पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 149, कुल 1267 में से
संदर्भ में पढ़ें१०२ ब्रह्मसूत्रभाष्यम्. [अध्या - १. पा - १.] इदमिति च दृश्यमानसन्निहितत्वात् । तिवत्प्रकृते भेदकाभावेन ‘अन्नात्पुरुषः’ इत्यत्र देहः, ‘स वा’ इत्य त्र च परमात्मैवोच्यत इति व्यवस्थाङ्गीकारायोगादित्यत आह—रसे ति ॥ ‘स वा एषः’ इति वर्तते । तदित्यावर्तते । एवमुच्यत इति च । अन्यद्विहायेति शेषः । तथा च ‘स वा’ इति वाक्येन चिदेव ‘चिन्मात्रं’ ब्रह्मचैतन्यमेव ‘उच्यते’ परामृश्यते न देहः । न च तस्य दूरोक्तिविरो धः, पुरुषपदेनाप्रकृतत्वविरोधश्चेति वाच्यम् । यतस्तत् ‘आत्मन आका शस्सम्भूतः’ (तै.उ. २-१-२.) इत्याकाशादिपुरुषान्तशब्दैरुक्तं ‘तत्त त्सारभूतं’ आकाशादिपदार्थश्रेष्ठभूतं चिन्मात्रं ब्रह्मैव ‘स वा’ इति परामर्शवाक्येनोच्यते । एवं तर्हि पुरुषपदेन द्वयोरपि प्रकृतत्वादुभय परामर्शोऽयमस्त्विति न च वाच्यम् । यतः ‘तत्तसारभूतं’ पुरुषसारभू तं चिन्मात्रं ब्रह्मैवान्यदेहादिकं विहाय ‘सः’ इति परामर्शवाक्येनो च्यते। कुत इत्यत आह—रसेति । रसशब्दघटितान्नरसमयशब्देन ‘वि शेषणात्’ सारान्नमयत्वरूपपुरुषविशेषणाभिधानादित्यर्थः । जडामि श्रजीवविलक्षणब्रह्मबोधार्थं मात्रपदम् । ‘रसशब्देन’ रसशब्दार्थेन मु ख्यत्वेन ‘विशेषणात्’ विशेषितत्वात् अन्नत्वरूपविशेषणस्येति वा । ततश्चात्र “अन्नरसोऽन्नसारोऽन्नशब्दार्थेषु मुख्याप्तत्वादिलक्षणस्तत्प्र चुरः” इति सुधोक्तेः । टीकायां चैतन्यमात्रं ब्रह्मैवेत्यन्वयः । नन्वनु वाकान्तरे ‘अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुद्ध्य न्ताम्’ (याज्ञिकी. ६६.) इति प्रार्थितशुद्धीनामन्नमयादीनां कथं ब्रह्मेतोच्यत इत्यतो वा ऽऽह—रसेति । नात्र प्रार्थितशुद्धीनामन्नमया दिकोशानामभिधानम् । किन्तु, ‘तत्तत्सारभूतं’ तत्तत्कोशनियामकं तद्गतं ब्रह्मचैतन्यमेव उच्यते । कुतः? अत्र ‘स वा एषः’ (तै. उ. २- १ - ३ . ) इत्यादी ‘रसो वै सः’ इत्यन्ते चान्नमयादीनां कोशव्यावृत्त्यर्थं तद्भेदार्थमेव ‘रसशब्देन विशेषणात्’ विशेषितत्वादित्यर्थः । आदौ विशेषितत्वं घटितत्वम् । तथा च शब्दान्तरन्यायेनान्नमयाद्यपेक्षयाऽन्न रसमयादीनां भेद इति भावः । उपलक्षणमेतत् । व्यवहिताकाशा दिकारणात्मपरामर्शिना तच्छब्देन च विशेषणादित्यपि द्रष्टव्यम् । ननु यदि परिदृश्यमानदेह एव नान्नमयः, किन्तु ब्रह्मैव तस्यैव च ‘सः’ इत्यादौ परामर्शः, तदा ‘तस्येदमेव शिरः’ (तै. उ. २-१-३.) इति प्रत्यक्षनिर्देशो नोपपद्यते । न च वाच्यं उपनिषद्द्रष्टा मुनिर्ब्र