भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 174, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 174

[ अधि - ९. सू - २३. ] दीपिकासहितम्. १२७ भुजः करिष्यमाणः यद्देवान् प्राणयो नव ( तै.आ. ३- १४. ) इति महाभोगशब्देन परमानन्दत्वं प्राणस्योक्तम् ॥ ( ३ ) स च प्राणः प्रसिद्धेर्वायुः इत्यापतति । ( ४ ) न चैवम् । यतो विष्णुरेव प्राणः, अत एव ' श्रीश्च ते विष्णो 'यत्' यस्मात् 'प्रजापतेः' हिरण्यगर्भस्य तदुपलक्षितानां सक लजीवानां 'भुजः' भोगान् योग्यानन्दान् 'करिष्यमाणः' उपलक्षणमेत त्-कुर्वाणोऽकार्षीच्च । 'तस्मात्त्वं' 'महान् भोगः' पूर्णानन्दवान्भव । स्वस्य महाभोगाभावे परस्मै तद्दानानुपपत्तेः । यस्माच्च पायुगुह्यैक्येन नवेन्द्रियाभिमानिनो देवान् त्वं 'प्राणयः' अचेष्टयः । इदमप्युपलक्षणं- चेष्टयसि चेष्टयिष्यसि च । तस्मात्त्वं प्राणः प्राणशब्दवाच्योऽभव इति सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षे त्वेतत्सर्वं मुख्यप्राणे योज्यम् । इती ति। 'इति' तैत्तिरीयशाखागतवाक्ये 'परमानन्दत्वं' पूर्णानन्दत्वमुक्तमि त्यावर्तते । तथा च यदानन्दमयत्वं विष्णोरुक्तं तत्परमानन्दत्वपर्यवसि तं 'तद्वै त्वम्' इति वाक्ये ' महाभोगशब्देन' ' महान् भोगः ' इति प दद्वयात्मकवाक्येन च प्राणस्योक्तमिति योजना । अनेन प्राणाख्यो वि षयः । तस्य विष्ण्वन्यत्वाक्षेपमुखेनानन्दमयत्वस्याप्यन्यनिष्ठत्वाक्षेपा दानन्दमयाधिकरणेनास्याक्षेपिकी सङ्गतिः । सः वायुरुत विष्णुरिति संशयश्च सूचितो भवति ॥ ( ३ ) सयुक्तिकं पूर्वपक्षं दर्शयति— स चेति ॥ तच्छब्द आवर्तते । चशब्दोऽवधारणे । वायुरित्यनेन सम्बध्यते । आनन्दमयश्चेति समुच्च ये वा । तथा च परमानन्दत्वं यस्य प्राणस्योक्तं सः 'प्राणः' तच्छब्द वाच्यो मुख्यवायुरेवेति 'आपतति' प्राप्नोति । अतएवानन्दमयोऽपि स एवेत्यापतति । कुतः? प्रसिद्धेः प्राणश्रुतेः तस्याश्च तस्मिन्वायौ प्र सिद्धे रूढत्वात् । प्राणपदप्रवृत्तिनिमित्तस्य जीवनादिहेतुत्वस्य च श रीरे सति मुख्ये जीवनादिकं सम्भवति नासतीत्यन्वयव्यतिरेकाभ्यां स्वशरीरगतवायुविकारद्वारा मुख्यवायावेव प्रसिद्धेर्दर्शनादिति योजना ॥ ( ४ ) सिद्धान्तयति— न चेति ॥ एवं प्राणस्य वायुत्वं आनन्दमय त्वं च न युक्तमित्यर्थः । कुतो नैवमित्याशङ्कायां तत्र हेतुतया सूत्रं व्याचष्टे—यत इति । सूत्रार्थस्य हेतुत्वद्योतकोऽयं यतश्शब्दः । सूत्रेऽनु वृत्तस्य तद्धितस्यार्थो विष्णुरेवेति । तथा च यतोऽयं प्राणो विष्णुरे