भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 176, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 176

[ अधि - १०. सू - २३. ] दीपिकासहितम्. १२९ क्तम् । तच्च गुहानिहितम् । 'वि मे कर्णा पतयतो वि चक्षुर्वी३दं ज्योतिर्हृदय आहितं यत् । वि मे मनश्चरति दूर आधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये' (ऋ. ६-९-६.) इति ज्योतिरुक्तम् । न्यत्रप्रसिद्धस्य ज्योतिर्नाम्नो ब्रह्मणि समन्वयः क्रियते । पूर्वाधिकरण तद्विषयसङ्गतौ विषयवाक्योदाहरणपूर्वकं विषयसंशयौ च दर्शय ति—यो वेदेति ॥ ततः किमित्यत आह—तच्चेति । चोऽवधारणे । त था च यत्पूर्वं मान्त्रवर्णिकपदोपात्तमन्त्रवर्णगतेन 'यो वेद' इति वा क्येन गुहानिहितं वस्तूक्तं तदेवानन्दमयाद्याख्यमित्युक्तम् । तदेव 'वि मे कर्णा' इति वाक्ये 'ज्योतिरुक्तं' ज्योतिश्शब्देनोक्तमित्यर्थः । अने न वक्ष्यमाणपूर्वपक्षपर्यालोचनया ज्योतिषो विष्ण्वन्यत्वसाधनमुखेना नन्दमयत्वस्यान्यनिष्ठत्वाक्षेपादानन्दमयाधिकरणेनास्याक्षेपिकी सङ्ग तिः सूचिता भवति । ज्योतिर्विषयः किमग्निरुत विष्णुरिति सन्देहश्च सूचितो भवति । 'वि मे' इति ऋङ्मन्त्रे वीत्युपसर्गाणां क्रियापदेना न्वयः । तत्र धातोरेव विचरणाभिधायकत्वम् । उपसर्गास्तु द्योतकाः न वाचकाः । अतएव सूत्रे 'चरणाभिधानात्' इत्येवोक्तम् । भाष्ये तु 'विचरणाभिधानात्' इति स्पष्टार्थमुक्तम् । अतएव तत्त्वप्रदीपे 'स्प ष्टत्वाय विचरणाभिधानात् इत्युक्तम्' इत्युक्तम् । 'मे' इत्यस्मच्छ ब्देन मन्त्रद्रष्टा ऋषिरुच्यते । 'दूर आधीः' इत्यस्य एकपदत्वेऽपि अ वग्रहदर्शनेन द्विखण्डत्वाद्विभज्यान्वयः । आङ् ईषदभिव्याप्त्युभया र्थकः । वर्तत इति शेषः । तथा च यतो मे कर्णौ ज्योतिषो विरुद्धं प तयतः पततः । स्वार्थे णिच् । चक्षुश्च विरुद्धं पततीति विपरिणामेना न्वयः । यथा कर्णादेर्ज्योतिर्विदूरत्वं एवं ज्योतिषोऽपि कर्णादिविदूर त्वमित्याह—वीदमिति । कम्पोऽत्यन्तमित्यर्थे । तथा च यदिदं हृदये 'आहितं' आ समन्तात् स्थितं ज्योतिस्तदत्यन्तं कर्णादिविरुद्धं वर्त ते । एवं मे मनः ज्योतिषो दूरे विचरति अतीव तद्दर्शनविरुद्धं वर्तते । मनश्चरणस्य तत्त्वनिष्ठाविरोधित्वं 'चञ्चलं हि मनः कृष्ण' इति गी तायामुक्तम् । अतः कारणात् 'आधीः' ईषद्बुद्धिरहं व्याप्तबुद्धिरपी ति वा 'किं स्वित्' किं नु वक्ष्यामि । किमु किं वा नु इदानीं 'मनि ष्ये' चिन्तयामीति मन्त्रार्थः । तत्त्वप्रदीपे तु—आ समन्ताद्दूरस्थबुद्धि १७