भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 151, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 151

सू— ॐ ॥ नेतरोऽनुपपत्तेः ॥ ॐ ॥ १६ ॥ न ह्यन्यज्ञानान्मोक्ष उपपद्यते । 'तमेवं विद्वानमृत इह भवात् । नान्यः पन्था अयनाय विद्यते' ( तै. आ. ३-१२-७. ) इति ह्युक्तम् । ( २४ ) सू— ॐ ॥ भेदव्यपदेशाच्च ॥ ॐ ॥ १७ ॥ 'ते ये शतं प्रजापतेरानन्दाः' ( तै. २-८. ) न्दमयादयो विरिञ्चादय एव सन्त्विति शङ्कां परिहरत्सूत्रमवतारय- ति—न चेति ॥ चोऽवधारणे । विरिञ्चाद्य इत्यनेनान्वेति । तथा च 'उक्तप्राप्त्या' ब्रह्मशब्दशतानन्दत्वाष्टमूर्तित्वबहुभावादिरूपोक्तप्राप- केनान्नमयादिशब्दैर्विरिञ्चादिरेवोच्यते । न विष्णुरिति न, किन्तु, विष्णुरेव तैरूच्यते । न विरिञ्चादिरित्यर्थः । कुतो नेति हेत्वाकांक्षा- यां सूत्रमुपन्यस्य प्रतिज्ञांशस्य न चेत्यादिभाष्येणैव व्याख्यातत्वा- त्सौत्रमनन्यथासिद्धहेतुमेव व्याचष्टे—नेतर इति । हिशब्दो हेतौ । 'अन्यज्ञानात्' विष्ण्वन्यविरिञ्चादिज्ञानात् । यद्यप्ययं नेतर इत्युक्त- साध्ये न हेतुः । तथाऽपि तस्यानन्यथासिद्धत्वोपपादकत्वाद्धेतुत्वो- क्तिः। अस्य हेतुवाक्यस्य अध्याहृतहेतुवाक्यद्वारा न चेति प्रतिज्ञाऽ- न्वयः । अनेनानन्दमयादिः विष्णोरितरो विरिञ्चादिर्न, कुतः? 'ब्रह्म- विदाप्नोति परम् ( तै. उ. २ - १ - १० ) .. सर्वे वै तेऽन्नमाप्नुवन्ति ( तै. उ. २ - २ - १. ) ..सर्वमेव त आयुर्यन्ति' ( तै. उ. २-३ - १०. ) इत्यादिना आनन्दमयादेर्मुक्तिहेतुज्ञानविषयत्वोक्तेः, तस्य चेतरत्र 'अनुपपत्तेः' अयोगादिति सूत्रार्थ उक्तो भवति । विष्णुज्ञानादेव मो- क्षो नेतरज्ञानादित्येतत्कुत इत्यत आह—तमिति । 'हि' यस्मात् 'त- मेवम्' इति श्रुत्या मोक्षस्य विष्णुज्ञानादन्य उपायो नास्तीत्युक्तम् । तस्माद्विष्णोरन्यज्ञानान्मोक्षो नोपपद्यत इत्यर्थः । श्रुत्यर्थस्तु प्रागे- वोक्तः ॥ ( २४ ) हेत्वन्तरेण ब्रह्मादीनामानन्दमयत्वं पराकुर्वत्सूत्रं पठित्वा व्याचष्टे—भेदेति । अत्र पूर्वहेतुसमुच्चायकेन चशब्देनानन्दमयादिर्नै- तर इति प्रतिज्ञावाक्यानुवृत्तेरपि सूचनात् । तद्विहाय सूत्रोक्तं भेद- व्यपदेशं दर्शयति--ते ये शतमिति ॥ आदिशब्दः 'आनन्दाः' इत्यतः परोऽपि योज्यः । तत्राद्येन 'ते ये शतं' इत्यस्य पूर्वोत्तरतैत्तिरीयवा-

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 151, कुल 1267 में से · BharatKosha