पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[ अधि - ७. सू - २०. ] दीपिकासहितम्. ११९ ( २ ) सू—ॐ ॥ अन्तस्तद्धर्मोपदेशात् ॥ ॐ ॥ २० ॥ अन्तः श्रूयमाणो विष्णुरेव । ‘अन्तस्समुद्रे मनसा चरन्तम् । ब्रह्मान्वविन्दद्दशहोतारमर्णे’ ( तै. आ. ३ - ११ - १० ) ‘समुद्रे अन्तः कवयो विचक्षते मरीचीनां पदमिच्छन्ति स्वामिनं वायुं ‘सवितारं बृहस्पतिं’ ‘ब्रह्मा’ हिरण्यगर्भः तपसा ‘अ न्वविन्दत्’ लब्धवानित्यर्थः । सिद्धान्तयति—इतीति ॥ ( २ ) कुतो न मन्तव्यमित्यतस्तत्र हेतुत्वेन सूत्रमुपन्यस्य व्याच ष्टे—अन्तरिति ॥ सूत्रेऽन्तरित्युद्देश्यभागे अपेक्षितं पदमध्याहृत्य दर्शय ति—श्रूयमाण इति । अन्तस्स्थत्वेन श्रुत्योच्यमान इत्यर्थः । विधेयस म्र्पकस्यानुवृत्तस्य तत्तु, इत्यस्यार्थमाह—विष्णुरेवेति । तैत्तिरीयोप निषदतभिन्नभिन्नवाक्योदाहरणपूर्वकं हेत्वंशं व्याचष्टे—अन्तरिति । इत्यादीति । तस्य धर्मास्तद्धर्माः तेषामुपदेशो वचनं इत्यादिरूपश्चा सौ तद्धर्मोपदेशश्च इत्यादितद्धर्मोपदेशः तस्मादित्यर्थः । यद्वा—लुप्त विभक्तिकोऽयं निर्देशः । तथा चेत्यादेरुपदेशादित्यर्थः । समुदायैकव चनमेतत् । अनेन ‘अन्तःप्रविष्टम्’ इति वाक्ये ‘अन्तःश्रूयमाणो’ हृ दयान्तस्स्थत्वेन श्रुत्युक्तो विष्णुरेव, न त्वन्यः । कुतः? तस्य विष्णोर्ध र्माणां क्षीरप्रलयाब्धिस्थत्वब्रह्मज्ञेयत्वब्रह्मातपोलभ्यत्वब्रह्माण्डवीर्यत्वा दिरूपाणां ‘तस्मिन्’ अन्तःश्रुते तेनान्तरित्यादिना ‘उपदेशात्’ उ क्तत्वादिति सूत्रार्थ उक्तो भवति । उपदेशादित्यन्तस्य सूत्रस्य तस्मा दन्य एवेति न मन्तव्यमित्येनेनान्वयः । ‘ब्रह्मा’ वर्तमानचतुर्मुखः ‘स मुद्रे’ प्रलयाब्धौ क्षीराब्धौ च ‘अन्तरर्णे’ जले क्षीरे च ‘मनसा’ स्वेच्छया सञ्चरन्तं ‘दशहोतारं’ ज्ञानकर्माख्यदशेन्द्रियेषु विषयहो तारं तत्तद्विषयस्थापकं दशेन्द्रियाणि जीवेन विषयेषु जुह्वतं वा वि ष्णुं ‘अन्वविन्दत्’ व्यजानात् । ‘कवयो’ ज्ञानिनः ‘समुद्रे’ क्षीरप्र लयाब्ध्योरन्तःस्थितं विचक्षते जानन्ति । ‘वेधसो’ भूतभविष्यद्ब्रह्म णः ‘मरीचिर्मितरुक्त्वतः’ इति छान्दोग्यभाष्योक्तेः । प्रमितरुक्त्व निमित्तात् मरीचिपदोक्तानां जीवानां पदं आश्रयं विष्णुं इच्छन्ति प्रा र्थयन्ति । तत्त्वप्रदीपरीत्या ‘कवयः’ सन्तः ‘वेधसो’ विचक्षते विच क्षणाय ज्ञानाय मरीचीनां पदं विष्णुं इच्छन्तीत्येकान्वयो वा । कवयः ‘अण्डकोशं’ ब्रह्माण्डाख्यस्थानं ‘यस्य’ विष्णोः ‘शुष्मं’ वीर्यं तदु पादानकमाहुरिति श्रुत्यर्थः । विरिञ्चिवाक्यस्यास्य ‘प्राण उल्बं तेन
१२० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १.० ] वेधसः' (तै.आ.३-११-११.) 'यस्याण्डकोशं शुष्ममाहुः' ( तै. आ. ३ - ११-४. ) इत्यादितद्धर्मोपदेशात् । स हि क्षीरसमुद्रशायी । ( ३ ) तस्य च वीर्यमण्डकोशः । सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । क्लृप्तो अमृतेनाहमस्मि' इति वाक्यशेषः । तस्य 'उल्बं' जरायुः 'प्रा णः' अन्तःप्रावरणं येन सहैव जायते । 'तेन' अमृतेन 'अहं' क्लृ प्तोऽस्मीत्यर्थस्तत्त्वप्रदीपेऽभिहितः । क्षीरसमुद्रस्थत्वस्य विष्णुलिङ्गत्वं कुत इत्यत आह—स हीति । 'सः' विष्णुः हिशब्देन लोकप्रसिद्धत्वा दिति हेतुः सूचितः ॥ ( ३ ) अस्तु विष्णोः क्षीराब्धिस्थत्वं लिङ्गं प्रसिद्धत्वात्, तथाऽपि प्रलयार्णवस्थत्वस्य ब्रह्माण्डवीर्यत्वस्य च कुतो विष्णुधर्मत्वमित्यत स्तयोर्विष्णुधर्मत्वे प्रमाणं वक्तुं प्रतिजानीते—तस्येति ॥ 'अण्डको शो' ब्रह्माण्डाख्यस्थानं 'तस्य' विष्णोर्वीर्यमित्यर्थः । चशब्दात्सः प्र लयसमुद्रशायीति प्रतिज्ञा सूच्यते । तस्यैवेत्यवधारणे वा चशब्दः । तथात्वे प्रतिज्ञान्तरमुपलक्षणीयम् । अत एव प्रलयाब्धिशायित्वे 'आ पो नाराः' इति पश्चात्प्रमाणोपन्यासः । श्रुतावाण्डकोशशब्दश्रवणेऽ पि प्रत्ययस्य स्वार्थिकत्वात्तस्यानेनाण्डकोश इत्येवानूदितम् । श्रुताव पि तथैव छेदो वा । 'सः' वासुदेवाज् जातो विष्णुः 'स्वात्' स्व कीयाच्छरीरात् विविधाः प्रजाः 'सिसृक्षुः' स्रष्टुमिच्छुः 'अभिध्या य' विचिन्त्य 'आदौ' अण्डसृष्टेः पूर्वमेव 'अपः' तदावरणरूपाः ससर्ज । तास्वप्सु वीर्यं 'अवासृजत्' न्यधात् मायाद्वारेति शेषः । 'हैमं' हिरण्यात्मकं 'सहस्रांशुसमप्रभं' सूर्यसमप्रकाशं 'तत्' वी र्यं ब्रह्माण्डाख्यमभवत् । 'यस्मिन्' अण्डे 'सर्वलोकपितामहो' ब्रह्मा चतुर्मुखः 'स्वयं' स्वतन्त्रात् हरेः साक्षाज्जज्ञे इत्यर्थः । यतः आपो 'न रसूनवः' नरस्य विष्णोस्सूनवः । 'विष्णुर्नरो नाशात्परो यतः' इति भागवततात्पर्योक्तेः । अतो नाराः प्रोक्ताः येन कारणेन 'पूर्वं' प्रलये 'ताः' आपः तस्य विष्णोः अयनं 'तेन सः नारायणः स्मृतः' तच्छब्दवा च्यत्वेन स्मृत्युक्त इत्यर्थः । यद्यपि—
