत्वमुक्त्वा तस्यैव 'अभ्यर्थे' अन्यप- र्याय अन्नमयादिपञ्चरूपत्वप्रदर्शनाय पुनः 'प्रारम्भात्' प्रक्रान्त- त्वादित्यर्थः । 'स वा' इति श्रुतौ वैशब्दोऽवधारणे प्रसिद्धौ वा । अ- न्नशब्दो भावप्रधानः । रसत्वमुत्तमत्वं, तच्चान्नत्वविशेषणम् । तथा च यस्मात्सत्यत्वादिलक्षणोपेतादात्मन आकाशादिकमुत्पन्नं 'सः' आ- त्मपदोदितो भूतादिस्रष्टा 'एषः' जीवशरीरगः 'पुरुषः' पूर्णषड्गु- णः देहाख्यपुरिशयः भगवान् 'अन्नरसमयः' उत्तमान्नत्वपूर्ण इत्यर्थः । तैत्तिरीयभाष्ये तु—“अन्नस्यात्तृत्वादिरूपस्यान्नमयशरीरस्य यतः सारभूतो विष्णुः अतोऽन्नरसमयः” इति अन्नशब्दस्यावृत्त्या रसशब्द- स्य क्रमव्यत्यासेन च व्याख्यातम् ॥ ( १६ ) नन्वेवं मयट्शब्दस्योभयार्थे प्रयोगादत्राप्युभयपक्षे दोषदर्श-