पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 179, कुल 1267 में से
संदर्भ में पढ़ें१३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २ ) 'अथ यदतः परो दिवो ज्योतिर्दीप्यते' (छा. ३-१३-७.) दात्' गायत्रीपदेन विष्णोरेवाभिधानात् । गायत्र्यादिपदैर्विष्णोरेवा भिधानं च न तदभेदविधानार्थः, किन्तु तथोपासनार्थमेवेत्याह—तथे ति । 'तथा' गायत्र्यादिशब्दार्थगुणस्वरूपत्वेन 'चेतसो' मनसः 'अर्पणाय' ब्रह्मण्य आधानायोपासनार्थमेव विष्णोर्निगदादित्यर्थः । उपा सनेत्यनुक्त्वा चेतोऽर्पणेत्युक्तिरुपासनास्वरूपकथनार्था । अनेन प्रसिद्ध गायत्र्यादिपदेन विष्णोरभिधानं व्यर्थमिति शङ्का परिहृता । ननु भ वेद्गायत्रीशब्दवाच्यत्वेन विष्णोर्ज्योतिश्शब्दवाच्यत्वसाधनम्, यदि गायत्रीशब्दवाच्यत्वं विष्णोः प्रमितं स्यात् । तदेव कुत इत्यत आह— तथा हीति । 'हि' य