पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 158, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - १७. ] दीपिकासहितम्. १११ ( ३० ) सर्वान्तर्यामिको विष्णुः सर्वनाम्नाऽभिधीयते । एषोऽहं त्वमसौ चेति न तु सर्वस्वरूपतः ॥ नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह । इत्यादेश्च । शयनाद्वा पुरुषसंज्ञ इत्यर्थः । स्थलान्तरमाह—स इति । अनेन ‘सर्वं खल्विदं ब्रह्म’ (छा. ३ - १४ - १० ) इति श्रुतिमुपादत्ते । ‘सः’ सर्वा- त्मकत्वेन व्यपदिश्यमानो भगवान् ‘ब्रह्म’ सर्वत्र पूर्णत्वाद्ब्रह्मसंज्ञ इत्यर्थः । नन्वन्यत्रादृष्टमन्तर्गतस्य बहिर्गतत्वादिकं कथं घटत इत्यत आह—स ईश्वर इति । ‘सः’ हरिः यतः ‘ईश्वरः’ अचिन्त्यशक्त्यु- पेतः अतस्तस्मिन् अन्यत्राघटितमपि सर्वं घटत इति ॥ ( ३० ) स्मृतौ कप्रत्ययः सर्वदेहगतस्यापि विष्णोरज्ञातत्वमाह । यद्वा—यामो नियमनं तत्र भव इत्यर्थे ठञ्, यतो विष्णुः सर्वान्तर्यामि- कः सर्वान्तर्नियामकः अतएव ‘एष आत्मेति होवाच’ (छा. ८-३-४.) ‘सोऽहमस्मि’ ( ई. १६. ) ‘तत्त्वमसि’ (छा. ६ - ८ - ७.) ‘योऽसावसौ पुरुषः’ ( ई. १६. ) इति वाक्यशेन एषोऽहंत्वमसा- विति ‘सर्वनाम्ना’ सर्ववाचकसर्वनामसंज्ञकशब्देन सर्वमिति नाम्ना चाभिधीयते । न तु सर्वस्वरूपत्वादित्यर्थः । श्रेष्ठयस्यैक्यार्थतयाऽपि ऐक्यश्रुतीः स्मृत्या व्याख्याति—नैतदिति । मोक्षधर्मे हि वैशंपायनं प्र- ति हे ब्रह्मन् भेदवाक्यात् बहवः पुरुषाः प्रतिपत्तव्याः । ऐक्यवाक्यं तु प्रधानपुरुषपरमिति वा? उताहो ऐक्यवाक्यात् एक एव पुरुषः, द्वैत- वाक्यं तु व्यावहारिकभेदपरमिति ? । तथा—पुरुषबाहुल्यमुपेत्यैक्य- वाक्यस्य श्रेष्ठपरत्वपक्षेऽपि आत्मसु किं सर्वे समाः ? उतैकः श्रेष्ठः ? द्वि- तीये कोऽसावत्र पुरुषेषु श्रेष्ठः? स कथं हि श्रेष्ठः? तं तथा च भवान् वक्तु- मर्हतीत्याशयेन कृतस्य जनमेजयप्रश्नस्य वैशम्पायनेनोक्तमुत्तरं नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह । बहूनां पुरुषाणां हि यथैका योनिरुच्यते ॥ तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ॥ इति । अस्यार्थः — एतन्मतं नेच्छन्ति विद्वांसः । एतदिति किमि- त्यतस्तद्विवृणोति—पुरुषमेकमिति । तथा च वेदाः एकमेव पुरुषं व- दन्तीत्येतन्मतं ज्ञानिनो नेच्छन्तीत्यर्थः । यद्वा—एतस्मिन् जगति एकं पुरुषं नेच्छन्ति, किन्तु बहवः पुरुषाः सन्तीति । तर्ह्यद्वैतश्रुतिविरो- ध इति न वाच्यम् । यतो बहूनां श्रेष्ठः एक एव, तत्परमैक्यवाक्यम् ।