पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 169, कुल 1267 में से
संदर्भ में पढ़ें१२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा-१. ] ( ५ ) सू-ॐ ॥ भेदव्यपदेशाच्चान्यः ॐ ॥ २१ ॥ 'इन्द्रस्यात्मा निहितः पञ्च होता' . . 'वायोरा- त्मानं कवयो निचिक्युः' . . 'अन्तरादित्ये मनसा चरन्तम्, देवानाꣳहृदयं ब्रह्मान्वविन्दत्' ( तै. आ. ३-११०) इत्यादिभेदव्यपदेशात् ॥ २१ ॥ ( ५ ) यद्येवं समुद्रस्थत्वादिलिङ्गादन्तस्स्थो विष्णुः, तर्हि तेनान्त स्स्थेन विष्णुना इन्द्रादीनामभेदोऽत्र विवक्षितोऽस्तु । इन्द्रादिप्रापकश्रु त्यादेरपि सद्भावात् । श्रुत्यादेश्च स्वभावतो लिङ्गस्य निरवकाशतया बलवत्त्वेनान्यतरबाधेनान्यतरपक्षनिर्णयायोगात् । एवं च पूर्वोत्तरपक्ष द्वये अन्योन्यं बाध्यबाधकभावशून्ये सति तदन्यथानुपपत्त्या अन्तः स्थेन विष्णुनेन्द्रादीनामभेदः प्राप्त इत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—भेदेति ॥ तैत्तिरीये—‘इन्द्रस्य’ इत्येको भेदव्यपदेशः । ‘वायोः’ इत्यन्यः । ‘अन्तः’ इत्यपरः । ‘देवानाम्’ इति चेतरः । आ दिशब्देन ‘अमृतं देवानामायुः प्रजानामिन्द्रं राजानं सवितारम्’ इ त्यादिकं गृह्यते। व्यपदेशादित्यस्यान्य इति सौत्रप्रतिज्ञयाऽन्वयः ॥ अ नेन सूत्रे विधेयसमुच्चयार्थकचशब्दस्य भिन्नक्रमेण अन्वयेन न केव लमन्तश्श्रूयमाणो विष्णुः, किन्त्विन्द्रादिभ्योऽन्यश्च । कुतः ? तस्येन्द्रा द्यन्तर्यामित्वतदन्तस्स्थत्वकथनेन तेभ्यो भेदोक्तेरिति सूत्रार्थ उक्तो भ वति । अत्र श्रुताविन्द्रशब्दोऽन्यपरः ; षष्ठीश्रवणात् । ‘इन्द्रो राजा’ इत्यादौ तु इन्द्रादिशब्दाः परममुख्यवृत्त्या विष्णुपरा एव, बाधकाभा वात् । तथा च मनो विहाय पञ्चसु ज्ञानेन्द्रियेषु शब्दादिविषयहोता तैर्विषयानुभावकः । इन्द्रस्यात्मा अन्तर्यामी आदानादिकर्ता वा । स र्वहृदयेषु ‘निहितः’ सन्निहितः ‘कवयो’ ज्ञानिनः ‘वायोरात्मानं निचिक्युः’ ददृशुः आदित्येऽन्तः ‘मनसा’ स्वेच्छया संचरन्तं विष्णुं कवयः अन्वविन्दन् । ‘ब्रह्मा’ चतुर्मुखः देवानां हृदयनात् स्थितेः प्र वर्तनाद्वा हृदयं विष्णुं ‘अन्वविन्दत्’ अपश्यदिति श्रुत्यर्थः ॥ ॥ इत्यन्तस्स्थत्वाधिकरणम् ॥ ७ ॥