भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 150, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 150

[ अधि - ६. सू - १५० ] दीपिकासहितम्. १०३ ( २२ ) अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् । प्रोच्यते भगवान्विष्णुरैश्वर्यात् पुरुषोत्तमः ॥ इति ब्रह्माण्डे पुराणे— ( २३ ) न चोक्तप्राप्त्या विरिञ्चादिरुच्यते । ह्यापरोक्षीकृत्य प्रत्यक्षतो निर्दिशतीति । तथा सति तेनापरोक्षीकृतप्रा णमयादावपि तथा निर्देशप्रसङ्गात् । किञ्च—स्वस्यापरोक्षतो ज्ञातत्वे न शब्दानपेक्षणात् उपदेश्यपुरुषाणां चापरोक्षायोग्यत्वान्निर्देशवैयर्थ्य मित्यत आह— इदमिति । चोऽप्यर्थः । निर्देशो युज्यते इति शेषः । इ दमित्येतदस्येत्यपि व्याख्येयम् । तथा च ‘अस्य’ अन्नमयभगवच्छि रःपक्षादेः दृश्यमानप्रत्यक्षसिद्धदेहशिरःपक्षादौ वस्त्रवर्मान्तर्वर्तिजानु वीरावयववत् ‘सन्निहितत्वात्’ सम्यङ्नियामकत्वेन स्थितत्वात् लक्षण या ब्रह्मशिरसि इदमिति निर्देशो युज्यत इति योजना । लक्षणाबीजं शक्यसम्बन्धं दर्शयितुं—दृश्यमानेति । तथा च वस्त्रप्रावृते वर्मान्तर्ग ते वा जानुनीदं जान्विति व्यवहारवदयमपि व्यवहारो युज्यत एवेति न तद्विरोध इति भावः ॥ ( २२ ) नन्वन्नमयादीनां पञ्चानां ब्रह्मताऽनुपपन्ना ‘तस्माद्वा एतस्मा दन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः’ ( तै.उ.२-२-२.) इति पर स्परं भिन्नत्वेनोक्तत्वात् । एवमेकस्यैव ब्रह्मणो बहुरूपत्वात् न ‘एकमे व’ इति श्रुतिविरोधः इत्यप्ययुक्तमप्रमितत्वादित्यत आह–अनन्य इति॥ अपिर्यद्यपीत्याद्यर्थे । तथाशब्दः समुच्चये । तथा च ‘पुरुषोत्तमो भग वान् विष्णुः’ ‘अनन्योऽपि’ अभिन्नोऽपि अन्यो भिन्न इति शब्देन प्रोच्य ते । तथा यद्यप्येकस्तथाऽपि बहुरूपवान् भवतीत्यर्थः । कथमित्यत उभ यघटकमाह—ऐश्वर्यादिति । अचिन्त्यशक्तेरित्यर्थः । उपलक्षणमेतत् । अन्नमयादिपञ्चकोशगतान्यत्वान्तरत्वादयो धर्मास्तद्गतभगवद्रूपेषूप चर्यन्त इत्यपि द्रष्टव्यम् । अत एव तृतीये ‘स्थानभेदादैश्वर्याच्च’ इति भाष्ये स्थानभेदाश्च हेत्वन्तरमभिहितम् । तैत्तिरीयभाष्ये तु—भेदा भावेऽपि सङ्ख्याविशेषयुक्तत्वादन्यत्वोक्तिरित्युक्तम् । ब्रह्माण्डे पुराणे इत्यनन्तरं उक्तत्वान्न विरोध इत्यन्वयः ॥ ( २३ ) ननु ब्रह्मशब्दस्य साधारणत्वात् तद्धेतुव्यपदेशश्च विष्णु निष्ठतया स्पष्टमप्रतिभानात् मन्त्रवर्णसमाख्यायाश्च अन्यलिङ्गादिभ्यो दुर्बलत्वेन सावकाशत्वात् अनन्यथासिद्धहेत्वन्तरस्य चाभावादान