[अधि - ७. सू - २०.] दीपिकासहितम्. १२१ यस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः । इति व्यासस्मृतेः । (४) 'अहं तत्तेजो रश्मीन्नारायणं पुरुषं जातमग्रतः । पुरुषा त्प्रकृतिर्जगदण्डम्' इति चतुर्वेदशिखायाम् ॥ २० ॥ पुरुषोऽण्डं विनिर्भिद्य यदादौ स विनिर्गतः । आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः ॥ इति भागवते । अण्डं प्रविष्टो यो विष्णुः सोऽण्डं भित्त्वा प्रकाशितः । सोऽपोऽसृजत्ततो नारा . . । इति भागवततात्पर्ये चाण्डसृष्ट्यनन्तरं अप्सृष्टिरुच्यते । तथाऽ पि सा बहिःसृष्टेरन्याऽऽन्तरेति न विरोधः । इतीत्यस्य 'तस्य च वीर्यम ण्डकोशः, स हि प्रलयसमुद्रशायी यतः' इति पूर्वेणान्वयः ॥ (४) इतश्च ब्रह्माण्डजनकवीर्यत्वं प्रलयस्थत्वं च तस्यैव ज्ञायत इत्याह—अहमिति ॥ 'त्रिपुरुषं मायाबीजमजायत' इति वाक्यशेषः । त दिति व्याप्तिवचनोऽसर्वनामशब्दः । अथवा सर्वनामशब्दः, अत एव टीकायां तद्ध्येयमिति व्युत्क्रमः कृतः । तथा च तत्प्रसिद्धं व्याप्तं वा 'अहं' अहेयं रतिः शं च मितमस्येति रश्मिर्जीवः तमिन्दयति प्रेरय तीति रश्मीत् जीवप्रेरकं, इन्द् प्रेरणे इति धातोः अयं दकारान्तः श ब्दः । अनुकृत्यधिकरणे तु—इन्धी दीप्ताविति धातुव्याख्यानात् रश्मी त् भगवदपेक्षया रश्मिरूपाणां अल्पानां सूर्यादितेजसां प्रकाशकमि ति व्याख्यातम्, तत्र धकारान्तोऽग्नीच्छब्दवदयं शब्दो ज्ञातव्यः । 'तेजः' जगत्प्रकाशकं 'पुरुषं' पूर्णषड्गुणं नारायणं तदाख्यं ब्रह्म ते ज इति वा । 'अग्रतः' प्रलये 'जातं' स्थितं तस्मान्नारायणाख्यपुरु षात् 'अग्रतः' प्रथमं 'प्रकृतिः' चेतना जायते गच्छतीति जगत् जी वसमुदायः, जातमित्यस्योभयत्र यथायोग्यं सम्बन्धः । जनिश्च यथा योग्या ग्राह्या । पश्चात् 'अण्डं च' 'त्रिपुरुषं' ब्रह्मवायुरुद्राख्यपुरुष त्रययुक्तं 'मायाबीजं' प्रकृत्युपादानकं अजायतेति तत्त्वप्रदीपदिशा श्रुत्यर्थः । चतुर्वेदशिखायां इत्यस्य वचनादित्यध्याहारेण तस्येत्यने नान्वयः ॥ १६
१२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा-१. ] ( ५ ) सू-ॐ ॥ भेदव्यपदेशाच्चान्यः ॐ ॥ २१ ॥ 'इन्द्रस्यात्मा निहितः पञ्च होता' . . 'वायोरा- त्मानं कवयो निचिक्युः' . . 'अन्तरादित्ये मनसा चरन्तम्, देवानाꣳहृदयं ब्रह्मान्वविन्दत्' ( तै. आ. ३-११०) इत्यादिभेदव्यपदेशात् ॥ २१ ॥ ( ५ ) यद्येवं समुद्रस्थत्वादिलिङ्गादन्तस्स्थो विष्णुः, तर्हि तेनान्त स्स्थेन विष्णुना इन्द्रादीनामभेदोऽत्र विवक्षितोऽस्तु । इन्द्रादिप्रापकश्रु त्यादेरपि सद्भावात् । श्रुत्यादेश्च स्वभावतो लिङ्गस्य निरवकाशतया बलवत्त्वेनान्यतरबाधेनान्यतरपक्षनिर्णयायोगात् । एवं च पूर्वोत्तरपक्ष द्वये अन्योन्यं बाध्यबाधकभावशून्ये सति तदन्यथानुपपत्त्या अन्तः स्थेन विष्णुनेन्द्रादीनामभेदः प्राप्त इत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—भेदेति ॥ तैत्तिरीये—‘इन्द्रस्य’ इत्येको भेदव्यपदेशः । ‘वायोः’ इत्यन्यः । ‘अन्तः’ इत्यपरः । ‘देवानाम्’ इति चेतरः । आ दिशब्देन ‘अमृतं देवानामायुः प्रजानामिन्द्रं राजानं सवितारम्’ इ त्यादिकं गृह्यते। व्यपदेशादित्यस्यान्य इति सौत्रप्रतिज्ञयाऽन्वयः ॥ अ नेन सूत्रे विधेयसमुच्चयार्थकचशब्दस्य भिन्नक्रमेण अन्वयेन न केव लमन्तश्श्रूयमाणो विष्णुः, किन्त्विन्द्रादिभ्योऽन्यश्च । कुतः ? तस्येन्द्रा द्यन्तर्यामित्वतदन्तस्स्थत्वकथनेन तेभ्यो भेदोक्तेरिति सूत्रार्थ उक्तो भ वति । अत्र श्रुताविन्द्रशब्दोऽन्यपरः ; षष्ठीश्रवणात् । ‘इन्द्रो राजा’ इत्यादौ तु इन्द्रादिशब्दाः परममुख्यवृत्त्या विष्णुपरा एव, बाधकाभा वात् । तथा च मनो विहाय पञ्चसु ज्ञानेन्द्रियेषु शब्दादिविषयहोता तैर्विषयानुभावकः । इन्द्रस्यात्मा अन्तर्यामी आदानादिकर्ता वा । स र्वहृदयेषु ‘निहितः’ सन्निहितः ‘कवयो’ ज्ञानिनः ‘वायोरात्मानं निचिक्युः’ ददृशुः आदित्येऽन्तः ‘मनसा’ स्वेच्छया संचरन्तं विष्णुं कवयः अन्वविन्दन् । ‘ब्रह्मा’ चतुर्मुखः देवानां हृदयनात् स्थितेः प्र वर्तनाद्वा हृदयं विष्णुं ‘अन्वविन्दत्’ अपश्यदिति श्रुत्यर्थः ॥ ॥ इत्यन्तस्स्थत्वाधिकरणम् ॥ ७ ॥
[ अधि - ८. सू - २२. ] दीपिकासहितम्. १२३ ८. अधिकरणम् ॥ ( १ ) ' को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आन न्दो न स्यात् ' ( तै-२-७. ) इति आकाशस्यानन्द मयत्वे हेतुरुक्तः न तु विष्णोः । ( २ ) इति न मन्तव्यम् । यतः— सू—ॐ ॥ आकाशस्तल्लिङ्गात् ॐ ॥ २२ ॥ ८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भगवति लोकतोऽन्यत्रप्रसिद्धाकाशपदोपलक्षि ताधिभौतिकाशेषशब्दसमन्वयः क्रियते । फलकथनेन पूर्वपक्षः सूचि तो भवतीत्याशयेन पूर्वपक्षफलमाह—को हीति ॥ इतीति । इत्यानन्दम याधिकरणोदाहृतवाक्येनेत्यर्थः । तुशब्दस्याकाशस्य त्विति सम्बन्धः । तथा च छन्दोगश्रुत्युक्ताकाशाभिन्नाकाशस्यैवेत्यर्थः । ' आनन्दमय त्वे ' पूर्णानन्दत्वेन निमित्तेन आनन्दमयशब्दवाच्यत्वे ' हेतुः ' लोक चेष्टकत्वरूपः । तुशब्दार्थवकारव्यावर्त्यमाह—नेति । अनेन विष्णुभि न्नभूताकाशस्यैव छन्दोगश्रुत्युक्ताकाशशब्दवाच्यत्वमिति पूर्वपक्षे ' को हि ' इति तैत्तिरीयश्रुत्युक्तोऽपि स एवेति तदुक्तहेतुना तस्यैवान न्दमयत्वं सिध्यति, न विष्णोरिति फलमुक्तं भवति । पूर्वसङ्गतिस्त्व धिकाशङ्कां कृत्वाऽत्र पूर्वन्याय एवातिदिश्यत इत्यातिदेशिकी द्रष्टव्या॥ ( २ ) सिद्धान्तयति—इतीति ॥ कुतो न मन्तव्यमित्याशङ्कायां त त्र हेतुतया सूत्रमुपादत्ते । यत इति । इदं चावर्तते । तत्राद्यस्य ' यत श्चोदेति ' इतिवत् कुत इत्यर्थः । ' यच्छब्दस्तु परामर्शे प्रश्नार्थेऽपि च भण्यते' इति भागवततात्पर्योक्तेः । द्वितीयस्तु न मन्तव्यमिति प्रति ज्ञायां सूत्रार्थस्य हेतुत्वद्योतकः । विषयादेः पूर्वपक्षफलकथनेन सूच नेऽपि मुखतोऽनुक्तेः तदनुवादपूर्वकं सूत्रं व्याचष्टे—अस्येति । ' इत्य त्र ' वाक्ये प्रतिपाद्यत्वस्येति शेषः । चोऽप्यर्थः । यद्यपि तथापीत्यर्थे । ' असौ ' आकाशोऽत्र वाच्य इति शेषः । सूत्रेऽनुवृत्तस्य ' तत्तु ' इत्य स्यार्थो विष्णुरेवेति । इत्यादीति । लुप्तविभक्तिको निर्देशः आदिश ब्दात् ' सर्वाणि भूतानि ' इत्यादिजगत्कारणत्वप्रतिपादकं वाक्यं गृह्य ते । यथोक्तं तत्त्वप्रदीपे—“ सर्वाणि भूतानि ' इत्यादिना उदीर्यमाणं जगदुत्पादकत्वादिकमादिशब्दादुपाददीत ” इति । लिङ्गपदं श्रुत्युप
१२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] 'अस्य लोकस्य का गतिरित्याकाश इति होवाच' (छा- १-९.) इत्यत्र भूताकाशस्य प्राप्तिः । न चासौ युज्यते, किन्तु, विष्णुरेव । 'स एष परोवरीयानुद्गीथः स एषोऽनन्तः' (छा.१-९.) इत्यादिताल्लिङ्गात् । लक्षकम् । तथा चेत्थं योजना-यद्यपि 'अस्य लोकस्य' इति छन्दोग वाक्ये भूताकाशस्य श्रुत्यादिवलादस्ति प्रतिपाद्यत्वस्य प्राप्तिः । तथाऽ पि नासावत्र वाक्ये आकाशपदेन वाच्यो युज्यते, किन्तु-विष्णुरे व । कुतः ? 'स एषः' इत्यादिवाक्ये 'तल्लिङ्गात्' तस्य विष्णोर्लिङ्गम साधारणधर्मः परोवरीयस्त्वादिः । तस्य तस्मिन्नाकाशे श्रवणादुक्त त्वात् । यत एवं तल्लिङ्गात् असौ छन्दोगश्रुत्युक्ताकाशो विष्णुरेव, त त एव 'को हि' इति तैत्तिरीयवाक्येऽप्यसावेव प्रतिपाद्यत इति तस्यै वानन्दमयत्वे हेतुरुक्तो न तु भूतस्य । अतो भूताकाशस्यानन्दमयत्वे हेतुरुक्तः, न तु विष्णोरिति न मन्तव्यमिति । अनेन सूत्रयोजना दर्शि ता । अस्येत्यादेरयमर्थः- 'अस्य' प्रत्यक्षसिद्धस्य पृथिवीलोकस्य त दभिमानिनश्चतुर्मुखस्य 'का गतिः' आश्रय इति शिलकेन पृष्टः प्रवा हणो राजा आदीप्तत्वादाकाशनामको विष्णुरिति प्रत्युवाच । कथमिति त्याकांक्षायां तदुपपादनाय तस्याकाशस्य महिमानमाह- 'सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परो वरीयानुद्गी थः स एषोऽनन्तः' इति । अत्र वैशब्दस्य प्रसिद्धिद्योतकस्य सन्निहित सर्वभूतान्वयो वा, 'स्युरेवं तु पुनर्वैत्वेत्यवधारणवाचकाः' इत्यभिधा नादवधारणार्थत्वं वा द्रष्टव्यम् । भूतशब्दो भूताकाश एवात्रोच्यते इ ति पूर्वपक्षे आकाशव्यतिरिक्तभूतपरः । सिद्धान्ते तु सर्वभूतपरः । ब्र ह्मादिसर्वजगतपरो वा । तथा च 'सर्वाणीमानि' प्रमितानि आकाशा द्विभूतानि ब्रह्मादिजगद्वा आकाशादेव समुत्पद्यन्ते । 'हवै' प्रसिद्धं हि । आकाशं 'प्रत्यस्तं' अदर्शनं 'यन्ति' तत्रैव प्रलये मुक्तौ च ली नाः भवन्ति । कुतः ? 'हि' यस्मादाकाश एव 'एभ्यो' ब्रह्मादिभ्यो 'ज्यायान्' अधिकोत्तमः । कुत एतत् ? यत आकाशः 'परायणं' उत्त माश्रयः नैतस्मादुत्तमं वस्त्वाशङ्क्यमिति भावेनाह-स इति । 'स ए षः' आकाशनामा भगवान् 'परोवरीयान्' अत्र-
[ अधि-८. सू-२२.] दीपिकासहितम्. १२५
( ३ ) 'विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि' (ऋ.१-१५४-१.) 'परो मात्रया तन्वा वृ- धान' (ऋ.७-९८-१.) इत्यादिना तस्यैव हि त- ल्लिङ्गम् । परस्मादुत्तमं प्रोक्तं परो इति ततः परम् । परो वरं परं तस्मात्प्रोक्तं पारोवरीयकम् । इति सामसंहितावचनानुसारेणादौ पर इति शब्दान्तरस्य मध्ये वर- शब्दान्तरस्य च आवापेन वृत्तिवाक्ये सुबादेशस्य सोर्लोपेन रुत्वो- त्वगुणेषु समाने परे ओप्रशब्दद्वयस्य लोपे चोत्तमोत्तमोत्तम इत्यर्थो ज्ञातव्यः । 'उद्गीथः' उच्चत्वेन गीत उक्तो वेदेन । तकारस्य थकारो व्यत्ययात् । 'स एषः' आकाशः 'अनन्तो' देशकालगुणैरपरिच्छि- न्न इति । छान्दोग्यभाष्ये तु 'उच्चत्वाद्गीतत्वात्सर्वस्थानस्थत्वादुद्गी- थो भगवान्' इति व्याख्यातम् ॥ ( ३ ) 'स एषोऽनन्तः' इत्युक्तस्यानन्तत्वस्यापरिमितत्वस्य विष्णुनि- ष्ठत्वं कुतो ज्ञायत इत्यत आह—विष्णोरिति ॥ विष्णोर्वीर्याणि 'कं' कोऽनु को वा 'प्रवोचम्' प्रावोचत् । साकल्येन प्रवक्ति न कोऽपि । 'यः' कः कविर्ब्रह्मा 'पार्थिवानि रजांसि' पार्थिवपरमाणून् 'विममे' ग- णयति । सोऽपि न प्रवक्तीति श्रुत्यर्थः । 'परोवरीयान्' इत्युक्तसर्वो- त्तमत्वस्य विष्णुधर्मत्वं कुत इत्यत आह—पर इति । अत्र 'न ते म- हित्वमन्वश्नुवन्ति' इति उत्तरवाक्यादुक्तार्थो ज्ञायते । अत एवादि- शब्द उभयान्वयी । तत्राद्यो 'विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि' इति स्मृतिग्राही । व्याख्यातेयं श्रु- तिर्जन्मनेये । इत्यादिना वाक्येनेति शेषः । यद्यपि श्रुत्यनुसारात्सर्वो- त्तमत्वे प्रथमं प्रमाणं वक्तव्यं न तु अनन्तत्वे । अत एव टीकायामादौ सर्वोत्तमत्वं गृहीतम् । तथाऽपि अनन्तत्वस्य सावकाशत्वशङ्काविषय- त्वात्प्रथमं तत्र प्रमाणोपन्यासः । अत एव तत्रैवोत्तरत्र स्मृत्या सावका- शत्वशङ्कापरिहारः । 'तस्य' विष्णोः हिशब्दो यत इत्यर्थे । 'तत्' अन- न्तत्वादि 'लिङ्गं' धर्म इत्यवगतम् । अतो न हेतुविशेषणासिद्धिरि- ति वाक्यशेषः । एवकारपाठे नानैकान्त्यमिति शेषः । उत्तरत्रान्वयो वा । यद्यपि 'अनन्तः' इति श्रुतिः ; वाचकशब्दत्वात् । तथाऽपि तत्पद- प्रवृत्तिनिमित्तस्य लिङ्गत्वमप्यविरुद्धम् ॥
