पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 181, कुल 1267 में से
संदर्भ में पढ़ें१३४ | ब्रह्मसूत्रभाष्यम्. | [ अध्या - १. पा - १. ] तस्मान्न विष्णुरिति चेत्-न, तथा चेतोर्पणार्थं हि नि गद्यते । अग्निगायत्र्यादिशब्दार्थरूपोऽसाविति चेतोर्प णार्थं हि निगद्यते । सर्वं भूत' प्राणिजातं 'वाग्वै' वाग्द्वात्मकभगवदधीनमेव । अतः सर्व स्वामित्वाद्वाचो विष्णुत्वमिति । सिद्धान्तसूत्रांशमनुकरोति—नेति । निगद्यत इत्यत्रापि सम्बध्यते । तथा च ज्योतिःशब्दवाच्यो विष्णुर्नेति न, किन्तु ज्योतिःशब्देन विष्णुरेव निगद्यत इत्यर्थः । कुत इत्यतो नि गदादिति हेतुं योजयति—हि निगद्यत इति । गायत्रीशब्देनेति शेषः । तथा च 'हि' यस्माद्गायत्रीशब्देनापि विष्णुरेव 'निगद्यते' अभिधी यते तस्मादित्यर्थः । विष्णोर्गायत्र्यादिशब्दैरभिधानं च न तदभेदवि धानार्थं, किन्तु तथोपासनार्थमेवेत्याह—तथेति । चेतोर्पणेत्युक्तिप्रयो जनं पूर्ववत् । भाष्यत्वज्ञापनाय तथेत्यादिस्वपदानि तथा शब्दार्थक थनेन विवृणोति-अग्नीति । अत्र ज्योतिश्शब्दोपलक्षकाग्निपदं ज्यो तिस्सूत्रस्य भिन्नाधिकरणत्वपक्षे अन्यत्र प्रसिद्धस्य गायत्रीपदस्य विष्णौ प्रयोगे प्रयोजनमत्र वदता सूत्रकृता पूर्वत्रोत्तरत्र चाग्न्यादिप दस्य विष्णौ प्रयोगे प्रयोजनं सूचितमिति दर्शयितुम् । न च गाय त्र्यादिपदाभ्यामेव गायत्रीपदसमन्वयफलस्य पूर्वत्रोत्तरत्र चोक्तसम न्वयफलस्य च सूचनसम्भवादग्निपदं व्यर्थमिति वाच्यम् । फलीभूत समन्वयविषयत्वेनास्यापि अवश्योपादेयत्वात् । समानप्रकरणस्थ वागादिग्राहकत्वेन आदिशब्दस्याप्यावश्यकत्वात् । अवश्यपेक्षिता भ्यामुभाभ्यामप्यानन्दमयाद्यधिकरणेषु उत्तरत्र चोक्तप्रयोजनस्यापि सूचनसम्भवादुभयमप्यावश्यकम् । ज्योतिरित्यादिचतुःसूत्र्या एका धिकरणत्वपक्षे तु साक्षात्समन्वेतव्यशब्दत्वेनैव शब्दद्वयोपादानं, न तु फलत्वेनाग्निशब्दस्याधिकरणान्तरेऽप्येतन्न्यायसूचनं तु आदिशब्दे नैव, न तूभाभ्याम् । भिन्नजातीयानेकशब्दग्रहणार्थं शब्दद्वयोत्तरादिप दम् । अत एव तत्त्वप्रदीपे-आदिशब्दस्योभयत्रान्वयं प्रथमादिशब्दे न तेजःशब्दानां द्वितीयेन छन्दश्शब्दानां च ग्रहणमभिप्रेत्य 'अग्न्या दितेजःशब्दानां गायत्र्यादिच्छन्दश्शब्दानां च' इत्युक्तम् । केचित्तु- भाष्यगतहिशब्दो ज्ञानार्थमथ ध्यानार्थमिति प्रमाणप्रसिद्धिव्योतकः, अ धिकरणान्तरेऽप्यस्य न्यायस्यानुसन्धेयत्वज्ञापकश्चेत्याहुः । चेतोर्प णार्थमिति सावधारणम् । तथा च 'असौ' भगवानग्निगायत्र्यादिश