पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 168, कुल 1267 में से
संदर्भ में पढ़ें[अधि - ७. सू - २०.] दीपिकासहितम्. १२१ यस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । इति व्यासस्मृतेः । (४) 'अहं तत्तेजो रश्मीन्नारायणं पुरुषं जातमग्रतः । पुरुषा त्प्रकृतिर्जगदण्डम्' इति चतुर्वेदशिखायाम् ॥ २० ॥ पुरुषोऽण्डं विनिर्भिद्य यदादौ स विनिर्गतः । आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः ॥ इति भागवते । अण्डं प्रविष्टो यो विष्णुः सोऽण्डं भित्त्वा प्रकाशितः । सोऽपोऽसृजत्ततो नारा . . । इति भागवततात्पर्ये चाण्डसृष्ट्यनन्तरं अप्सृष्टिरुच्यते । तथाऽ पि सा बहिःसृष्टेरन्याऽऽन्तरेति न विरोधः । इतीत्यस्य 'तस्य च वीर्यम ण्डकोशः, स हि प्रलयसमुद्रशायी यतः' इति पूर्वेणान्वयः ॥ (४) इतश्च ब्रह्माण्डजनकवीर्यत्वं प्रलयस्थत्वं च तस्यैव ज्ञायत इत्याह—अहमिति ॥ 'त्रिपुरुषं मायाबीजमजायत' इति वाक्यशेषः । त दिति व्याप्तिवचनोऽसर्वनामशब्दः । अथवा सर्वनामशब्दः, अत एव टीकायां तद्ध्येयमिति व्युत्क्रमः कृतः । तथा च तत्प्रसिद्धं व्याप्तं वा 'अहं' अहेयं रतिः शं च मितमस्येति रश्मिर्जीवः तमिन्दयति प्रेरय तीति रश्मीत् जीवप्रेरकं, इन्द् प्रेरणे इति धातोः अयं दकारान्तः श ब्दः । अनुकृत्यधिकरणे तु—इन्धी दीप्ताविति धातुव्याख्यानात् रश्मी त् भगवदपेक्षया रश्मिरूपाणां अल्पानां सूर्यादितेजसां प्रकाशकमि ति व्याख्यातम्, तत्र धकारान्तोऽग्नीच्छब्दवदयं शब्दो ज्ञातव्यः । 'तेजः' जगत्प्रकाशकं 'पुरुषं' पूर्णषड्गुणं नारायणं तदाख्यं ब्रह्म ते ज इति वा । 'अग्रतः' प्रलये 'जातं' स्थितं तस्मान्नारायणाख्यपुरु षात् 'अग्रतः' प्रथमं 'प्रकृतिः' चेतना जायते गच्छतीति जगत् जी वसमुदायः, जातमित्यस्योभयत्र यथायोग्यं सम्बन्धः । जनिश्च यथा योग्या ग्राह्या । पश्चात् 'अण्डं च' 'त्रिपुरुषं' ब्रह्मवायुरुद्राख्यपुरुष त्रययुक्तं 'मायाबीजं' प्रकृत्युपादानकं अजायतेति तत्त्वप्रदीपदिशा श्रुत्यर्थः । चतुर्वेदशिखायां इत्यस्य वचनादित्यध्याहारेण तस्येत्यने नान्वयः ॥ १६