भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 178, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 178

[ अधि - ११. सू - २५. ] दीपिकासहितम्. १३१ इत्यादिना कर्णादिविदूरः ॥ १० ॥ ———— ꕥ ———— ११. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ छन्दोऽभिधानान्नेति चेन्न तथा चेतोर्पण निगदात्तथा हि दर्शनम् ॥ ॐ ॥ २५ ॥ शे मात्रया ' इत्यादिवाक्येन कर्णादिविदूर इति प्रमितः तस्मान्नाप्रयो जकता, न वा हेतुविशेषणासिद्धिरित्यध्याहारेण योजना । अनेन ' ज्योतिः ' तच्छब्दवाच्यं ब्रह्मैव । कुतः ? अत्र कर्णादीनामेतज्ज्योतिः प्रति साकल्येन तद्विषयीकरणरूपविरुद्ध ' चरणाभिधानात् ' कर्णा दिविदूरत्वलिङ्गश्रवणात् इत्यावृत्त्यध्याहाराभ्यां सूत्रार्थ उक्तो भव ति । मापयति ज्ञापयति विषयानिति वा मीयन्ते विषया अनेनेति वा मात्रा इन्द्रियगणः तया ततस्त्वं ' परो ' दूरोऽसीति हे विष्णो अन्यम हिम्नः परमन्तं सीमानं ते महिमानं कोऽपि श्रोत्रादिना नापेति च प्र कृतानुगुण्येन श्रुतिर्व्याख्येया । अत्र तत्त्वप्रदीपसन्न्यायरत्नावलीकार योः ज्योतिरित्यादिचतुस्सूत्री एकमेवान्तर्भेदाधिकरणमित्यभिप्रेतम् । अग्निसूक्तच्छान्दोग्यगतविषयवाक्यभेदादनयोर्भेदः । टीकाकृतस्तु- ज्योतिस्सूत्रमेकमधिकरणं ' छन्दः ' इत्यादित्रिसूत्री अधिकरणान्तर मिति ज्ञातव्यम् ॥ १० ॥ ॥ इति ज्योतिरधिकरणम् ॥ ११. अधिकरणम् ॥ ( १ ) अत्राधिकरणे अधिवेदगत गायत्र्याद्यशेषशब्दसमन्वयः क्रि यते । सङ्गत्यादिजिज्ञासाजननाय सूत्रमेवादौ पठति—छन्द इति ॥ अत्र छन्दइत्यावर्तते । तच्च व्यस्तं समस्तं च । तथा च ' छन्दोभिधा नात् ' ' गायत्री वा इदम् ' इति वाक्यस्थगायत्रीशब्देन चतुर्विंशत्यक्ष रमन्त्रविशेषात्मकछन्दसः प्रतिपादनात्, तच्छब्दस्य तत्र रूढत्वात्, गायत्रीशब्दवाच्यो न विष्णुः, किन्तु छन्द एव । यतो गायत्री न वि ष्णुः, अपि तु छन्दः, अतो ज्योतिरपि न विष्णुः, किन्तु छन्दः । कु तः? 'छन्दोभिधानात् ' छन्दसा गायत्र्या तदैक्याभिप्रायेण ज्योतिषो ऽभिधानात् उपक्रमादिति चेत्—न, विष्णुरेव ज्योतिः। कुतः? ' निग

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 178, कुल 1267 में से · BharatKosha