१२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ४ ) अनन्तो भगवान् ब्रह्मा आनन्देत्यादिभिः पदैः । प्रोच्यते विष्णुरेवैकः परेषामुपचारतः । इति ब्राह्मे । ( ५ ) 'नामानि सर्वाणि यमाविशन्ति' ( भाल्लवेय ) इति चोक्तम् ॥ २२ ॥ ९. अधिकरणम् ॥ ( १ ) सू-ॐ ॥ अत एव प्राणः ॥ ॐ ॥ २३ ॥ ( २ ) तद्धै त्वं प्राणो अभवः महान् भोगः प्रजापतेः । ( ४ ) नन्वनन्तत्वं 'अनन्ताकाशवत्पश्यन्' इत्याकाशस्यापि स्म- र्यते, अतः सावकाशत्वात्कथं विष्णोरेव तल्लिङ्गमित्यतः स्मृतिमाह- अनन्त इति ॥ आनन्देति लुप्तविभक्तिको निर्देशः । विष्णुरेवैको मुख्य- तया प्रोच्यत इति सम्बन्धः । 'परेषां' विष्णोरन्येषां 'उपचारतः' स्वस्वसमीपगतपरमात्मसम्बन्धादेव वाच्यतेति शेषः । इति ब्राह्म इत्यस्य तस्यैव तल्लिङ्गमित्युक्तमिति पूर्वेणान्वयः । अनेनैवकारो लिङ्ग- स्य निरवकाशत्वज्ञापक इति सूचितम् ॥ ( ५ ) ननु श्रुत्या पूर्वपक्षिते कथं लिङ्गेन निर्णयः । लिङ्गस्य श्रुति- तो दुर्बलत्वादित्यतः आकाशश्रुतिर्विष्णौ सावकाशेति श्रुत्या दर्शय- ति—नामानीति ॥ 'चो' यतो 'नामानि सर्वाणि' इति वाक्येन वि- ष्णोराकाशादिसर्वशब्दवाच्यत्वमुक्तम्, अतो लिङ्गेन श्रुतेर्बाधया नि- र्णयो युक्त इति योजना ॥ ॥ इत्याकाशाधिकरणम् ॥ ८ ॥ ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे लोकतोऽन्यत्र प्रसिद्धाध्यात्मिकाशेषशब्दोप- लक्षकप्राणशब्दस्य ब्रह्मणि समन्वयः क्रियते । सर्वत्रादौ सूत्रं पाठ्यम् । पश्चात्सङ्गयादिकं वक्तव्यमिति सूचयितुमत्र सूत्रमादावेव पठति- अत एवेति ॥ ( २ ) विषयवाक्योदाहरणपूर्वकं पूर्वाधिकरणेन सङ्गतिं विषयसंश- यौ च सूचयति-तदिति ॥ अत्र यत्तदोरावृत्तिः । भुज्यत इति भोगः आ- नन्दः । तेन तद्वानुपलक्ष्यते, धर्मधर्मिणोरभेदविवक्षा वा । तथा च हे
[ अधि - ९. सू - २३. ] दीपिकासहितम्. १२७ भुजः करिष्यमाणः यद्देवान् प्राणयो नव ( तै.आ. ३- १४. ) इति महाभोगशब्देन परमानन्दत्वं प्राणस्योक्तम् ॥ ( ३ ) स च प्राणः प्रसिद्धेर्वायुः इत्यापतति । ( ४ ) न चैवम् । यतो विष्णुरेव प्राणः, अत एव ' श्रीश्च ते विष्णो 'यत्' यस्मात् 'प्रजापतेः' हिरण्यगर्भस्य तदुपलक्षितानां सक लजीवानां 'भुजः' भोगान् योग्यानन्दान् 'करिष्यमाणः' उपलक्षणमेत त्-कुर्वाणोऽकार्षीच्च । 'तस्मात्त्वं' 'महान् भोगः' पूर्णानन्दवान्भव । स्वस्य महाभोगाभावे परस्मै तद्दानानुपपत्तेः । यस्माच्च पायुगुह्यैक्येन नवेन्द्रियाभिमानिनो देवान् त्वं 'प्राणयः' अचेष्टयः । इदमप्युपलक्षणं- चेष्टयसि चेष्टयिष्यसि च । तस्मात्त्वं प्राणः प्राणशब्दवाच्योऽभव इति सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षे त्वेतत्सर्वं मुख्यप्राणे योज्यम् । इती ति। 'इति' तैत्तिरीयशाखागतवाक्ये 'परमानन्दत्वं' पूर्णानन्दत्वमुक्तमि त्यावर्तते । तथा च यदानन्दमयत्वं विष्णोरुक्तं तत्परमानन्दत्वपर्यवसि तं 'तद्वै त्वम्' इति वाक्ये ' महाभोगशब्देन' ' महान् भोगः ' इति प दद्वयात्मकवाक्येन च प्राणस्योक्तमिति योजना । अनेन प्राणाख्यो वि षयः । तस्य विष्ण्वन्यत्वाक्षेपमुखेनानन्दमयत्वस्याप्यन्यनिष्ठत्वाक्षेपा दानन्दमयाधिकरणेनास्याक्षेपिकी सङ्गतिः । सः वायुरुत विष्णुरिति संशयश्च सूचितो भवति ॥ ( ३ ) सयुक्तिकं पूर्वपक्षं दर्शयति— स चेति ॥ तच्छब्द आवर्तते । चशब्दोऽवधारणे । वायुरित्यनेन सम्बध्यते । आनन्दमयश्चेति समुच्च ये वा । तथा च परमानन्दत्वं यस्य प्राणस्योक्तं सः 'प्राणः' तच्छब्द वाच्यो मुख्यवायुरेवेति 'आपतति' प्राप्नोति । अतएवानन्दमयोऽपि स एवेत्यापतति । कुतः? प्रसिद्धेः प्राणश्रुतेः तस्याश्च तस्मिन्वायौ प्र सिद्धे रूढत्वात् । प्राणपदप्रवृत्तिनिमित्तस्य जीवनादिहेतुत्वस्य च श रीरे सति मुख्ये जीवनादिकं सम्भवति नासतीत्यन्वयव्यतिरेकाभ्यां स्वशरीरगतवायुविकारद्वारा मुख्यवायावेव प्रसिद्धेर्दर्शनादिति योजना ॥ ( ४ ) सिद्धान्तयति— न चेति ॥ एवं प्राणस्य वायुत्वं आनन्दमय त्वं च न युक्तमित्यर्थः । कुतो नैवमित्याशङ्कायां तत्र हेतुतया सूत्रं व्याचष्टे—यत इति । सूत्रार्थस्य हेतुत्वद्योतकोऽयं यतश्शब्दः । सूत्रेऽनु वृत्तस्य तद्धितस्यार्थो विष्णुरेवेति । तथा च यतोऽयं प्राणो विष्णुरे
