भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 172, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 172

[ अधि-८. सू-२२.] दीपिकासहितम्. १२५

( ३ ) 'विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि' (ऋ.१-१५४-१.) 'परो मात्रया तन्वा वृ- धान' (ऋ.७-९८-१.) इत्यादिना तस्यैव हि त- ल्लिङ्गम् । परस्मादुत्तमं प्रोक्तं परो इति ततः परम् । परो वरं परं तस्मात्प्रोक्तं पारोवरीयकम् । इति सामसंहितावचनानुसारेणादौ पर इति शब्दान्तरस्य मध्ये वर- शब्दान्तरस्य च आवापेन वृत्तिवाक्ये सुबादेशस्य सोर्लोपेन रुत्वो- त्वगुणेषु समाने परे ओप्रशब्दद्वयस्य लोपे चोत्तमोत्तमोत्तम इत्यर्थो ज्ञातव्यः । 'उद्गीथः' उच्चत्वेन गीत उक्तो वेदेन । तकारस्य थकारो व्यत्ययात् । 'स एषः' आकाशः 'अनन्तो' देशकालगुणैरपरिच्छि- न्न इति । छान्दोग्यभाष्ये तु 'उच्चत्वाद्गीतत्वात्सर्वस्थानस्थत्वादुद्गी- थो भगवान्' इति व्याख्यातम् ॥ ( ३ ) 'स एषोऽनन्तः' इत्युक्तस्यानन्तत्वस्यापरिमितत्वस्य विष्णुनि- ष्ठत्वं कुतो ज्ञायत इत्यत आह—विष्णोरिति ॥ विष्णोर्वीर्याणि 'कं' कोऽनु को वा 'प्रवोचम्' प्रावोचत् । साकल्येन प्रवक्ति न कोऽपि । 'यः' कः कविर्ब्रह्मा 'पार्थिवानि रजांसि' पार्थिवपरमाणून् 'विममे' ग- णयति । सोऽपि न प्रवक्तीति श्रुत्यर्थः । 'परोवरीयान्' इत्युक्तसर्वो- त्तमत्वस्य विष्णुधर्मत्वं कुत इत्यत आह—पर इति । अत्र 'न ते म- हित्वमन्वश्नुवन्ति' इति उत्तरवाक्यादुक्तार्थो ज्ञायते । अत एवादि- शब्द उभयान्वयी । तत्राद्यो 'विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि' इति स्मृतिग्राही । व्याख्यातेयं श्रु- तिर्जन्मनेये । इत्यादिना वाक्येनेति शेषः । यद्यपि श्रुत्यनुसारात्सर्वो- त्तमत्वे प्रथमं प्रमाणं वक्तव्यं न तु अनन्तत्वे । अत एव टीकायामादौ सर्वोत्तमत्वं गृहीतम् । तथाऽपि अनन्तत्वस्य सावकाशत्वशङ्काविषय- त्वात्प्रथमं तत्र प्रमाणोपन्यासः । अत एव तत्रैवोत्तरत्र स्मृत्या सावका- शत्वशङ्कापरिहारः । 'तस्य' विष्णोः हिशब्दो यत इत्यर्थे । 'तत्' अन- न्तत्वादि 'लिङ्गं' धर्म इत्यवगतम् । अतो न हेतुविशेषणासिद्धिरि- ति वाक्यशेषः । एवकारपाठे नानैकान्त्यमिति शेषः । उत्तरत्रान्वयो वा । यद्यपि 'अनन्तः' इति श्रुतिः ; वाचकशब्दत्वात् । तथाऽपि तत्पद- प्रवृत्तिनिमित्तस्य लिङ्गत्वमप्यविरुद्धम् ॥