पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 146, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - १९. ] दीपिकासहितम्. ९९
क्षितं परमेव ब्रह्म शब्दानुसन्धानाद्गीयते । ( १९) न चावयवत्वविरोधः । 'स शिरः, स दक्षिणः प क्षः, स उत्तरः पक्षः, स आत्मा, स पुच्छम् ' इति तस्यैवावयवत्वोक्तेश्चतुर्वेदशिखायाम् ।
मयादिविष्ण्वाख्यं परब्रह्मैव नापरब्रह्मेत्यवसीयते । किन्तु यतो मान्त्र वर्णिकं 'सत्यं ज्ञानम्' इति ध्येयत्वेन लक्षणवतया प्रोक्तं परं ब्रह्मै चान्न मयादिशब्दैः 'गीयते' प्रतिपाद्यते च । अतस्तत्समाख्यानादा र्थिकादपीति सूत्रार्थः । 'ब्रह्मवित्' परब्रह्मज्ञानी 'परं' परमं ब्रह्मा प्नोति । परब्रह्मप्राप्तिकामः परब्रह्म जानीयात् इति श्रुतेः फलितोऽर्थः । किं तद्ब्रह्मेति शङ्कायां सत्यमित्यादि प्रवृत्तम् । तत्र सत्यशब्देनोक्तं यत् गति