भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 173, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 173

१२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ४ ) अनन्तो भगवान् ब्रह्मा आनन्देत्यादिभिः पदैः । प्रोच्यते विष्णुरेवैकः परेषामुपचारतः । इति ब्राह्मे । ( ५ ) 'नामानि सर्वाणि यमाविशन्ति' ( भाल्लवेय ) इति चोक्तम् ॥ २२ ॥ ९. अधिकरणम् ॥ ( १ ) सू-ॐ ॥ अत एव प्राणः ॥ ॐ ॥ २३ ॥ ( २ ) तद्धै त्वं प्राणो अभवः महान् भोगः प्रजापतेः । ( ४ ) नन्वनन्तत्वं 'अनन्ताकाशवत्पश्यन्' इत्याकाशस्यापि स्म- र्यते, अतः सावकाशत्वात्कथं विष्णोरेव तल्लिङ्गमित्यतः स्मृतिमाह- अनन्त इति ॥ आनन्देति लुप्तविभक्तिको निर्देशः । विष्णुरेवैको मुख्य- तया प्रोच्यत इति सम्बन्धः । 'परेषां' विष्णोरन्येषां 'उपचारतः' स्वस्वसमीपगतपरमात्मसम्बन्धादेव वाच्यतेति शेषः । इति ब्राह्म इत्यस्य तस्यैव तल्लिङ्गमित्युक्तमिति पूर्वेणान्वयः । अनेनैवकारो लिङ्ग- स्य निरवकाशत्वज्ञापक इति सूचितम् ॥ ( ५ ) ननु श्रुत्या पूर्वपक्षिते कथं लिङ्गेन निर्णयः । लिङ्गस्य श्रुति- तो दुर्बलत्वादित्यतः आकाशश्रुतिर्विष्णौ सावकाशेति श्रुत्या दर्शय- ति—नामानीति ॥ 'चो' यतो 'नामानि सर्वाणि' इति वाक्येन वि- ष्णोराकाशादिसर्वशब्दवाच्यत्वमुक्तम्, अतो लिङ्गेन श्रुतेर्बाधया नि- र्णयो युक्त इति योजना ॥ ॥ इत्याकाशाधिकरणम् ॥ ८ ॥ ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे लोकतोऽन्यत्र प्रसिद्धाध्यात्मिकाशेषशब्दोप- लक्षकप्राणशब्दस्य ब्रह्मणि समन्वयः क्रियते । सर्वत्रादौ सूत्रं पाठ्यम् । पश्चात्सङ्गयादिकं वक्तव्यमिति सूचयितुमत्र सूत्रमादावेव पठति- अत एवेति ॥ ( २ ) विषयवाक्योदाहरणपूर्वकं पूर्वाधिकरणेन सङ्गतिं विषयसंश- यौ च सूचयति-तदिति ॥ अत्र यत्तदोरावृत्तिः । भुज्यत इति भोगः आ- नन्दः । तेन तद्वानुपलक्ष्यते, धर्मधर्मिणोरभेदविवक्षा वा । तथा च हे