भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 159, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 159

११२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ३१ ) उक्ता च प्राप्तिः । 'ब्रह्मैव सन्' ( बृ. ६-४. ) इत्य पि, जीव एव ब्रह्मशब्दः । उपपद्यते च विरोधे ॥ बहूनां कः श्रेष्ठः, स कथं श्रेष्ठ इत्यस्योत्तरमाह—बहूनामिति । हे कुरु कुलोद्वह एतेषां बहूनां 'पुरुषाणां' आत्मनां मध्ये 'या योनिः' यः कारणभूतः 'एका' श्रेष्ठः यथा च श्रेष्ठ उच्यते श्रुत्यादौ 'तथा' तेन प्रकारेण 'तं' विश्वं पूर्णं गुणाधिकं पुरुषं 'आख्यास्यामि' व्या ख्यास्यामीति प्रमेयदीपिकाव्यासतीर्थीयदिशा स्मृत्यर्थः । अनेन परा भिमतैक्यवाक्यमुत्तमवस्त्वैक्यपरम् । तथा च सर्वोत्कृष्टं यदेकं ब्रह्म तत्त्वमसि तस्मादत्यवरोऽसि अहत्वरोऽस्मीति श्रुत्यर्थ उक्तो भवति । 'इत्यादेश्च' इत्यस्य 'न च तत्त्वमसीत्यादिविरोधः' इत्यनेनान्वयः ॥ ( ३१ ) नन्वद्वैतश्रुत्यभावे कथमद्वैतं भेदश्रुत्यादिना निषिध्यते । त स्याप्रत्यक्षत्वेन श्रुतिं विना प्राप्त्यभावात् । अप्राप्तस्य च प्रतिषेधायो गात् इत्यत आह—उक्ता चेति ॥ चः साध्यसमुच्चये । चो यतो न च 'तत्त्वमसि' इत्यादिना जीवेश्वरैक्यस्य 'प्राप्तिः' श्रुत्यर्थापरिज्ञाननिमि त्ता प्रसक्तिरुक्ता । अतो न तन्निषेधानुपपत्तिरित्यर्थः । नन्वेतच्छ्रुतीनाम विरोधकत्वेऽपि भेदश्रुतेः 'ब्रह्मैव सन् ब्रह्माप्येति' इति श्रुतिविरोधस्तु भविष्यति । अत्र ब्रह्मैवेत्येवकारेण जीवस्याब्रह्मतानिषेधेन तदधीन त्वादिना निमित्तेन अब्रह्मभूते ब्रह्मत्वव्यवहार इत्युक्तगतेरसम्भवादि त्यत आह—ब्रह्मैवेति । अपिः समुच्चये । न केवलं तत्त्वमसीत्यादिकम विरुद्धम् । किन्तु—'ब्रह्मैव सन्' इति बृहदारण्यकवाक्यमपीत्यर्थः । कुत इत्यत आह—जीवे एवेति । सप्तम्यर्थ विषयार्थे । तथा च 'यतो ब्रह्मैव सन्' इति वाक्ये श्रुतोऽयमाद्यो ब्रह्मशब्दः 'ब्रह्माणि जीवाः स र्वेऽपि' इति श्रुतेर्जीव एव, न परब्रह्माणि अत इत्यर्थः । यद्वा—जीव इति प्रथमान्तम् । तथा च इति वाक्ये श्रुताद्यब्रह्मशब्दोक्तो जीव एव, न परब्रह्मेत्यर्थः । तथा च सः मुक्तजीवो 'ब्रह्मैव सन्' जीव एव सन् जीवभावमविहायैव प्रलये परब्रह्माप्नोति । अपिहितस्सन् प्रविशतीति श्रुत्यर्थोपपत्तेः नोक्तभेदव्यपदेशस्यैतच्छ्रुतिविरोध इति भावः । यथो क्तं बृहद्भाष्ये— जीवोऽपि ब्रह्मशब्दोक्तो जडाद्बहुगुणत्वतः । इति ॥ प्राप्नोति परमं ब्रह्म प्रलये प्रलये सदा । इति ॥