भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 141, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 141

९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा-१. ] इति व्याख्यानात्तत्प्राचुर्यं च युज्यते । ( १४ ) उपजीव्यत्वमेवाद्यत्वम् । ‘ स वा एषः ’ (तै. २-२.) विकारार्थत्वमेव । अन्नादिविकारार्थान्नमयादिशब्दैस्सह पठितत्वादित्यत आह—अन्नादीनां चेति ॥ इदं चावर्तते । मयट्छब्द इति चानुवर्त- ते । तेन समुच्चयार्थचशब्दस्यान्वयः । वाच्यवाचकयोरभेदव्यपदेशः । तथा च न केवलमानन्दस्य मयट्छब्दः, किन्त्वन्नादीनां सम्बन्धिमय- ट्छब्दोऽपि अन्नादीनां प्राचुर्यमेव वक्तीत्यर्थः । एवशब्दो विकारार्थता- व्यावृत्त्यर्थः । आदिशब्देन प्राणादयो गृह्यन्ते । पूर्वे ‘ अन्नमयत्वादेश्च ’ इति, अत्र च ‘अन्नादीनाम्’ इति बहूनां ग्रहणात्, सौत्रानन्दमयश- ब्दोऽजहत्स्वार्थलक्षणया समानन्यायशब्दान्तरोपलक्षक इति