१२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] लक्ष्मीश्च पत्न्यौ । अहोरात्रे पार्श्वे ' ( तै.आ.३-१३. ) इत्यादितल्लिङ्गादेव ॥ --:-- १०. अधिकरणम् ॥ ( १ ) ' यो वेद निहितं गुहायाम् ' ( तै. उ. २-१० ) इत्यु च अतो नैवमित्यन्वयः । कुतोऽयं प्राणो विष्णुरेवेत्यतः सौत्रं हेतुमनूद्य व्याचष्टे—अत एवेति । इत्यादीति । इत्यादिनोक्तं यद्विष्णुलिङ्गं तस्मा देवेत्यर्थः । कथं श्रुत्या पूर्वपक्षिते लिङ्गेन निर्णय इत्यतो लिङ्गस्य निर वकाशत्वज्ञापनार्थमेवकारः । तथा च सावकाशश्रुतेर्निरवकाशलिङ्गेन बाध इति भावः । हे विष्णो ' ते ' तव श्रीश्च लक्ष्मीश्चेति द्वे पत्न्यौ स्तः । वक्षःस्थलाश्रिता श्रीः अङ्कस्थिता लक्ष्मीरिति सम्प्रदायविदः । तत्त्वप्रदीपे तु—अङ्कस्थिता श्रीः वक्षसि लक्ष्मभूता लक्ष्मीरित्युक्तम् । ' अहोरात्रे ' तदभिमानिसूर्यचन्द्रौ ' पार्श्वे ' पार्श्वस्थितावित्यर्थः । दि वारात्रमेते पार्श्वगते इति वा । यद्यपीदं ' अद्भ्यः ' इति पूर्वानुवाकग तम् । ' तद्वै त्वं प्राणः ' इत्येतच्च ' भर्ता सन् भ्रियमाणः ' इत्युत्तरानु वाकगतम् । तथा च नानयोर्लिङ्गलिङ्गिभावो युज्यते । तथाऽपि 'श्रीश्च ते ' इति युष्मच्छब्देनोक्तस्य ' तद्वै त्वं प्राणः ' इत्यत्रापि युष्मच्छब्देन प्रत्यभिज्ञानात्तदुपपत्तिः । निरवकाशत्वाद्विन्नानुवाकस्थस्यापि मुख तो ग्रहणं युक्तम् । आदिशब्देन ' हरिं हरन्तमनुयन्ति देवाः । विश्व स्येशानं वृषभं मतीनां ' (तै. आ. ३-१५. ) इति तत्त्वप्रदीपोदाहृतमनु वाकान्तरस्थं गृह्यते । सर्वबुद्धिनियन्तारं जगत्पतिं सर्वसंहर्तारं हरिं देवाः अनुगच्छन्तीत्यर्थः । चन्द्रिकायां तु—' भर्ता सन् ' इत्युत्तरानु वाकगतं ' तमेवमृत्युममृतन्तमाहुस्तं भर्तारं तमुगोप्तारमाहुः' (तै.आ. ३ - १४. ) इत्यादिकमादिपदेन ग्राह्यमित्युक्तम् । यद्यपि तैत्तिरीयशा खायां ' ह्रीश्च ते ' इति पाठः । तथाऽपि वाजसनेयशाखाभिप्रायेण एव मुदाहृतमिति ध्येयम् । सूत्रार्थस्तु स्पष्टः ॥ ॥ इति प्राणाधिकरणम् ॥ ९ ॥ -:-*-:- १०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे तत्तत्सूत्रगताशेषशब्दोपलक्षकस्य लोकतोऽ
[ अधि - १०. सू - २३. ] दीपिकासहितम्. १२९ क्तम् । तच्च गुहानिहितम् । 'वि मे कर्णा पतयतो वि चक्षुर्वी३दं ज्योतिर्हृदय आहितं यत् । वि मे मनश्चरति दूर आधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये' (ऋ. ६-९-६.) इति ज्योतिरुक्तम् । न्यत्रप्रसिद्धस्य ज्योतिर्नाम्नो ब्रह्मणि समन्वयः क्रियते । पूर्वाधिकरण तद्विषयसङ्गतौ विषयवाक्योदाहरणपूर्वकं विषयसंशयौ च दर्शय ति—यो वेदेति ॥ ततः किमित्यत आह—तच्चेति । चोऽवधारणे । त था च यत्पूर्वं मान्त्रवर्णिकपदोपात्तमन्त्रवर्णगतेन 'यो वेद' इति वा क्येन गुहानिहितं वस्तूक्तं तदेवानन्दमयाद्याख्यमित्युक्तम् । तदेव 'वि मे कर्णा' इति वाक्ये 'ज्योतिरुक्तं' ज्योतिश्शब्देनोक्तमित्यर्थः । अने न वक्ष्यमाणपूर्वपक्षपर्यालोचनया ज्योतिषो विष्ण्वन्यत्वसाधनमुखेना नन्दमयत्वस्यान्यनिष्ठत्वाक्षेपादानन्दमयाधिकरणेनास्याक्षेपिकी सङ्ग तिः सूचिता भवति । ज्योतिर्विषयः किमग्निरुत विष्णुरिति सन्देहश्च सूचितो भवति । 'वि मे' इति ऋङ्मन्त्रे वीत्युपसर्गाणां क्रियापदेना न्वयः । तत्र धातोरेव विचरणाभिधायकत्वम् । उपसर्गास्तु द्योतकाः न वाचकाः । अतएव सूत्रे 'चरणाभिधानात्' इत्येवोक्तम् । भाष्ये तु 'विचरणाभिधानात्' इति स्पष्टार्थमुक्तम् । अतएव तत्त्वप्रदीपे 'स्प ष्टत्वाय विचरणाभिधानात् इत्युक्तम्' इत्युक्तम् । 'मे' इत्यस्मच्छ ब्देन मन्त्रद्रष्टा ऋषिरुच्यते । 'दूर आधीः' इत्यस्य एकपदत्वेऽपि अ वग्रहदर्शनेन द्विखण्डत्वाद्विभज्यान्वयः । आङ् ईषदभिव्याप्त्युभया र्थकः । वर्तत इति शेषः । तथा च यतो मे कर्णौ ज्योतिषो विरुद्धं प तयतः पततः । स्वार्थे णिच् । चक्षुश्च विरुद्धं पततीति विपरिणामेना न्वयः । यथा कर्णादेर्ज्योतिर्विदूरत्वं एवं ज्योतिषोऽपि कर्णादिविदूर त्वमित्याह—वीदमिति । कम्पोऽत्यन्तमित्यर्थे । तथा च यदिदं हृदये 'आहितं' आ समन्तात् स्थितं ज्योतिस्तदत्यन्तं कर्णादिविरुद्धं वर्त ते । एवं मे मनः ज्योतिषो दूरे विचरति अतीव तद्दर्शनविरुद्धं वर्तते । मनश्चरणस्य तत्त्वनिष्ठाविरोधित्वं 'चञ्चलं हि मनः कृष्ण' इति गी तायामुक्तम् । अतः कारणात् 'आधीः' ईषद्बुद्धिरहं व्याप्तबुद्धिरपी ति वा 'किं स्वित्' किं नु वक्ष्यामि । किमु किं वा नु इदानीं 'मनि ष्ये' चिन्तयामीति मन्त्रार्थः । तत्त्वप्रदीपे तु—आ समन्ताद्दूरस्थबुद्धि १७
१३० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २ ) तच्च ज्योतिरग्निसूक्तत्वात्प्रसिद्धेश्चाग्निरेवेति प्राप्तम् । ( ३ ) अत आह— सू—ॐ ॥ ज्योतिश्चरणाभिधानात् ॥ ॐ ॥ २४ ॥ विष्णुरेव ज्योतिः । कर्णादीनां विचरणाभिधानात् । ( ४ ) स हि 'परो मात्रया तन्वा वृधान' (ऋ.७-९८-२.) रहमित्येकान्वयेन व्याख्यातम् ॥ ( २ ) अथ सयुक्तिकं पूर्वपक्षयति — तच्चेति ॥ चस्समुच्चये । त दिति चावर्तते । अग्निशब्दो भूतदेवतापरः । द्वितीयचशब्दो भिन्नक्र मः। तथा च तज्ज्योतिर्गुहानिहितं चाग्निरेव भवेदिति प्राप्तं, कुतः ? 'प्र सिद्धेः ' ज्योतिःश्रुतेस्तस्याश्च तस्मिन्नग्नावेव प्रसिद्धेः रूढत्वात् । न केवलं श्रुतेरेवेदं ज्योतिरग्निः, किन्तु तस्य ज्योतिषः ' अग्निसूक्तत्वा त् ' अग्निप्रकरणगतत्वाच्चेति योजना । अतएव पूर्वपक्षोपसंहारटीका यां श्रुतिप्रकरणयोर्बलवत्त्वादिति प्रसिद्धपदलक्षितायाः श्रुतेः प्रथममु क्तिः । अत एव चन्द्रिकायां भाष्ये अग्निसूक्तस्थत्वाद्वेति चशब्दप्रयो गादित्युक्तम् । तथाच श्रुतिप्रकरणाभ्यां गुहानिहितत्वलिङ्गमात्रस्य बाधात् अग्निरैवेदं ज्योतिर्गुहानिहितं चेति भावः ॥ ( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ यतः पूर्वपक्षः प्रा प्तोऽतः उत्तरं सूत्रमाह भगवान्बादरायण इत्यर्थः । तदेव सूत्रं पठति- ज्योतिरिति । सूत्रे तच्चित्यस्य अनुवृत्तिं विपरिणामं चाभिप्रेत्य प्रति ज्ञांशं व्याचष्टे—विष्णुरेवेति । ' ज्योतिः ' तच्छब्दवाच्यो विष्णुरेव भ वेदिति योजना । कुत इत्यतः प्राप्तं ' चरणाभिधानात्' इति हेत्वंशं च रणशब्दस्य विचरणार्थत्वं कर्णादीनामित्यस्य अध्याहारं चाभिप्रेत्य व्याचष्टे—कर्णादीनामिति । अत्र वाक्ये कर्णादीनामेतज्ज्योतिःप्रति विरुद्धचरणोक्तेः कर्णादिविदूरत्वलिङ्गश्रवणादित्यर्थः । अत्र कर्णादि विदूरत्वं नाम तैरियमिति परिच्छेदायो ग्यवैभवत्वं, न तु कर्णादिविदू रत्वमात्रम् । तद्विषये तस्यासम्भवात् । अभिधानपर्यन्तधावनं हेत्व सिद्धिपरिहारायेति द्रष्टव्यम् ॥ ( ४ ) नन्वस्तु ज्योतिषः कर्णादिविदूरत्वोक्तिः, तावता तस्य वि ष्णुत्वं कुत इत्यतः कर्णादिविदूरत्वस्य विष्ण्वेकलिङ्गत्वे श्रुतिमुदाहर न् तत्प्रतिजानीते—स हीति ॥ एवेत्यनुषज्यते । आदिशब्देन ' न ते वि ष्णो ' इत्यादिकं गृह्यते । तथा च ' हि ' यस्मात् ' सः ' विष्णुरेव ' प
[ अधि - ११. सू - २५. ] दीपिकासहितम्. १३१ इत्यादिना कर्णादिविदूरः ॥ १० ॥ ———— ꕥ ———— ११. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ छन्दोऽभिधानान्नेति चेन्न तथा चेतोर्पण निगदात्तथा हि दर्शनम् ॥ ॐ ॥ २५ ॥ शे मात्रया ' इत्यादिवाक्येन कर्णादिविदूर इति प्रमितः तस्मान्नाप्रयो जकता, न वा हेतुविशेषणासिद्धिरित्यध्याहारेण योजना । अनेन ' ज्योतिः ' तच्छब्दवाच्यं ब्रह्मैव । कुतः ? अत्र कर्णादीनामेतज्ज्योतिः प्रति साकल्येन तद्विषयीकरणरूपविरुद्ध ' चरणाभिधानात् ' कर्णा दिविदूरत्वलिङ्गश्रवणात् इत्यावृत्त्यध्याहाराभ्यां सूत्रार्थ उक्तो भव ति । मापयति ज्ञापयति विषयानिति वा मीयन्ते विषया अनेनेति वा मात्रा इन्द्रियगणः तया ततस्त्वं ' परो ' दूरोऽसीति हे विष्णो अन्यम हिम्नः परमन्तं सीमानं ते महिमानं कोऽपि श्रोत्रादिना नापेति च प्र कृतानुगुण्येन श्रुतिर्व्याख्येया । अत्र तत्त्वप्रदीपसन्न्यायरत्नावलीकार योः ज्योतिरित्यादिचतुस्सूत्री एकमेवान्तर्भेदाधिकरणमित्यभिप्रेतम् । अग्निसूक्तच्छान्दोग्यगतविषयवाक्यभेदादनयोर्भेदः । टीकाकृतस्तु- ज्योतिस्सूत्रमेकमधिकरणं ' छन्दः ' इत्यादित्रिसूत्री अधिकरणान्तर मिति ज्ञातव्यम् ॥ १० ॥ ॥ इति ज्योतिरधिकरणम् ॥ ११. अधिकरणम् ॥ ( १ ) अत्राधिकरणे अधिवेदगत गायत्र्याद्यशेषशब्दसमन्वयः क्रि यते । सङ्गत्यादिजिज्ञासाजननाय सूत्रमेवादौ पठति—छन्द इति ॥ अत्र छन्दइत्यावर्तते । तच्च व्यस्तं समस्तं च । तथा च ' छन्दोभिधा नात् ' ' गायत्री वा इदम् ' इति वाक्यस्थगायत्रीशब्देन चतुर्विंशत्यक्ष रमन्त्रविशेषात्मकछन्दसः प्रतिपादनात्, तच्छब्दस्य तत्र रूढत्वात्, गायत्रीशब्दवाच्यो न विष्णुः, किन्तु छन्द एव । यतो गायत्री न वि ष्णुः, अपि तु छन्दः, अतो ज्योतिरपि न विष्णुः, किन्तु छन्दः । कु तः? 'छन्दोभिधानात् ' छन्दसा गायत्र्या तदैक्याभिप्रायेण ज्योतिषो ऽभिधानात् उपक्रमादिति चेत्—न, विष्णुरेव ज्योतिः। कुतः? ' निग
१३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २ ) 'अथ यदतः परो दिवो ज्योतिर्दीप्यते' (छा. ३-१३-७.) दात्' गायत्रीपदेन विष्णोरेवाभिधानात् । गायत्र्यादिपदैर्विष्णोरेवा भिधानं च न तदभेदविधानार्थः, किन्तु तथोपासनार्थमेवेत्याह—तथे ति । 'तथा' गायत्र्यादिशब्दार्थगुणस्वरूपत्वेन 'चेतसो' मनसः 'अर्पणाय' ब्रह्मण्य आधानायोपासनार्थमेव विष्णोर्निगदादित्यर्थः । उपा सनेत्यनुक्त्वा चेतोऽर्पणेत्युक्तिरुपासनास्वरूपकथनार्था । अनेन प्रसिद्ध गायत्र्यादिपदेन विष्णोरभिधानं व्यर्थमिति शङ्का परिहृता । ननु भ वेद्गायत्रीशब्दवाच्यत्वेन विष्णोर्ज्योतिश्शब्दवाच्यत्वसाधनम्, यदि गायत्रीशब्दवाच्यत्वं विष्णोः प्रमितं स्यात् । तदेव कुत इत्यत आह— तथा हीति । 'हि' य
[ अधि - ११. सू - २५. ] दीपिकासहितम्. १३३ इत्युक्तस्य ज्योतिषो ' गायत्री वा इदग्ं सर्वम् ' ( छा. ३-१२-१. ) इति गायत्र्या समारम्भः कृतः ॥ त्वापत्त्या ततएव अग्निसूक्तगतज्योतिषोऽपि तदन्यत्वमेव भवेत् । अ तएवानन्दमयत्वमपि अन्यस्यैव भवेन्न विष्णोरिति पूर्वोक्ताक्षेपेण ए तदधिकरणोत्थानात्पूर्वेणास्याक्षेपिकी सङ्गतिः । एवं गायत्री विषयः । किं छन्दोविशेषः उत विष्णुरिति सन्देहः । तथा गायत्री छन्दोविशे ष एव भवेत्; तच्छब्दस्य तत्र रूढत्वादिति सयुक्तिकः पूर्वपक्षः । तथा तस्माज् ज्योतिरपि छन्द एवेति तस्यैव गुहानिहितत्वमानन्दम यत्वं चेति पूर्वपक्षफलं च सूचितं भवति। अत्र पूर्वपक्षे गायत्र्यादिश ब्दाः मन्त्रपराः, सर्वमपि वाक्यं तन्माहात्म्यपरतया योजनीयम् । सि द्धान्ते तु ' अथ ' इत्यादेरयमर्थः—भगवन्माहात्म्यान्तरारम्भेऽथश ब्दः । ' यत् ' श्वेतद्वीपानन्तासनवैकुण्ठगतं नारायणवासुदेववैकुण्ठा ख्यं रूपत्रयं तत् ' अतः ' एतस्माद्विवक्षिताद्बुद्धिस्थात् ' दिवः परः ' परं तदपेक्षयोच्चस्थानस्थितमित्यर्थः । ' ज्योतिः ' तेजोमयं एवंभूतं त त् ' विश्वतः पृष्ठेषु ' पृथिव्यां ब्रह्मणो मेरौ वैजयन्तेऽन्तरिक्षगम् । तृतीयं सत्यलोके च सदनं त्रिविधं मतम् ॥ इति वचनादन्तरिक्षगवैजयन्तमेरुसत्यलोकगतेभ्यो ब्रह्मसदनेभ्यः क्र मेणोर्ध्वेषु ' सर्वतः पृष्ठेषु ' अन्तरिक्षपृथिवीस्वरात्मकलोकेभ्यः क्रमे णोच्चेषु ' अनुत्तमेषु ' न विद्यते उत्तमो लोको येभ्यस्तेषु प्रत्यवरेष्वि ति वा । ' उत्तमेषु ' स्वयमेवोत्तमेषु ' लोकेषु ' श्वेतद्वीपानन्तासनवै कुण्ठेषु ' दीप्यते ' प्रकाशते ' तत् ' दीप्यमानं तेजः ' इदं वाव ' इदं खलु । इदं च किम्? ' यदिदमस्मिन् पुरुषे ' हृदये ' अन्तर्ज्योतिः ' त च्छब्दितं ब्रह्मास्ति तत्तेनैकीभूतमित्यर्थः । यो गायत्रीनामा गायत्रीसं स्थः स्त्रीरूपो हयशीर्षाख्यो भगवान् तदिदं प्रथमं रूपमित्याशयेन तस्य द्वितीयं रूपं वक्तुं गायत्र्यादिवाक्यं प्रवृत्तम् । ' यदिदं किञ्च भूतं ' पूर्णं मत्स्याद्यवताररूपं यच्च ' सर्वं ' सर्वान्तःस्थितं रूपं तत्सर्वं ' गाय त्री ' गायत्रीनामा भगवान् एव । वै प्रसिद्धम् । तस्यैव तृतीयं रूपमा ह—वागिति । गायत्रीनामा भगवान् ' वाग्वै ' वाङ्नामको विष्णुरेव । कुतोऽस्य विष्णुत्वमित्यतस्तल्लक्षणयोगादित्याह—वाग्वा इति । ' इदं
१३४ | ब्रह्मसूत्रभाष्यम्. | [ अध्या - १. पा - १. ] तस्मान्न विष्णुरिति चेत्-न, तथा चेतोर्पणार्थं हि नि गद्यते । अग्निगायत्र्यादिशब्दार्थरूपोऽसाविति चेतोर्प णार्थं हि निगद्यते । सर्वं भूत' प्राणिजातं 'वाग्वै' वाग्द्वात्मकभगवदधीनमेव । अतः सर्व स्वामित्वाद्वाचो विष्णुत्वमिति । सिद्धान्तसूत्रांशमनुकरोति—नेति । निगद्यत इत्यत्रापि सम्बध्यते । तथा च ज्योतिःशब्दवाच्यो विष्णुर्नेति न, किन्तु ज्योतिःशब्देन विष्णुरेव निगद्यत इत्यर्थः । कुत इत्यतो नि गदादिति हेतुं योजयति—हि निगद्यत इति । गायत्रीशब्देनेति शेषः । तथा च 'हि' यस्माद्गायत्रीशब्देनापि विष्णुरेव 'निगद्यते' अभिधी यते तस्मादित्यर्थः । विष्णोर्गायत्र्यादिशब्दैरभिधानं च न तदभेदवि धानार्थं, किन्तु तथोपासनार्थमेवेत्याह—तथेति । चेतोर्पणेत्युक्तिप्रयो जनं पूर्ववत् । भाष्यत्वज्ञापनाय तथेत्यादिस्वपदानि तथा शब्दार्थक थनेन विवृणोति-अग्नीति । अत्र ज्योतिश्शब्दोपलक्षकाग्निपदं ज्यो तिस्सूत्रस्य भिन्नाधिकरणत्वपक्षे अन्यत्र प्रसिद्धस्य गायत्रीपदस्य विष्णौ प्रयोगे प्रयोजनमत्र वदता सूत्रकृता पूर्वत्रोत्तरत्र चाग्न्यादिप दस्य विष्णौ प्रयोगे प्रयोजनं सूचितमिति दर्शयितुम् । न च गाय त्र्यादिपदाभ्यामेव गायत्रीपदसमन्वयफलस्य पूर्वत्रोत्तरत्र चोक्तसम न्वयफलस्य च सूचनसम्भवादग्निपदं व्यर्थमिति वाच्यम् । फलीभूत समन्वयविषयत्वेनास्यापि अवश्योपादेयत्वात् । समानप्रकरणस्थ वागादिग्राहकत्वेन आदिशब्दस्याप्यावश्यकत्वात् । अवश्यपेक्षिता भ्यामुभाभ्यामप्यानन्दमयाद्यधिकरणेषु उत्तरत्र चोक्तप्रयोजनस्यापि सूचनसम्भवादुभयमप्यावश्यकम् । ज्योतिरित्यादिचतुःसूत्र्या एका धिकरणत्वपक्षे तु साक्षात्समन्वेतव्यशब्दत्वेनैव शब्दद्वयोपादानं, न तु फलत्वेनाग्निशब्दस्याधिकरणान्तरेऽप्येतन्न्यायसूचनं तु आदिशब्दे नैव, न तूभाभ्याम् । भिन्नजातीयानेकशब्दग्रहणार्थं शब्दद्वयोत्तरादिप दम् । अत एव तत्त्वप्रदीपे-आदिशब्दस्योभयत्रान्वयं प्रथमादिशब्दे न तेजःशब्दानां द्वितीयेन छन्दश्शब्दानां च ग्रहणमभिप्रेत्य 'अग्न्या दितेजःशब्दानां गायत्र्यादिच्छन्दश्शब्दानां च' इत्युक्तम् । केचित्तु- भाष्यगतहिशब्दो ज्ञानार्थमथ ध्यानार्थमिति प्रमाणप्रसिद्धिव्योतकः, अ धिकरणान्तरेऽप्यस्य न्यायस्यानुसन्धेयत्वज्ञापकश्चेत्याहुः । चेतोर्प णार्थमिति सावधारणम् । तथा च 'असौ' भगवानग्निगायत्र्यादिश
[ अधि - ११. सू - २५. ] दीपिकासहितम्. १३५ ( ३ ) तथा हि दर्शनं ' गायति त्रायति च ' ( छा. ६-१२- १०.) इत्यादि । ( ४ ) सर्वच्छन्दोऽभिधो ह्येष सर्वदेवाभिधो ह्यसौ । सर्वलोकाभिधो ह्येष तेषां तदुपचारतः ॥ इति वामने ॥ द्वेरभिगायत्र्यादिशब्दार्थगुणस्वरूप इति । तत्र ' चेतोर्पणार्थं ' बुद्ध्य- वतारणार्थं उपासनार्थमेव निगद्यते, न तद्भेदविधानार्थमित्यर्थः। इती- त्यन्तेन तथाशब्दार्थ उक्तः । अनेनाप्रसिद्धगायत्र्यादिपदेन विष्णोर- भिधानस्य वैयर्थ्यशङ्का परिहृता ॥ ( ३ ) ननु भवेद्गायत्र्यादिशब्दवाच्यत्वेन विष्णोर्ज्योतिश्शब्दवा- च्यतासाधनं यदीयं गायत्री विष्णुः स्यात्तदेव कुत इत्यतां गानत्राण- कर्तृत्वलिङ्गादित्याशयेन तस्यासिद्धिपरिहाराय प्रवृत्तं तथाहीति सूत्र- शेषं अनुकृत्य दर्शनपदोक्तां श्रुतिं दर्शयति—तथेति ॥ ' हि ' यस्मात् 'इत्यादि दर्शनं' श्रुतिरस्तीत्यन्वयः । यद्यपि 'गायति त्रायतेच'इति पा- ठः छन्दोगानाम्, तथाऽपि शाखान्तरमेवेदमित्यदोषः। आदिपदेन 'या वै सा गायत्री इयं वाव सा येयं पृथिव्यस्यां हीदं सर्वं भूतं प्रतिष्ठित- मेतामेव नातिशीयते' (छा.