पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 175, कुल 1267 में से
संदर्भ में पढ़ें१२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] लक्ष्मीश्च पत्न्यौ । अहोरात्रे पार्श्वे ' ( तै.आ.३-१३. ) इत्यादितल्लिङ्गादेव ॥ --:-- १०. अधिकरणम् ॥ ( १ ) ' यो वेद निहितं गुहायाम् ' ( तै. उ. २-१० ) इत्यु च अतो नैवमित्यन्वयः । कुतोऽयं प्राणो विष्णुरेवेत्यतः सौत्रं हेतुमनूद्य व्याचष्टे—अत एवेति । इत्यादीति । इत्यादिनोक्तं यद्विष्णुलिङ्गं तस्मा देवेत्यर्थः । कथं श्रुत्या पूर्वपक्षिते लिङ्गेन निर्णय इत्यतो लिङ्गस्य निर वकाशत्वज्ञापनार्थमेवकारः । तथा च सावकाशश्रुतेर्निरवकाशलिङ्गेन बाध इति भावः । हे विष्णो ' ते ' तव श्रीश्च लक्ष्मीश्चेति द्वे पत्न्यौ स्तः । वक्षःस्थलाश्रिता श्रीः अङ्कस्थिता लक्ष्मीरिति सम्प्रदायविदः । तत्त्वप्रदीपे तु—अङ्कस्थिता श्रीः वक्षसि लक्ष्मभूता लक्ष्मीरित्युक्तम् । ' अहोरात्रे ' तदभिमानिसूर्यचन्द्रौ ' पार्श्वे ' पार्श्वस्थितावित्यर्थः । दि वारात्रमेते पार्श्वगते इति वा । यद्यपीदं ' अद्भ्यः ' इति पूर्वानुवाकग तम् । ' तद्वै त्वं प्राणः ' इत्येतच्च ' भर्ता सन् भ्रियमाणः ' इत्युत्तरानु वाकगतम् । तथा च नानयोर्लिङ्गलिङ्गिभावो युज्यते । तथाऽपि 'श्रीश्च ते ' इति युष्मच्छब्देनोक्तस्य ' तद्वै त्वं प्राणः ' इत्यत्रापि युष्मच्छब्देन प्रत्यभिज्ञानात्तदुपपत्तिः । निरवकाशत्वाद्विन्नानुवाकस्थस्यापि मुख तो ग्रहणं युक्तम् । आदिशब्देन ' हरिं हरन्तमनुयन्ति देवाः । विश्व स्येशानं वृषभं मतीनां ' (तै. आ. ३-१५. ) इति तत्त्वप्रदीपोदाहृतमनु वाकान्तरस्थं गृह्यते । सर्वबुद्धिनियन्तारं जगत्पतिं सर्वसंहर्तारं हरिं देवाः अनुगच्छन्तीत्यर्थः । चन्द्रिकायां तु—' भर्ता सन् ' इत्युत्तरानु वाकगतं ' तमेवमृत्युममृतन्तमाहुस्तं भर्तारं तमुगोप्तारमाहुः' (तै.आ. ३ - १४. ) इत्यादिकमादिपदेन ग्राह्यमित्युक्तम् । यद्यपि तैत्तिरीयशा खायां ' ह्रीश्च ते ' इति पाठः । तथाऽपि वाजसनेयशाखाभिप्रायेण एव मुदाहृतमिति ध्येयम् । सूत्रार्थस्तु स्पष्टः ॥ ॥ इति प्राणाधिकरणम् ॥ ९ ॥ -:-*-:- १०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे तत्तत्सूत्रगताशेषशब्दोपलक्षकस्य लोकतोऽ