पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 166, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - २०. ] दीपिकासहितम्. ११९ ( २ ) सू—ॐ ॥ अन्तस्तद्धर्मोपदेशात् ॥ ॐ ॥ २० ॥ अन्तः श्रूयमाणो विष्णुरेव । ‘अन्तस्समुद्रे मनसा चरन्तम् । ब्रह्मान्वविन्दद्दशहोतारमर्णे’ ( तै. आ. ३ - ११ - १० ) ‘समुद्रे अन्तः कवयो विचक्षते मरीचीनां पदमिच्छन्ति स्वामिनं वायुं ‘सवितारं बृहस्पतिं’ ‘ब्रह्मा’ हिरण्यगर्भः तपसा ‘अ न्वविन्दत्’ लब्धवानित्यर्थः । सिद्धान्तयति—इतीति ॥ ( २ ) कुतो न मन्तव्यमित्यतस्तत्र हेतुत्वेन सूत्रमुपन्यस्य व्याच ष्टे—अन्तरिति ॥ सूत्रेऽन्तरित्युद्देश्यभागे अपेक्षितं पदमध्याहृत्य दर्शय ति—श्रूयमाण इति । अन्तस्स्थत्वेन श्रुत्योच्यमान इत्यर्थः । विधेयस म्र्पकस्यानुवृत्तस्य तत्तु, इत्यस्यार्थमाह—विष्णुरेवेति । तैत्तिरीयोप निषदतभिन्नभिन्नवाक्योदाहरणपूर्वकं हेत्वंशं व्याचष्टे—अन्तरिति । इत्यादीति । तस्य धर्मास्तद्धर्माः तेषामुपदेशो वचनं इत्यादिरूपश्चा सौ तद्धर्मोपदेशश्च इत्यादितद्धर्मोपदेशः तस्मादित्यर्थः । यद्वा—लुप्त विभक्तिकोऽयं निर्देशः । तथा चेत्यादेरुपदेशादित्यर्थः । समुदायैकव चनमेतत् । अनेन ‘अन्तःप्रविष्टम्’ इति वाक्ये ‘अन्तःश्रूयमाणो’ हृ दयान्तस्स्थत्वेन श्रुत्युक्तो विष्णुरेव, न त्वन्यः । कुतः? तस्य विष्णोर्ध र्माणां क्षीरप्रलयाब्धिस्थत्वब्रह्मज्ञेयत्वब्रह्मातपोलभ्यत्वब्रह्माण्डवीर्यत्वा दिरूपाणां ‘तस्मिन्’ अन्तःश्रुते तेनान्तरित्यादिना ‘उपदेशात्’ उ क्तत्वादिति सूत्रार्थ उक्तो भवति । उपदेशादित्यन्तस्य सूत्रस्य तस्मा दन्य एवेति न मन्तव्यमित्येनेनान्वयः । ‘ब्रह्मा’ वर्तमानचतुर्मुखः ‘स मुद्रे’ प्रलयाब्धौ क्षीराब्धौ च ‘अन्तरर्णे’ जले क्षीरे च ‘मनसा’ स्वेच्छया सञ्चरन्तं ‘दशहोतारं’ ज्ञानकर्माख्यदशेन्द्रियेषु विषयहो तारं तत्तद्विषयस्थापकं दशेन्द्रियाणि जीवेन विषयेषु जुह्वतं वा वि ष्णुं ‘अन्वविन्दत्’ व्यजानात् । ‘कवयो’ ज्ञानिनः ‘समुद्रे’ क्षीरप्र लयाब्ध्योरन्तःस्थितं विचक्षते जानन्ति । ‘वेधसो’ भूतभविष्यद्ब्रह्म णः ‘मरीचिर्मितरुक्त्वतः’ इति छान्दोग्यभाष्योक्तेः । प्रमितरुक्त्व निमित्तात् मरीचिपदोक्तानां जीवानां पदं आश्रयं विष्णुं इच्छन्ति प्रा र्थयन्ति । तत्त्वप्रदीपरीत्या ‘कवयः’ सन्तः ‘वेधसो’ विचक्षते विच क्षणाय ज्ञानाय मरीचीनां पदं विष्णुं इच्छन्तीत्येकान्वयो वा । कवयः ‘अण्डकोशं’ ब्रह्माण्डाख्यस्थानं ‘यस्य’ विष्णोः ‘शुष्मं’ वीर्यं तदु पादानकमाहुरिति श्रुत्यर्थः । विरिञ्चिवाक्यस्यास्य ‘प्राण उल्बं तेन