३-१२-२.) इत्यादिकं गृह्यते। श्रुत्यर्थस्तु- यतो गायत्रीवाच्यो भगवान् वेदान् 'गायति' मुखान्निस्सारयति प्रथ- मो वक्तेति यावत् । यस्माच्च 'त्रायते' अखिलमिति शेषः । अतो गायत्री शब्देनोच्यते । 'या' प्रसिद्धा गायत्री तन्नामा विष्णुः 'सा इयं वै' इयं खलु । किमियं ? 'येयं पृथिवी' तन्नामा भगवान् । कथं पृथिवी विष्णु- रित्यतः तल्लक्षणयोगादित्याह—अस्यां हीदमिति । ' अस्यां ' पृथिव्यां 'भूतं' प्राणिजातमाश्रितमिति । सुधायां तु पूर्वपक्षानुगुणतया गाय- त्री 'गायति' अर्थं प्रतिपादयति, अध्येतॄन् 'त्रायते' पालयति पापा- त् रक्षतीत्यर्थ उक्तः ॥ ( ४ ) ननु गायत्र्यादिशब्दस्य अन्यत्र रूढत्वात्कथं लिङ्गमात्रेण विष्णुत्वनिश्चय इत्यतो गायत्र्यादिश्रुतेः सावकाशत्वादिति भावेन गायत्र्यग्निपृथिव्यादिशब्दाः न केवलं श्रुत्युक्तयोगेन विष्णौ सावका- शाः, अपि तु पौराणिकरूढ्या गायत्र्याः भगवदधीनत्वाद्पीत्याशये- न तत्र स्मृतिमाह—सर्वैति ॥ ' एषः ' विष्णुः ' सर्वच्छन्दोऽभिधः ' सर्वच्छन्दसां अभिधेयाभिधा यस्येति बहुव्रीहिः। छन्दोवाचकगाय-
१३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ५ ) सू—ॐ ॥ भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ ॐ ॥ २६ ॥ त्र्यादिसर्वशब्दवाच्यः । 'एवमसौ' विष्णुः सर्वदेवतावाचकाग्न्या- दिशब्दवाच्यः । तथा 'एषः' विष्णुः सर्वलोकवाचकपृथिव्यादिशब्द- वाच्य इत्यर्थः । कुत इत्यतः छन्दादीनां भगवदधीनत्वादिति प्रत्ये- कं हेतुत्रयसूचनाय हिशब्दत्रयं, वेदप्रसिद्धिज्ञापनाय वा । छन्दसां लोकानां च प्रत्यक्षत्वात् देवानां च परोक्षत्वादेषोऽसाविति विचित्रो- क्तिः । कथं तर्ह्यन्यत्र व्यवहार इत्यत आह—तेषामिति । छन्दोदेव- लोकानामित्यर्थः । 'तत्' तच्छब्दबोध्यत्वं 'उपचारतो' विष्णुसमी- पे चरणात्तदधीनत्वादमुख्यत एवेत्यर्थः । वामन इत्यस्य 'हि' यतो वामने इति 'दर्शनं' प्रतिपादनम
[ अधि - ११. सू - २६. ] दीपिकासहितम्. १३७ ( ६ ) 'तावानस्य महिमा ततो ज्यायांश्च पुरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि' (छा. ३ - १२ - ६.) इति । ( ७ ) सुवर्णं कोशं रजसा परीवृतम् । देवानां वसुधानीं क्तम्' (छां. ३-१२-५.) इति 'तदेतत्' भगवतश्चतुष्पादत्वं 'ऋचा' ऋङ्मन्त्रेण 'अभि' निश्शङ्कं स्पष्टं 'अनु' आनुकूल्येनोक्तमित्यर्थः ॥ ( ६ ) किमुक्तमित्यतस्तन्मन्त्रं पठति—तावानिति ॥ यद्यपि ऋचि 'एतावान्' इति 'विश्वा' इति च पाठः । तथाऽपि शाखान्तरपाठोऽयमि- त्यदोषः । 'अस्य' पुरुषस्य 'पुरुष एवेदं सर्वम्' (तै. आ. ३-१२.) इत्युक्ता यस्सर्वेशानत्वादिरूपः तावान्महिमोक्तः, न केवलमेतावान्, किन्तु, पुरुषः 'ततः' पूर्वोक्तादपि महिम्नो 'ज्यायान्' अधिकमाहात्म्योपेत इत्यर्थः । ज्यायस्त्वमेव दर्शयति—पादोऽस्येत्यादिना । 'सर्वा भूतानि' सर्वं विश्वं 'अस्य' विष्णोरेकः 'पादः' पादवत्पादो भिन्नांशः । यद्य- पि तत्त्वप्रदीपे—विश्वभूतविधिर्भाति । तथापि टीकायां-सर्वाणि भू- तान्यस्यैकः पाद इति पादविधानदर्शनात्, चन्द्रिकायां-'पश्वेकत्व- वत् विधेयगतत्वात्पादैकत्वं विवक्षितम्' इत्युक्तत्वाच्च, तत्त्वप्रदीपो- प्येवमेव व्याख्येयः । अस्य 'अमृतं' नाशरहितं अतएव स्वरूपभूतं 'त्रिपात्' त्रयाणां पादानां अंशानां समुदायो नारायणवासुदेववैकु- ण्ठसंज्ञं त्रिषु रूढ्या द्योतमानत्वाच्च द्युशब्दवाच्येषु श्वेतद्वीपानन्तास- नवैकुण्ठेषु तिष्ठतीति ऋचोक्तमित्यर्थः । यद्यपि भूतशब्दो 'भिन्नपाद- स्सर्वजीवाः' इति छान्दोग्यभाष्ये जीवपरतया व्याख्यातः । तथाऽपि 'सुवर्णम्' इति श्रुत्यनुसारेण अत्र विश्वार्थतया व्याख्यातव्यः ॥ ( ७ ) ननु गायत्र्यामिव विष्णावपि भूतादिपादत्वोक्तिरनुपप- न्ना । तस्य भूतभिन्नत्वादित्यत आह—सुवर्णमित्यादि ॥ 'सुवर्णम्' इत्यारभ्य 'भिन्नं च' इत्यन्तमेकवाक्यतयाऽर्थक्रमेण व्याख्येयम् । य- ज्ञदत्तस्य, देवदत्तः, इत्युच्यते, विश्वमिति च शेषः । पाद इति चाव- र्तते । चशब्द एवार्थे हेतौ च । एकदेशपरिमितमिति हेतुगर्भमावर्तनी- यम् । तथा च 'चो' यतः श्रुतिस्थेन पाद् इति शब्देन न भूतानामित्य- मृतपादत्रयवत्स्वरूपांशत्वमुच्यते । येनानुपपत्तिः स्यात् । किन्तु, य- ज्ञदत्तस्य चतुर्भागबलो देवदत्त इतिवद्भिन्नमेव विश्वम् । यतः 'परि- १८
ीरानभो"? Wait, "समीरण"? Air = समीरण! Look at the letters: स (sa) - म (ma) - ी (ī) - र (ra) - णा (ṇā) - न् (n) - भो (bho)? WAIT! Look at: त (ta) - look at the letter before: क्षि (kṣi). Is it "र-जो-गु-णो-प-ल-क्षि-त-"? Wait, what is before समीरण? अप् (water), तेजस् (fire)! Could it be "अब्-तेजः-समीर"? Wait, look at the glyphs: Letter 1 after क्षि: त (ta) Letter 2: ा (aa)? Wait, is it ा, or is it a vertical line of something else? Wait, look at: "अब्" - does it have अब्? Look at: त (ta) with what? Wait! Could it be: "तावच्छरीरानभो"? No, why शरीर? The text says: "विराजं ब्रह्मणः शरीरं" in the very next line (L18)! Wait! In L16-17: "'रजसा परीवृतं ' रजोगुणोपलक्षिता..." Wait, what does "रजसा परीवृतम्" mean in the Upanishad? Mantra: "सुवर्णं कोशं रजसा