भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 167, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 167

१२० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १.० ] वेधसः' (तै.आ.३-११-११.) 'यस्याण्डकोशं शुष्ममाहुः' ( तै. आ. ३ - ११-४. ) इत्यादितद्धर्मोपदेशात् । स हि क्षीरसमुद्रशायी । ( ३ ) तस्य च वीर्यमण्डकोशः । सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । क्लृप्तो अमृतेनाहमस्मि' इति वाक्यशेषः । तस्य 'उल्बं' जरायुः 'प्रा णः' अन्तःप्रावरणं येन सहैव जायते । 'तेन' अमृतेन 'अहं' क्लृ प्तोऽस्मीत्यर्थस्तत्त्वप्रदीपेऽभिहितः । क्षीरसमुद्रस्थत्वस्य विष्णुलिङ्गत्वं कुत इत्यत आह—स हीति । 'सः' विष्णुः हिशब्देन लोकप्रसिद्धत्वा दिति हेतुः सूचितः ॥ ( ३ ) अस्तु विष्णोः क्षीराब्धिस्थत्वं लिङ्गं प्रसिद्धत्वात्, तथाऽपि प्रलयार्णवस्थत्वस्य ब्रह्माण्डवीर्यत्वस्य च कुतो विष्णुधर्मत्वमित्यत स्तयोर्विष्णुधर्मत्वे प्रमाणं वक्तुं प्रतिजानीते—तस्येति ॥ 'अण्डको शो' ब्रह्माण्डाख्यस्थानं 'तस्य' विष्णोर्वीर्यमित्यर्थः । चशब्दात्सः प्र लयसमुद्रशायीति प्रतिज्ञा सूच्यते । तस्यैवेत्यवधारणे वा चशब्दः । तथात्वे प्रतिज्ञान्तरमुपलक्षणीयम् । अत एव प्रलयाब्धिशायित्वे 'आ पो नाराः' इति पश्चात्प्रमाणोपन्यासः । श्रुतावाण्डकोशशब्दश्रवणेऽ पि प्रत्ययस्य स्वार्थिकत्वात्तस्यानेनाण्डकोश इत्येवानूदितम् । श्रुताव पि तथैव छेदो वा । 'सः' वासुदेवाज् जातो विष्णुः 'स्वात्' स्व कीयाच्छरीरात् विविधाः प्रजाः 'सिसृक्षुः' स्रष्टुमिच्छुः 'अभिध्या य' विचिन्त्य 'आदौ' अण्डसृष्टेः पूर्वमेव 'अपः' तदावरणरूपाः ससर्ज । तास्वप्सु वीर्यं 'अवासृजत्' न्यधात् मायाद्वारेति शेषः । 'हैमं' हिरण्यात्मकं 'सहस्रांशुसमप्रभं' सूर्यसमप्रकाशं 'तत्' वी र्यं ब्रह्माण्डाख्यमभवत् । 'यस्मिन्' अण्डे 'सर्वलोकपितामहो' ब्रह्मा चतुर्मुखः 'स्वयं' स्वतन्त्रात् हरेः साक्षाज्जज्ञे इत्यर्थः । यतः आपो 'न रसूनवः' नरस्य विष्णोस्सूनवः । 'विष्णुर्नरो नाशात्परो यतः' इति भागवततात्पर्योक्तेः । अतो नाराः प्रोक्ताः येन कारणेन 'पूर्वं' प्रलये 'ताः' आपः तस्य विष्णोः अयनं 'तेन सः नारायणः स्मृतः' तच्छब्दवा च्यत्वेन स्मृत्युक्त इत्यर्थः । यद्यपि—